रमापत्यष्टकम्
श्रीगणेशाय नमः ॥
जगदादिमनादिमजं पुरुषं शरदम्बरतुल्यतनुं वितनुम् ।
धृतकञ्जरथाङ्गगदं विगदं प्रणमामि रमाधिपतिं तमहम् ॥ १॥
कमलाननकञ्जरतं विरतं हृदि योगिजनैः कलितं ललितम् ।
कुजनैः सुजनैरलभं सुलभं प्रणमामि रमाधिपतिं तमहम् ॥ २॥
मुनिवृन्दहृदिस्थपदं सुपदं निखिलाध्वरभागभुजं सुभुजम् ।
हृतवासवमुख्यमदं विमदं प्रणमामि रमाधिपतिं तमहम् ॥ ३॥
हृतदानवदृप्तबलं सुबलं स्वजनास्तसमस्तमलं विमलम् ।
समपास्त गजेन्द्रदरं सुदरं प्रणमामि रमाधिपतिं तमहम् ॥ ४॥
परिकल्पितसर्वकलं विकलं सकलागमगीतगुणं विगुणम् ।
भवपाशनिराकरणं शरणं प्रणमामि रमाधिपतिं तमहम् ॥ ५॥
मृतिजन्मजराशमनं कमनं शरणागतभीतिहरं दहरम् ।
परितुष्टरमाहृदयं सुदयं प्रणमामि रमाधिपतिं तमहम् ॥ ६॥
सकलावनिबिम्बधरं स्वधरं परिपूरितसर्वदिशं सुदृशम् ।
गतशोकमशोककरं सुकरं प्रणमामि रमाधिपतिं तमहम् ॥ ७॥
मथितार्णवराजरसं सरसं ग्रथिताखिललोकहृदं सुहृदम् ।
प्रथिताद्भुतशक्तिगणं सुगणं प्रणमामि रमाधिपतिं तमहम् ॥ ८॥
सुखराशिकरं भवबन्धहरं परमाष्टकमेतदनन्यमतिः ।
पठतीह तु योऽनिशमेव नरो लभते खलु विष्णुपदं स परम् ॥ ९॥
इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरमापत्यष्टकं सम्पूर्णम् ॥
Proofread by PSA EASWARAN