श्रीकृष्णस्तोत्रं ब्रह्मवैवर्तपुराणे सरस्वतीकृतम्
सरस्वत्युवाच ।
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् ।
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥ १॥
रासेश्वरं ऱासकरं वरं ऱासेश्वरीश्वरम् ।
ऱसाधिष्ठातृदेवं च वन्दे ऱासविनोदिनम् ॥ २॥
रासायासपरिश्रान्तं रासरासविहारिणम् ।
रासोत्सुकानां गोपीनां कान्तं शान्तं मनोहरम् ॥ ३॥
प्रणम्य च तमित्युक्त्वा प्रह्यष्टवदना सती ।
उवास सा सकामा च रत्नसिंहासने वरे ॥ ४॥
इति वाणीकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ।
बुद्धिमान्धनवान्सोऽपि विद्यावान्पुत्रवान्सदा ॥ ५॥
इति ब्रह्मावैवर्ते सरस्वतीकृतं श्रीकृष्णस्तोत्रम् ।
brahmavaivartapurANa brahmakhaNDam adhyAya 3 shloka 60-64
Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com