श्रीवल्लीसहस्रनामस्तोत्रम्

श्रीवल्लीसहस्रनामस्तोत्रम्

(स्कान्दे शङ्करसंहितातः) ब्रह्मोवाच - श‍ृणु नारद मद्वत्स वल्लीनाम्नां सहस्रकम् । स्कन्दक्रीडाविनोदादिबोधकं परमाद्भुतम् ॥ १॥ मुनिरस्म्यहमेवास्य छन्दोऽनुष्टुप् प्रकीर्तितम् । वल्लीदेवी देवता स्यात् व्रां व्रीं व्रूं बीजशक्त्यपि ॥ २॥ कीलकं च तथा न्यस्य व्रां इत्याद्यैः षडङ्गकम् । ॐ अस्य श्री वल्लीसहस्रनाम स्तोत्र मन्त्रस्य भगवान् श्रीब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्रीवल्लीदेवी देवता । व्रां बीजम् । व्रीं शक्तिः । व्रूं कीलकम् । श्रीस्कन्दपतिव्रता भगवती श्रीवल्लीदेवी प्रीत्यर्थं सहस्रनामजपे विनियोगः ॥ ॥ अथ करन्यासः ॥ व्रां अङ्गुष्ठाभ्यां नमः । व्रीं तर्जनीभ्यां नमः । व्रूं मध्यमाभ्यां नमः । व्रैं अनामिकाभ्यां नमः । व्रौं कनिष्ठाभ्यां नमः । व्रः करतलकरपुष्ठाभ्यां नमः ॥ ॥ इति करन्यासः ॥ ॥ अथ हृदयादिषडङ्ग न्यासः ॥ व्रां हृदयाय नमः । व्रीं शिरसे स्वाहा । व्रूं शिखायै वषट् । व्रैं कवचाय हुम् । व्रौं नेत्रत्रयाय वौषट् । व्रः अस्त्राय फट् ॥ ॥ इति हृदयादिषडङ्ग न्यासः ॥ ततः सञ्चिन्तयेद्देवीं वल्लीं स्कन्दपतिव्रताम् ॥ ३॥ श्यामां श्यामालकान्तां द्रुतकनकमणि प्रस्फुरद्दिव्यभूषां गुञ्जामालाभिरामां शिवमुनितनयां काननेन्द्राभिमान्याम् । वामे हस्ते च पद्मं तदितरकरवरं लम्बितं सन्दधानां संस्थां सेनानिदक्षे समुदमपि महावल्लिदेवीं भजेऽहम् ॥ ४॥ इत्येवं चिन्तयित्वाऽम्बां मनसाऽभ्यर्चं सादरम् । पठेन्नामसहस्रं तत् श्रूयतां स्तोत्रमुत्तमम् ॥ ५॥ ॐ वल्ली वल्लीश्वरी वल्लीबह्वा वल्लीनिभाकृतिः । वैकुण्ठाक्षिसमुद्भूता विष्णुसंवर्धिता वरा ॥ ६॥ वारिजाक्षा वारिजास्या वामा वामेतराश्रिता । वन्या वनभवा वन्द्या वनजा वनजासना ॥ ७॥ वनवासप्रिया वादविमुखा वीरवन्दिता । वामाङ्गा वामनयना वलयादिविभूषणा ॥ ८॥ वनराजसुता वीरा वीणावादविदूषिणी । वीणाधरा वैणिकर्षिश्रुतस्कन्दकथा वधूः ॥ ९॥ शिवङ्करी शिवमुनितनया हरिणोद्भवा । हरीन्द्रविनुता हानिहीना हरिणलोचना ॥ १०॥ हरिणाङ्कमुखी हारधरा हरजकामिनी । हरस्नुषा हराधिक्यवादिनी हानिवर्जिता ॥ ११॥ इष्टदा चेभसम्भीता चेभवक्त्रान्तकप्रिया । इन्द्रेश्वरी चेन्द्रनुता चेन्दिरातनयार्चिता ॥ १२॥ इन्द्रादिमोहिनी चेष्टा चेभेन्द्रमुखदेवरा । सर्वार्थदात्री सर्वेशी सर्वलोकाभिवन्दिता ॥ १३॥ सद्गुणा सकला साध्वी स्वाधीनपतिरव्यया । स्वयंवृतपतिः स्वस्था सुखदा सुखदायिनी ॥ १४॥ सुब्रह्मण्यसखी सुभ्रूः सुब्रह्मण्यमनस्विनी । सुब्रह्मण्याङ्कनिलया सुब्रह्मण्यविहारिणी ॥ १५॥ सुरीद्गीता सुरानन्दा सुधासारा सुधाप्रिया । सौधस्था सौम्यवदना स्वामिनी स्वामिकामिनी ॥ १६॥ स्वाम्यद्रिनिलया स्वाम्यहीना सामपरायणा । सामवेदप्रिया सारा सारस्था सारवादिनी ॥ १७॥ सरला सङ्घविमुखा सङ्गीतालापनोत्सुका । साररूपा सती सौम्या सोमजा सुमनोहरा ॥ १८॥ सुष्ठुप्रयुक्ता सुष्ठूक्तिः सुष्ठुवेषा सुरारिहा । सौदामिनीनिभा सुरपुरन्ध्र्युद्गीतवैभवा ॥ १९॥ सम्पत्करी सदातुष्टा साधुकृत्या सनातना । प्रियङ्गुपालिनी प्रीता प्रियङ्गु मुदितान्तरा ॥ २०॥ प्रियङ्गुदीपसम्प्रीता प्रियङ्गुकलिकाधरा । प्रियङ्गुवनमध्यस्था प्रियङ्गुगुडभक्षिणी ॥ २१॥ प्रियङ्गुवनसन्दृष्टगुहा प्रच्छन्नगामिनी । प्रेयसी प्रेय आश्लिष्टा प्रयसीज्ञातसत्कृतिः ॥ २२॥ प्रेयस्युक्तगुहोदन्ता प्रेयस्या वनगामिनी । प्रेयोविमोहिनी प्रेयःकृतपुष्पेषुविग्रहा ॥ २३॥ पीताम्बर प्रियसुता पीताम्बरधरा प्रिया । पुष्पिणी पुष्पसुषमा पुष्पिता पुष्पगन्धिनी ॥ २४॥ पुलिन्दिनी पुलिन्देष्टा पुलिन्दाधिपवर्धिता । पुलिन्दविद्याकुशला पुलिन्दजनसंवृता ॥ २५॥ पुलिन्दजाता वनिता पुलिन्दकुलदेवता । पुरुहूतनुता पुण्या पुण्यलभ्याऽपुरातना ॥ २६॥ पूज्या पूर्णकलाऽपूर्वा पौर्णमीयजनप्रिया । बाला बाललता बाहुयुगला बाहुपङ्कजा ॥ २७॥ बला बलवती बिल्वप्रिया बिल्वदलार्चिता । बाहुलेयप्रिया बिम्ब फलोष्ठा बिरुदोन्नता ॥ २८॥ बिलोत्तारित वीरेन्द्रा बलाढ्या बालदोषहा । लवलीकुञ्जसम्भूता लवलीगिरिसंस्थिता ॥ २९॥ लावण्यविग्रहा लीला सुन्दरी ललिता लता । लतोद्भवा लतानन्दा लताकारा लतातनुः ॥ ३०॥ लताक्रीडा लतोत्साहा लताडोलाविहारिणी । लालिता लालितगुहा ललना ललनाप्रिया ॥ ३१॥ लुब्धपुत्री लुब्धवंश्या लुब्धवेषा लतानिभा । लाकिनी लोकसम्पूज्या लोकत्रयविनोदिनी ॥ ३२॥ लोभहीना लाभकर्त्री लाक्षारक्तपदाम्बुजा । लम्बवामेतरकरा लब्धाम्भोजकरेतरा ॥ ३३ । मृगी मृगसुता मृग्या मृगयासक्तमानसा । मृगाक्षी मार्गितगुहा मार्गक्रीडितवल्लभा ॥ ३४॥ सरलद्रुकृतावासा सरलायितषण्मुखा । सरोविहाररसिका सरस्तीरेभभीमरा ॥ ३५॥ सरसीरुहसङ्काशा समाना समनागता ॥ शबरी शबरीराध्या शबरेन्द्रविवर्धिता ॥ ३६॥ शम्बारारातिसहजा शाम्बरी शाम्बरीमया । शक्तिः शक्तिकरी शक्तितनयेष्टा शरासना ॥ ३७॥ शरोद्भवप्रिया शिञ्जन्मणिभूषा शिवस्नुषा । सनिर्बन्धसखीपृष्टरहः केलिनतानना ॥ ३८ । दन्तक्षतोहितस्कन्दलीला चैव स्मरानुजा । स्मराराध्या स्मरारातिस्नुषा स्मरसतीडिता ॥ ३९॥ सुदती सुमतिः स्वर्णा स्वर्णाभा स्वर्णदीप्रिया । विनायकानुजसखी चानायकपितामहा ॥ ४०॥ प्रियमातामहाद्रीशा पितृस्वस्रेयकामिनी । प्रियमातुलमैनाका सपत्नीजननीधरा ॥ ४१॥ सपत्नीन्द्रसुता देवराजसोदरसम्भवा । विवधानेकभृद्भक्त सङ्घसंस्तुतवैभवा ॥ ४२॥ विश्वेश्वरी विश्ववन्द्या विरिञ्चिमुखसन्नुता । वातप्रमीभवा वायुविनुता वायुसारथिः ॥ ४३॥ वाजिवाहा वज्रभूषा वज्राद्यायुधमण्डिता । विनता विनतापूज्या विनतानन्दनेडिता ॥ ४४॥ वीरासनगता वीतिहोत्राभा वीरसेविता । विशेषशोभा वैश्येष्टा वैवस्वतभयङ्करी ॥ ४५॥ कामेशी कामिनी काम्या कमला कमलाप्रिया । कमलाक्षाक्षिसम्भूता कुमौदा कुमुदोद्भवा ॥ ४६॥ कुरङ्गनेत्रा कुमुदवल्ली कुङ्कुमशोभिता । गुञ्जाहारधरा गुञ्जामणिभूषा कुमारगा ॥ ४७॥ कुमारपत्नी कौमारीरूपिणी कुक्कुटध्वजा । कुक्कुटारावमुदिता कुक्कुटध्वजमेदुरा ॥ ४८॥ कुक्कुटाजिप्रिया केलिकरा कैलासवासिनी । कैलासवासितनयकलत्रं केशवात्मजा ॥ ४९॥ किराततनया कीर्तिदायिनी कीरवादिनी । किरातकी किरातेड्या किराताधिपवन्दिता ॥ ५०॥ कीलकीलितभक्तेड्या कलिहीना कलीश्वरी । कार्तस्वरसमच्छाया कार्तवीर्यसुपूजिता ॥ ५१॥ काकपक्षधरा केकिवाहा केकिविहारिणी । कृकवाकुपताकाढ्या कृकवाकुधरा कृशा ॥ ५२॥ कृशाङ्गी कृष्णसहजपूजिता कृष्ण वन्दिता । कल्याणाद्रिकृतावासा कल्याणायातषण्मुखा ॥ ५३॥ कल्याणी कन्यका कन्या कमनीया कलावती । कारुण्यविग्रहा कान्ता कान्तक्रीडारतोत्सवा ॥ ५४॥ कावेरीतीरगा कार्तस्वराभा कामितार्थदा । विवधासहमानास्या विवधोत्साहितानना ॥ ५५॥ वीरावेशकरी वीर्या वीर्यदा वीर्यवर्धिनी ॥ वीरभद्रा वीरनवशतसाहस्रसेविता ॥ ५६॥ विशाखकामिनी विद्याधरा विद्याधरार्चिता । शूर्पकारातिसहजा शूर्पकर्णानुजाङ्गना ॥ ५७॥ शूर्पहोत्री शूर्पणखासहोदरकुलान्तका । शुण्डालभीता शुण्डालमस्तकाभस्तनद्वया ॥ ५८॥ शुण्डासमोरुयुगला शुद्धा शुभ्रा शुचिस्मिता । श्रुता श्रुतप्रियालापा श्रुतिगीता शिखिप्रिया ॥ ५९॥ शिखिध्वजा शिखिगता शिखिनृत्तप्रिया शिवा । शिवलिङ्गार्चनपरा शिवलास्येक्षणोत्सुका ॥ ६०॥ शिवाकारान्तरा शिष्टा शिवादेशानुचारिणी । शिवस्थानगता शिष्यशिवकामा शिवाद्वया ॥ ६१॥ शिवतापससम्भूता शिवतत्त्वावबोधिका । श‍ृङ्गाररससर्वस्वा श‍ृङ्गाररसवारिधिः ॥ ६२॥ श‍ृङ्गारयोनिसहजा श‍ृङ्गबेरपुराश्रिता । श्रिताभीष्टप्रदा श्रीड्या श्रीजा श्रीमन्त्रवादिनी ॥ ६३॥ श्रीविद्या श्रीपरा श्रीशा श्रीमयी श्रीगिरिस्थिता । शोणाधरा शोभनाङ्गी शोभना शोभनप्रदा ॥ ६४॥ शेषहीना शेषपूज्या शेषतल्पसमुद्भवा । शूरसेना शूरपद्मकुलधूमपताकिका ॥ ६५॥ शून्यापाया शून्यकटिः शून्यसिंहासनस्थिता । शून्यलिङ्गा शून्य शून्या शौरिजा शौर्यवर्धिनी ॥ ६६॥ शरानेकस्यूतकायभक्तसङ्घाश्रितालया । शश्वद्वैवधिकस्तुत्या शरण्या शरणप्रदा ॥ ६७॥ अरिगण्डादिभयकृद्यन्त्रोद्वाहिजनार्चिता । कालकण्ठस्नुषा कालकेशा कालभयङ्करी ॥ ६८॥ अजावाहा चाजामित्रा चाजासुरहरा ह्यजा । अजामुखीसुतारातिपूजिता चाजराऽमरा ॥ ६९॥ आजानपावनाऽद्वैता आसमुद्रक्षितीश्वरी । आसेतुहिमशैलार्च्या आकुञ्चित शिरोरुहा ॥ ७०॥ आहाररसिका चाद्या आश्चर्यनिलया तथा । आधारा च तथाऽऽधेया तथाचाधेयवर्जिता ॥ ७१॥ आनुपूर्वीक्लृप्तरथा चाशापालसुपूजिता । उमास्नुषा उमासूनुप्रिया चोत्सवमोदिता ॥ ७२॥ ऊर्ध्वगा ऋद्धिदा ऋद्धा औषधीशातिशायिनी । औपम्यहीना चौत्सुक्यकरी चौदार्यशालिनी ॥ ७३॥ श्रीचक्रवालातपत्रा श्रीवत्साङ्कितभूषणा । श्रीकान्तभागिनेयेष्टा श्रीमुखाब्दाधिदेवता ॥ ७४॥ इयं नारी वरनुता पीनोन्नतकुचद्वया । श्यामा यौवनमध्यस्था का जाता सा गृहादृता ॥ ७५॥ एषा सम्मोहिनी देवी प्रियलक्ष्या वराश्रिता । कामाऽनुभुक्ता मृगयासक्ताऽऽवेद्या गुहाश्रिता ॥ ७६॥ पुलिन्दवनितानीता रहः कान्तानुसारिणी । निशा चाक्रीडिताऽऽबोध्या निर्निद्रा पुरुषायिता ॥ ७७॥ स्वयंवृता सुदृक् सूक्ष्मा सुब्रह्मण्यमनोहरा । परिपूर्णाचलारूढा शबरानुमताऽनघा ॥ ७८॥ चन्द्रकान्ता चन्द्रमुखी चन्दनागरुचर्चिता । चाटुप्रियोक्तिमुदिता श्रेयोदात्री विचिन्तिता ॥ ७९॥ मूर्धास्फाटिपुराधीशा मूर्धारूढपदाम्बुजा । मुक्तिदा मुदिता मुग्धा मुहुर्ध्येया मनोन्मनी ॥ ८०॥ चित्रितात्मप्रियाकारा चिदम्बरविहारिणी । चतुर्वेदस्वरारावा चिन्तनीया चिरन्तनी ॥ ८१॥ कार्तिकेयप्रिया कामसहजा कामिनीवृता । काञ्चनाद्रिस्थिता कान्तिमती साधुविचिन्तिता ॥ ८२॥ नारायणसमुद्भूता नागरत्नविभूषणा । नारदोक्तप्रियोदन्ता नम्या कल्याणदायिनी ॥ ८३॥ नारदाभीष्टजननी नाकलोकनिवासिनी । नित्यानन्दा निरतिशया नामसाहस्रपूजिता ॥ ८४॥ पितामहेष्टदा पीता पीताम्बरसमुद्भवा । पीताम्बरोज्ज्वला पीननितम्बा प्रार्थिता परा ॥ ८५॥ गण्या गणेश्वरी गम्या गहनस्था गजप्रिया । गजारूढा गजगतिः गजाननविनोदिनी ॥ ८६॥ अगजाननपद्मार्का गजाननसुधाकरा । गन्धर्ववन्द्या गन्धर्वतन्त्रा गन्धविनोदिनी ॥ ८७॥ गान्धर्वोद्वाहिता गीता गायत्री गानतत्परा । गतिर्गहनसम्भूता गाढाश्लिष्टशिवात्मजा ॥ ८८॥ गूढा गूढचरा गुह्या गुह्यकेष्टा गुहाश्रिता । गुरुप्रिया गुरुस्तुत्य गुण्या गुणिगणाश्रिता ॥ ८९॥ गुणगण्या गूढरतिः गीर्गीर्विनुतवैभवा । गीर्वाणी गीतमहिमा गीर्वाणेश्वरसन्नुता ॥ ९०॥ गीर्वाणाद्रिकृतावासा गजवल्ली गजाश्रिता । गाङ्गेयवनिता गङ्गासूनुकान्ता गिरीश्वरी ॥ ९१॥ देवसेनासपत्नी या देवेन्द्रानुजसम्भवा । देवरेभभयाविष्टा सरस्तीरलुठद्गतिः ॥ ९२॥ वृद्धवेषगुहाक्लिष्टा भीता सर्वाङ्गसुन्दरी । निशासमानकबरी निशाकरसमानना ॥ ९३॥ निर्निद्रिताक्षिकमला निष्ठ्यूतारुणभाधरा । शिवाचार्यसती शीता शीतला शीतलेक्षणा ॥ ९४॥ किमेतदिति साशङ्कभटा धम्मिल्लमार्गिता । धम्मिल्लसुन्दरी धर्त्री धात्री धातृविमोचिनी ॥ ९५॥ धनदा धनदप्रीता धनेशी धनदेश्वरी । धन्या ध्यानपरा धारा धराधारा धराधरा ॥ ९६॥ धरा धराधरोद्भूता धीरा धीरसमर्चिता । किं करोषीति सम्पृष्टगुहा साकूतभाषिणी ॥ ९७॥ रहो भवतु तद्भूयात् शमित्युक्तप्रिया स्मिता । कुमारज्ञात काठिन्यकुचाऽर्धोरुलसत्कटी ॥ ९८॥ कञ्चुकी कञ्चुकाच्छन्ना काञ्चीपट्टपरिष्कृता । व्यत्यस्तकच्छा विन्यस्तदक्षिणांसांशुकाऽतुला ॥ ९९॥ बन्धोत्सुकितकान्तान्ता पुरुषायितकौतुका । पूता पूतवती पृष्टा पूतनारिसमर्चिता ॥ १००॥ कण्टकोपानहोन्नृत्यद्भक्ता दण्डाट्टहासिनी । आकाशनिलया चाकाशा आकाशायितमध्यमा ॥ १०१॥ आलोललोलाऽऽलोला चालोलोत्सारिताण्डजा । रम्भोरुयुगला रम्भापूजिता रतिरञ्जनी ॥ १०२॥ आरम्भवादविमुखा चेलाक्षेपप्रियासहा । अन्यासङ्गप्रियोद्विग्ना अभिरामा ह्यनुत्तमा ॥ १०३॥ सत्वरा त्वरिता तुर्या तारिणी तुरगासना । हंसारूढा व्याघ्रगता सिंहारूढाऽऽरुणाधरा ॥ १०४॥ कृत्तिकाव्रतसम्प्रीता कार्तिकेयविमोहिनी । करण्डमकुटा कामदोग्ध्री कल्पद्रुसंस्थिता ॥ १०५॥ वार्ताव्यङ्ग्यविनोदेष्टा वञ्चिता वञ्चनप्रिया । स्वाभादीप्तगुहा स्वाभाबिम्बितेष्टा स्वयङ्ग्रहा ॥ १०६॥ मूर्धाभिषिक्तवनिता मरालगतिरीश्वरी । मानिनी मानिता मानहीना मातामहेडिता ॥ १०७॥ मिताक्षरी मिताहारा मितवादाऽमितप्रभा । मीनाक्षी मुग्धहसना मुग्धा मूर्तिमती मतिः ॥ १०८॥ माता मातृसखानन्दा मारविद्याऽमृताक्षरा । अपञ्चीकृतभूतेशी पञ्चीकृत वसुन्धरा ॥ १०९॥ विफलीकृतकल्पद्रुरफलीकृतदानवा । अनादिषट्कविपुला चादिषट्काङ्गमालिनी ॥ ११० । नवकक्षायितभटा नववीरसमर्चिता । रासक्रीडाप्रिया राधाविनुता राधेयवन्दिता ॥ १११॥ राजचक्रधरा राज्ञी राजीवाक्षसुता रमा । रामा रामादृता रम्या रामानन्दा मनोरमा ॥ ११२॥ रहस्यज्ञा रहोध्येया रङ्गस्था रेणुकाप्रिया । रैणुकेयनुता रेवाविहारा रोगनाशिनी ॥ ११३॥ विटङ्का विगताटङ्का विटपायितषण्मुखा । वीटिप्रिया वीरुड्ध्वजा वीरुट्प्रीतमृगावृता ॥ ११४॥ वीशारूढा वीशरत्नप्रभाऽविदितवैभवा । चित्रा चित्ररथा चित्रसेना चित्रितविग्रहा ॥ ११५॥ चित्रसेननुता चित्रवसना चित्रिता चितिः । चित्रगुप्तार्चिता चाटुवचना चारुभूषणा ॥ ११६॥ चमत्कृतिश्चमत्कारभ्रमितेष्टा चलत्कचा । छायापतङ्गबिम्बास्या छविनिर्जितभास्करा ॥ ११७॥ छत्रध्वजादिबिरुदा छात्रहीना छवीश्वरी । जननी जनकानन्दा जाह्नवीतनयप्रिया ॥ ११८॥ जाह्नवीतीरगा जानपदस्थाऽजनिमारणा । जम्भभेदिसुतानन्दा जम्भारिविनुता जया ॥ ११९ । जयावहा जयकरी जयशीला जयप्रदा । जिनहन्त्री जैनहन्त्री जैमिनीयप्रकीर्तिता ॥ १२०॥ ज्वरघ्नी ज्वलिता ज्वालामाला जाज्वल्यभूषणा । ज्वालामुखी ज्वलत्केशा ज्वलद्वल्लीसमुद्भवा ॥ १२१॥ ज्वलत्कुण्डान्तावतरद्भक्ता ज्वलनभाजना । ज्वलनोद्धूपितामोदा ज्वलद्दीप्तधरावृता ॥ १२२॥ जाज्वल्यमाना जयिनी जितामित्रा जितप्रिया । चिन्तामणीश्वरी छिन्नमस्ता छेदितदानवा ॥ १२३॥ खड्गधारोन्नटद्दासा खड्गरावणपूजिता । खड्गसिद्धिप्रदा खेटहस्ता खेटविहारिणी ॥ १२४॥ खट्वाङ्गधरजप्रीता खादिरासन संस्थिता । खादिनी खादितारातिः खनीशी खनिदायिनी ॥ १२५॥ अङ्कोलितान्तरगुहा अङ्कुरदन्तपङ्क्तिका । न्यङ्कूदरसमुद्भूताऽभङ्गुरापाङ्गवीक्षणा ॥ १२६॥ पितृस्वामिसखी पतिवरारूढा पतिव्रता । प्रकाशिता पराद्रिस्था जयन्तीपुरपालिनी ॥ १२७॥ फलाद्रिस्था फलप्रीता पाण्ड्यभूपालवन्दिता । अफला सफला फालदृक्कुमारतपःफला ॥ १२८॥ कुमारकोष्ठगा कुन्तशक्तिचिह्नधरावृता । स्मरबाणायितालोका स्मरविद्योहिताकृतिः ॥ १२९॥ कालमेघायितकचा कामसौभाग्य वारिधिः । कान्तालकान्ता कामेड्या करकोन्नर्तन प्रिया ॥ १३०॥ पौनः पुन्यप्रियालाया पम्पावाद्यप्रियाधिका । रमणीया स्मरणीया भजनीया परात्परा ॥ १३१॥ नीलवाजिगता नीलखड्गा नीलांशुकाऽनिला । रात्रिर्निद्रा भगवती निद्राकर्त्री विभावरी ॥ १३२॥ शुकायमानकायोक्तिः किंशुकाभाधराम्बरा । शुकमानितचिद्रूपा संशुकान्तप्रसाधिनी ॥ १३३॥ गूढोक्ता गूढगदिता गुहसङ्केतिताऽगगा । धैर्या धैर्यवती धात्रीप्रेषिताऽवाप्तकामना ॥ १३४॥ सन्दृष्टा कुक्कुटारावध्वस्तधम्मिल्लजीविनी । भद्रा भद्रप्रदा भक्तवत्सला भद्रदायिनी ॥ १३५॥ भानुकोटिप्रतीकाशा चन्द्रकोटिसुशीतला । ज्वलनान्तःस्थिता भक्तविनुता भास्करेडिता ॥ १३६॥ अभङ्गुरा भारहीना भारती भारतीडिता । भरतेड्या भारतेशी भुवनेशी भयापहा ॥ १३७॥ भैरवी भैरवीसेव्या भोक्त्री भोगीन्द्रसेविता । भोगेडिता भोगकरी भेरुण्डा भगमालिनी ॥ १३८॥ भगाराध्या भागवतप्रगीताऽभेदवादिनी । अन्याऽनन्या निजानन्या स्वानन्याऽनन्यकामिनी ॥ १३९॥ यज्ञेश्वरी यागशीला यज्ञोद्गीतगुहानुगा । सुब्रह्मण्यगानरता सुब्रह्मण्यसुखास्पदा ॥ १४०॥ कुम्भजेड्या कुतुकिता कौसुम्भाम्बरमण्डिता । संस्कृता संस्कृतारावा सर्वावयवसुन्दरी ॥ १४१॥ भूतेशी भूतिदा भूतिः भूतावेशनिवारिणी । भूषणायितभूताण्डा भूचक्रा भूधराश्रिता ॥ १४२॥ भूलोकदेवता भूमा भूमिदा भूमिकन्यका । भूसुरेड्या भूसुरारिविमुखा भानुबिम्बगा ॥ १४३॥ पुरातनाऽभूतपूर्वाऽविजातीयाऽधुनातना । अपरा स्वगताभेदा सजातीयविभेदिनी ॥ १४४॥ अनन्तराऽरविन्दाभा हृद्या हृदयसंस्थिता । ह्रीमती हृदयासक्ता हृष्टा हृन्मोहभास्करा ॥ १४५॥ हारिणी हरिणी हारा हारायितविलासिनी । हरारावप्रमुदिता हीरदा हीरभूषणा ॥ १४६॥ हीरभृद्विनुता हेमा हेमाचलनिवासिनी । होमप्रिया हौत्रपरा हुङ्कारा हुम्फडुज्ज्वला ॥ १४७॥ हुताशनेडिता हेलामुदिता हेमभूषणा । ज्ञानेश्वरी ज्ञाततत्त्वा ज्ञेया ज्ञेयविवर्जिता ॥ १४८॥ ज्ञानं ज्ञानाकृतिर्ज्ञानिविनुता ज्ञातिवर्जिता । ज्ञाताखिला ज्ञानदात्री ज्ञाताज्ञातविवर्जिता ॥ १४९॥ ज्ञेयानन्या ज्ञेयगुहा विज्ञेयाऽज्ञेयवर्जिता । आज्ञाकरी पराज्ञाता प्राज्ञा प्रज्ञावशेषिता ॥ १५०॥ स्वाज्ञाधीनामराऽनुज्ञाकाङ्क्षोन्नृत्यत्सुराङ्गना । सगजा अगजानन्दा सगुहा अगुहान्तरा ॥ १५१॥ साधारा च निराधारा भूधरस्थाऽतिभूधरा । सगुणा चागुणाकारा निर्गुणा च गुणाधिका ॥ १५२॥ अशेषा चाविशेषेड्या शुभदा चाशुभापहा । अतर्क्या व्याकृता न्यायकोविदा तत्त्वबोधिनी ॥ १५३॥ साङ्ख्योक्ता कपिलानन्दा वैशेषिकविनिश्चिता । पुराणप्रथिताऽपारकरुणा वाक्प्रदायिनी ॥ १५४॥ सङ्ख्याविहीनाऽसङ्ख्येया सुस्मृता विस्मृतापहा । वीरबाहुनुता वीरकेसरीडितवैभवा ॥ १५५॥ वीरमाहेन्द्रविनुता वीरमाहेश्वरार्चिता । वीरराक्षससम्पूज्या वीरमार्तण्डवन्दिता ॥ १५६॥ वीरान्तकस्तुता वीरपुरन्दरसमर्चिता । वीरधीरार्चितपदा नववीरसमाश्रिता ॥ १५७॥ भैरवाष्टकसंसेव्या ब्रह्माद्यष्टकसेविता । इन्द्राद्यष्टकसम्पूज्या वज्राद्यायुधशोभिता ॥ १५८॥ अङ्गावरणसंयुक्ता चानङ्गामृतवर्षिणी । तमोहन्त्री तपोलभ्या तमालरुचिराऽबला ॥ १५९॥ सानन्दा सहजानन्दा गुहानन्दविवर्धिनी । परानन्दा शिवानन्दा सच्चिदानन्दरूपिणी ॥ १६०॥ पुत्रदा वसुदा सौख्यदात्री सर्वार्थदायिनी । योगारूढा योगिवन्द्या योगदा गुहयोगिनी ॥ १६१॥ प्रमदा प्रमदाकारा प्रमादात्री प्रमामयी । भ्रमापहा भ्रामयित्री प्रधाना प्रबला प्रमा ॥ १६२॥ प्रशान्ता प्रमितानन्दा परमानन्दनिर्भरा । पारावारा परोत्कर्षा पार्वतीतनयप्रिया ॥ १६३॥ प्रसाधिता प्रसन्नास्या प्राणायामपरार्चिता । पूजिता साधुविनुता सुरसास्वादिता सुधा ॥ १६४॥ स्वामिनी स्वामिवनिता समनीस्था समानिता । सर्वसम्मोहिनी विश्वजननी शक्तिरूपिणी ॥ १६५॥ कुमारदक्षिणोत्सङ्गवासिनी भोगमोक्षदा ॥ ॐ । एवं नामसहस्रं ते प्रोक्तं नारद शोभनम् ॥ १६६॥ सुब्रह्मण्यस्य कान्ताया वल्लीदेव्याः प्रियङ्करम् । नित्यं सङ्कीर्तयेदेतत्सर्वान्कामानवाप्नुयात् ॥ १६७॥ शुक्रवारे भौमवारे षष्ठ्यां वा कृत्तिकास्यपि । सङ्क्रमादिषु कालेषु ग्रहणे चन्द्रसूर्ययोः ॥ १६८॥ पठेदिदं विशेषेण सर्वसिद्धिमवाप्नुयात् । एभिर्नामभिरम्बां यः कुङ्कुमादिभिरर्चयेत् ॥ १६९॥ यद्यद्वाञ्छति तत्सर्वमचिराज्जायते ध्रुवम् । सुब्रह्मण्योऽपि सततं प्रीतः सर्वार्थदो भवेत् ॥ १७०॥ पुत्रपौत्रादिदं सर्वसम्पत्प्रद मघापहम् । विद्याप्रदं विशेषेण सर्वरोगनिवर्तकम् ॥ १७१॥ दुष्टारिष्टप्रशमनं ग्रहशान्तिकरं वरम् । जपादस्य प्रभावेण सर्वाः सिद्ध्यन्ति सिद्धयः । गोपनीयं पठ त्वं च सर्वमाप्नुहि नारद ॥ १७२॥ ॥ स्कान्दे शङ्करसंहितातः ॥ From Bhagavati Stutimanjari (Mahaperiyaval Trust) Encoded and proofread by Sunder Hattangadi
% Text title            : vallIsahasranAmastotram
% File name             : vallIsahasranAmastotra.itx
% itxtitle              : vallIsahasranAmastotram
% engtitle              : Shri Valli Sahasranama Stotra
% Category              : sahasranAma, subrahmanya, stotra, vyAsa
% Location              : doc_devii
% Sublocation           : subrahmanya
% Texttype              : stotra
% Author                : Vyasa (Skanda Purana - Shankara Samhita)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Source                : Bhagavati Stutimanjari (Mahaperiyaval Trust)
% Latest update         : October 19, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org