गुरुकवचं कङ्कालमालिनीतन्त्रे

गुरुकवचं कङ्कालमालिनीतन्त्रे

॥ अथ गुरुकवचं कङ्कालमालिनीतन्त्रे ॥ देव्युवाच ॥ भूतनाथ ! महादेव ! कवचं तस्य मे वद । गुरुदेवस्य देवेश ! साक्षाद्ब्रह्मस्वरूपिणः ॥ १॥ ईश्वर उवाच ॥ अथा ते कथयामीशे ! कवचं मोक्षदायकम् । यस्य ज्ञानं विना देवि ! न सिद्धिर्न च सद्गतिः ॥ २॥ ब्रह्मादयोऽपि गिरिजे ! सर्वत्र जयिनः स्मृताः । अस्य प्रसादात् सकला वेदागमपुरःसराः ॥ ३॥ कवचस्यास्य देवेशि ! ऋषिर्विष्णुरुदाहृतः । छन्दो विराड् देवता च गुरुदेवः स्वयं शिवः ॥ ४॥ छतुर्वर्गे ज्ञानमार्गे विनियोगः प्रकीर्त्तितः । सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥ ५॥ वामोरुस्थितशक्तिर्यः सर्वत्र परिरक्षतु । परमाख्यो गुरुः पातु शिरसं मम वल्लभे ! ॥ ६॥ परापराख्यो नासां मे परमेष्ठी मुखं सदा । कण्ठं मम सदा पातु प्रह्लादानन्दनाथकः ॥ ७॥ बाहू द्वौ सनकानन्दः कुमारानन्द एव च । वशिष्ठानन्दनाथश्च हृदयं पातु सर्वदा ॥ ८॥ क्रोधानन्दः कटिं पातु सुखानन्दः पदं मम । ध्यानानन्दश्च सर्वाङ्गं बोधानन्दश्च कानने ॥ ९॥ सर्वत्र गुरवः पान्तु सर्वे ईश्वररूपिणः । इति ते कथितं भद्रे ! कवचं परमं शिवे ! ॥ १०॥ भक्तिहीने दुराचारे दत्त्वैतन्मृत्युमाप्नुयात् ॥ अस्यैव पठनाद्देवि ! धारणात्छ्रवणात् प्रिये ! ॥ ११॥ जायते मन्त्रसिद्धिश्च किमन्यत् कथयामि ते । कण्ठे वा दक्षिणे बाहौ शिखायां वीरवन्दिते ! ॥ १२॥ धारणान्नाशयेत् पापं गङ्गायां कल्मषं यथा । इदं कवचमज्ञात्वा यदि मन्त्रं जपेत् प्रिये ! ॥ १३॥ तत् सर्वं निष्फलं कृत्वा गुरुर्याति सुनिश्चितम् । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ १४॥ ॥ इति कङ्कालमालिनीतन्त्रे गुरुकवचं समाप्तम् ॥ http://muktalib5.org Proofread byDPD
% Text title            : gurukavachaM kaNkAlamAlinItantre
% File name             : gurukavachaMkankAlamAlinItantra.itx
% itxtitle              : gurukavacham (kaNkAlamAlinItantrAntargatam)
% engtitle              : Gurukavacham from KakalamAlinitantra
% Category              : kavacha, deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : http://muktalib5.org
% Proofread by          : http://muktalib5.org, DPD
% Description-comments  : kaNkAlamAlinItantra
% Latest update         : August 16, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org