श्रीगणेशाष्टोत्तरशतनामस्तोत्रम्

श्रीगणेशाष्टोत्तरशतनामस्तोत्रम्

श्रीगणेशाय नमः । यम उवाच । मन्दारमालाशमिकाष्ठजा च यस्यैव देहे भवति प्रमाणम् । पुष्पं तयोः पत्रयुतं च शूराः सन्त्यज्य दूरं चरत प्रभीताः ॥ ३३॥ दूर्वायुतं विघ्नहरस्य गाथां सङ्गायमानं यदि पापयुक्तम् । पूजादिकारं गणनायकस्य सन्त्यज्य दूरं चरत प्रभीताः ॥ ३४॥ (अष्टोत्तरशतनामस्तोत्रं प्रारभ्यते) गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन् । वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदन्तमेवं त्यजत प्रभीताः ॥ ३५॥ अनेकविघ्नान्तक वक्रतुण्ड स्वसंज्ञवासिंश्च चतुर्भुजेति । कवीश देवान्तकनाशकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ३६॥ महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र । परेश धरणीधर एकदन्त वदन्तमेवं त्यजत प्रभीताः ॥ ३७॥ धरणीधर var पृथ्वीधर प्रमोदमोदेति नरान्तकारे षडूर्मिहन्तर्गजकर्ण ढुण्ढे । द्वन्द्वारिसिन्धौ स्थिरभावकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ३८॥ विनायक ज्ञानविघातशत्रो पराशरस्यात्मज विष्णुपुत्र । अनादिपूज्याखुग सर्वपूज्य वदन्तमेवं त्यजत प्रभीताः ॥ ३९॥ विधेर्ज लम्बोदर धूम्रवर्ण मयूरपालेति मयूरवाहिन् । विधेर्ज var वैरिञ्च्य सुरासुरैः सेवितपादपद्म वदन्तमेवं त्यजत प्रभीताः ॥ ४०॥ वरिन् महाखुध्वज शूर्पकर्ण शिवाज सिंहस्थ अनन्तवाह । दितौज विघ्नेश्वर शेषनाभे वदन्तमेवं त्यजत प्रभीताः ॥ ४१॥ अणोरणीयन् महतो महीयन् रवेर्ज योगेश वरिष्ठराज । निधीश मन्त्रेश च शेषपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ४२॥ वरप्रदातर्ह्यदितेश्च सूनो पराशरज्ञानद तारवक्त्र । पराशरज्ञानद var परात्पर, ज्ञानद गुहाग्रज ब्रह्मप पार्श्वपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ४३॥ सिन्धोश्च शत्रो परशुप्रपाणे शमीश पुष्पप्रिय विघ्नहारिन् । दूर्वाभरैरर्चित देवदेव वदन्तमेवं त्यजत प्रभीताः ॥ ४४॥ धियः प्रदातश्च शमीप्रियेति सुसिद्धिदातश्च सुशान्तिदातः । अमेयमायामितविक्रमेति वदन्तमेवं त्यजत प्रभीताः ॥ ४५॥ द्विधा चतुर्थीप्रिय कश्यपाज्ज धनप्रद ज्ञानप्रद प्रकाश । चिन्तामणे चित्तविहारकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ४६॥ यमस्य शत्रो अभिमानशत्रो विधेर्जहन्तः कपिलस्य सूनो । विधेर्जहन्तः var विघ्नौघहन्तः विदेह स्वानन्द अयोगयोग वदन्तमेवं त्यजत प्रभीताः ॥ ४७॥ गणस्य शत्रो कमलस्य शत्रो समस्थ भावज्ञ च भालचन्द्र । समस्थ भावज्ञ var समस्तभावज्ञ अनादिमध्यान्तमयप्रचारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ४८॥ विभो जगद्रूप गुणेश भूमन् पुष्टेः पते आखुगतेति बोध । कर्तश्च पातश्च तु संहरेति वदन्तमेवं त्यजत प्रभीताः ॥ ४९॥ (फलश्रुतिः) इदमष्टोत्तरशतं नाम्नां तत् प्रपठन्ति ये । श‍ृण्वन्ति तेषु कुरुत भीता मा वै प्रवेशनम् ॥ ५०॥ भुक्तिमुक्तिप्रदं ढुण्ढेर्धनधान्यप्रवर्धनम् । ब्रह्मभूयकरं स्तोत्रं जपतो नित्यमादरात् ॥ ५१॥ यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः । धामानि तत्र कुरुत सम्भीता मा प्रवेशनम् ॥ ५२॥ तेन संस्थापिताः सर्वे स्वस्वकार्येषु सेवकाः । केशाद्यास्तत्र के यूयं वयं भजत तं सदा ॥ ५३॥ एवमुक्त्वा यमः सर्वान् किङ्करान् मौनमादधे । यामाः सर्वे गणेशानं भजते भावसंयुताः ॥ ५४॥ इदं शमीभवं पुण्यं माहात्म्यं यः श‍ृणोति चेत् । पठति सिद्धिदं तस्य मन्दारस्य भविष्यति ॥ ५५॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शमीमन्दारस्पर्श- महिमावर्णनं नाम षड्विंशतितमाऽध्यायान्तर्गतं श्रीगणेश अष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥ Proofread by Karthik Chandan.P, Amith K Nagaraj, PSA Easwaran
% Text title            : gaNeshAShTottarashatanAmastotram 1
% File name             : gaNeshAShTottarashatanAmastotram.itx
% itxtitle              : gaNeshAShTottarashatanAmastotram 1 (yamaproktam mudgalapurANAntargatam gaNesha heraMba)
% engtitle              : Ganesha Ashtottarashatanama Stotram 1
% Category              : aShTottarashatanAma, ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : Karthik Chandan.P, Amith K Nagaraj, PSA Easwaran
% Description-comments  : Mudgalapurana khaNDa 5, adhyAya 26, shlokAH 33-55. See corresopnding nAmAvalI.
% Indexextra            : (Scan, nAmAvaliH)
% Latest update         : August 1, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org