गायत्रीहृदयम्
॥ अथ श्रीमद्देवीभागवते महापुराणे गायत्रीहृदयम् ॥
नारद उवाच ।
भगवन्देवदेवेश भूतभव्य जगत्प्रभो ।
कवचं च शृतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ १॥
अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् ।
यद्धारणाद्भवेत्पुण्यं गायत्रीजपतोऽखिलम् ॥ २॥
श्रीनारायण उवाच ।
देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् ।
तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ ३॥
विराड्रूपां महादेवीं गायत्रीं वेदमातरम् ।
ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः ॥ ४॥
पिण्डब्रह्मण्डयोरैक्याद्भावयेत्स्वतनौ तथा ।
देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ ५॥
नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः ।
ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ ६॥
अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमयो भवेत् ।
गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः ॥ ७॥
गायत्रीछन्द उद्दिष्टं देवता परमेश्वरी ।
पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट् क्रमात् ।
आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ ८॥
अथार्थन्यासः । द्यौमूर्ध्नि दैवतम् ।
दन्तपङ्क्तावश्विनौ । उभे सन्ध्ये चौष्ठौ ।
मुखमग्निः । जिह्वा सरस्वती । ग्रीवायां तु बृहस्पतिः ।
स्तनयोर्वसवोऽष्टौ । बाह्वोर्मरुतः । हृदये पर्जन्यः ।
आकाशमुदरम् । नाभावन्तरिक्षम् । कट्योरिन्द्राग्नी ।
जघने विज्ञानघनः प्रजापतिः । कैलासमलये ऊरू ।
विश्वेदेवा जान्वोः । जङ्घायां कौशिकः । गुह्यमयने ।
ऊरू पितरः । पादौ पृथिवी । वनस्पतयोङ्गुलीषु ।
ऋषयो रोमाणि । नखानि मुहूर्तानि । अस्थिषु ग्रहाः ।
असृङ्मांसमृतवः । संवत्सरा वै निमिषम् ।
अहोरात्रावादित्यश्चन्द्रमाः ।
प्रवरं दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये ।
ॐ तत्सवितुर्वरेण्याय नमः । ॐ तत्पूर्वाजयाय नमः ।
तत्प्रातरादित्याय नमः । तत्प्रातरादित्यप्रतिष्ठायै नमः ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
सायंप्रातरधीयानः अपापो भवति ।
सर्वतीर्थेषु स्नातो भवति । सर्वैर्देवैर्ज्ञातो भवति ।
अवाच्यवचनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो भवति ।
अभोज्यभोजनात्पूतो भवति । अचोष्यचोषणात्पूतो भवति ।
असाध्यसाधनात्पूतो भवति । दुष्प्रतिग्रहशतसहस्रात्पूतो भवति ।
पङ्क्तिदूषणात्पूतो भवति । अमृतवचनात्पूतो भवति ।
अथाब्रह्मचारी ब्रह्मचारी भवती ।
अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति ।
षष्टिशतसहस्रगायत्र्या जप्यानि फलानि भवन्ति ।
अष्टौ ब्राह्मणान्सम्यग्ग्राहयेत् । तस्य सिद्धिर्भवति ।
य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापः
प्रमुच्यत इति । ब्रह्मलोके महीयते ।
इत्याह भगवान् श्रीनारायणः ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे
गायत्रीहृदयं नाम चतुर्थोऽध्यायः ।
Part of Ch. 4, Book 12 of Devi Bhagavatam.
Encoded and proofread by Sunder Hattangadi