आनन्दसागरस्तवः

आनन्दसागरस्तवः

विज्ञापनार्ह-विरलावसरानवाप्त्या मन्दोद्यमे मयि दवीयसि विश्वमातुः । अव्याजभूत-करुणा-पवनापविद्धा- न्यन्तः स्मराम्यहमपाङ्ग-तरङ्गितानि ॥ १॥ आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तर-रुजोपशमाय नालम् । इत्यर्थ्यसे किमपि तच्छ्रवणे निधातुं मातः प्रसीद मलयध्वज-पाण्ड्यकन्ये ॥ २॥ आक्रन्दितं रुदितमाहतमानने वा कस्यार्द्रमस्तु हृदयं किमतः फलं वा । यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः कथयामि खेदम् ॥ ३॥ पर्याकुले मनसि वाचि परिस्खलन्त्या- मावर्तगर्त इव चक्षुषि घूर्णमाने । कस्तेऽभिधास्यति शिवे मम तामवस्थां काले दयस्व कथयामि तवाधुनैव ॥ ४॥ भक्तिं करोतु नितरां सुरजातिमात्रे ग्रामीणजन्तुरिव पौरजनेषु लोकः । अन्यत्र देवि भवदीय-पदारविन्दा- दाकृष्यमाणमपि मे हृदयं न याति ॥ ५॥ अङ्गीकुरु त्वमवधीरय वा वयं तु दासास्तवेति वचसैव जयेम लोकान् । एतावतैव सुकरो ननु विश्वमात- रुद्दण्डदण्डधर-किङ्करमौलिभङ्गः ॥ ६॥ वेदान्तवाक्य-जनितं विमलं विचारै- रासाद्य बोधमनुचिन्तनतोऽपरोक्षम् । मुक्तिं व्रजन्ति मनुजा इति सूक्तिमाद्या- मालम्ब्य कस्तरितुमर्हति शैलकन्ये ॥ ७॥ एकैक-वेदविषयाः कति नामशाखा- स्तासां शिरांसि कति नाम पृथग्विधानि । अर्थावबोध-विधुरोऽक्षरलाभ एव केषां नृणां कतिभिरस्तु शरीरबन्धैः ॥ ८॥ न्यायाः परस्पर-विभिन्नदिशः सहस्र- मुच्चावचानि च भवन्त्युपबृंहणानि । एवं स्थिते गिरिसुते निगमोपलानां तात्पर्य-सारमवधारयितुं क्षमः कः ॥ ९॥ अस्त्वक्षरग्रह-विधिर्जनुषां सहस्रै- रापाततो भवतु नाम ततोऽर्थबोधः । दुर्वादिकल्पित-विकल्प-तरङ्गसान्द्रान् दुष्पूर्वपक्ष-जलधीन् कथमुत्तरेयुः ॥ १०॥ ब्रह्मेति शक्तिरिति बन्धविमोचनीति मायामयीति मदनान्तक-वल्लभेति । सप्ताष्टशब्द-परिवर्तनमात्र एव सामर्थ्यमावहति शास्त्रपरिश्रमोऽयम् ॥ ११॥ तस्मै प्रसीदसि गिरीन्द्रसुते य इत्थं सम्पादयेत शनकैरपरोक्षबोधम् । यस्मै प्रसीदसि स च क्षमतेऽवबोद्धु- मित्थं परस्पर-समाश्रयमेतदास्ते ॥ १२॥ आकर्णय त्वमिममभ्युपगम्य वादं जानातु कोऽपि यदि वा हृदयं श्रुतीनाम् । तस्याप्यसङ्ख्य-भवबन्धशतार्जितोऽयं द्वैतभ्रमो गलतु जन्मशतैः कियद्भिः ॥ १३॥ काले महत्यनवधावपतन्कदापि क्वाप्यन्तिमे जनुषि कोऽपि गतिं लभेत । इत्थं समर्थनविधिः परमागमानां पर्यायसूक्तिविधया नयनं नञर्थे ॥ १४॥ एकापवर्गसमये जगतोऽपवर्गः सर्वापवर्गसमये पुनरस्तशङ्कः । ईदृग्विधं कमपि पक्षमिहावलम्ब्य स्थातुं सुखं क्षममनेन पथा प्रवृत्तैः ॥ १५॥ अभ्यस्य वेदमवधार्य च पूर्वतन्त्र- मालक्ष्य शिष्टचरितानि पृथग्विधानि । अध्यापनादिभिरवाप्य धनं च भूरि कर्माणि मातरलसाः कथमाचरेयुः ॥ १६॥ आयस्य तावदपि कर्म करोतु कश्चि- त्तेनापि मातरधिकं किमिवानुभाव्यम् । आस्ते सुखं य इह भारतवर्षसीम- न्यास्ते स किञ्चिदित उत्तरतोऽपसृत्य ॥ १७॥ कर्म त्यजेम यदि नूनमधः पतेम यद्याचरेम न कदापि भवं तरेम । कर्म त्यजेदिति चरेदिति च प्रवृत्ताः भावेन केन निगमा इति न प्रतीमः ॥ १८॥ कर्मण्यकर्म-विधिरेष यदाचरन्ति कर्माणि तत्तदनुबन्ध-जिहासयेति । सत्यं तथाप्यभिनवो भविता न बन्धः प्राचीनबन्धहरणे क इवाभ्युपायः ॥ १९॥ प्रारब्धकर्म कियदारभते कियद्वा प्रारप्स्यते कियदिदं क इवावधत्ताम् । कालः कियानिव मया प्रतिपालनीयो यस्य क्षणार्धमपि कल्पशतत्वमेति ॥ २०॥ पुंसः क्षणार्धमपि संसरणाक्षमस्य साङ्ख्यादयः सरणयो न विशन्ति कर्णम् । सङ्ख्याय गाङ्गसिकताः सकलाश्च सूक्ष्मा भुङ्क्ष्वेति वागिव महाक्षुधयार्दितस्य ॥ २१॥ भक्तिस्तु का यदि भवेद्रतिभावभेद- स्तत्केवलान्वयितया विफलैव भक्तिः । प्रीतिस्त्वयि त्रिजगदात्मनि कस्य नास्ति स्वात्मद्रुहो न खलु सन्ति जनास्त्रिलोक्याम् ॥ २२॥ आत्मा समस्तजगतां भवतीति सम्य- ग्विज्ञाय यद्वितनुते त्वयि भावबन्धम् । सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं व्यर्थं विशेष्यमलमस्तु विशेषणं नः ॥ २३॥ स्वात्मेतरत्वमवधार्य परत्वबुद्ध्या यत्प्रीयते गुरुजनेष्विव सैव भक्तिः । स्यादेतदेवमियमेव तु मे जिहास्या द्वैतभ्रमात्किमधिकं भवबन्धमूलम् ॥ २४॥ सेवैव भक्तिरिति कर्मपथप्रवेशः सेव्यप्रसादफलका किल कर्मसेवा । ध्यानप्रवाह इति चेच्छ्रवणात् तृतीयः प्रागेव मातरयमाकलितोऽभ्युपायः ॥ २५॥ अत्रैव दास्यसि विमुक्तिमथापि याचे मातः शरीरपतनं मणिकर्णिकायाम् । अस्तु स्वकृत्यमनुकम्पनमीश्वराणां दासस्य कर्मकरतैव तथा स्वकृत्यम् ॥ २६॥ सद्यो भवेत्सुकृतिनामुपदेशलाभः पापात्मनां बहुतिथे समये व्यतीते । इत्यादिभिः किल पुराणवचोभिरम्ब वाराणसीमपि न याचितुमुत्सुकोऽस्मि ॥ २७॥ आक्रान्तमन्तररिभिः मदमत्सराद्यैः गात्रं वलीपलित-रोगशतानुविद्धम् । दारैः सुतैश्च गृहमावृतमुत्तमर्णैः मातः कथं भवतु मे मनसः प्रसादः ॥ २८॥ धन्याः कति त्रिभुवने परमोपभाग्यं संसारमेव परमेश्वरि भावयन्तः । आभासरूपमवबोधमिमं समेत्य क्लिश्ये कियत्कियदहं त्वमुना भवेन ॥ २९॥ का संस्कृतिः किमपचार-निबन्धनेयं कीदृग्विधस्य तव किं क्षतमेतयेति । प्रश्ने तु नास्मि कुशलः प्रतिवक्तुमेव खेदस्तु मे जननि कोऽप्ययमेवमास्ते ॥ ३०॥ एवं गतस्य मम साम्प्रतमेतदर्ह- मत्रेदमौपयिकमित्थमिदं च साध्यम् । अस्मिन्प्रमाणमिदमित्यपि बोद्धुमम्ब शक्तिर्न मे भुवनसाक्षिणि किं करोमि ॥ ३१॥ न ज्ञायते मम हितं नितरामुपायो दीनोऽस्मि देवि समयाचरणाक्षमोऽस्मि । तत्त्वामनन्यशरणः शरणं प्रपद्ये मीनाक्षि विश्वजननीं जननीं ममैव ॥ ३२॥ किञ्चिन्मया श्रुतिषु किञ्चिदिवागमेषु शास्त्रेषु किञ्चिदुपदेशपथेषु किञ्चित् । आघ्रातमस्ति यदतो भवतीं वरीतुं गोप्त्रीति काचिदुदपद्यत बुद्धिरेषा ॥ ३३॥ ब्रह्मैवमेवमहमेष तदाप्त्युपाय इत्यागमार्थ-विधुराः प्रथमे दयार्हाः । त्वद्रक्षकत्व-गुणमात्रविदो द्वितीया इत्यर्थये सदधिकार-निरूपणाय ॥ ३४॥ मातः करोषि ममतां मयि यावदीष- त्तावद्यते मम ततः किमिवास्ति साध्यम् । मामित्थमित्थमुपयुङ्क्ष्व न विस्मरेति किं स्वामिनं त्वरयते क्वचन स्वभृत्यः ॥ ३५॥ त्याज्यं त्यजानि विहितं च समाचराणि नित्येषु शक्तिमनुरुध्य हु वर्तितव्यम् । तद्बुद्धिशक्तिमनुरुध्य न कार्यशक्ति- मित्येतदेव तु शिवे विनिवेदयामि ॥ ३६॥ आत्मैव भार इति तं त्वयि यो निधत्ते सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः । विश्वस्य साक्षिणि विलक्षणलक्षणा या विस्रम्भसम्पदियमेव समस्तमङ्गम् ॥ ३७॥ त्वत्प्रेरणेन मिषतः श्वसतोऽपि मातः प्रामादिकेऽपि सति कर्मणि मे न दोषः । मात्रैव दत्तमशनं ग्रसतः सुतस्य को नाम वक्ष्यति शिशोरतिभुक्तिदोषम् ॥ ३८॥ मुक्तिं सिषाधयिषतां निजयैव बुद्ध्या प्रारब्धकर्म भवतु प्रतिबन्धहेतुः । त्वामेव साधनतयापि समाश्रितानां तुल्यं तदम्ब यदि कस्तव वीरवादः ॥ ३९॥ प्रारब्धकर्म गिरिजे भवदाश्रिताना- मन्यत्र सङ्क्रमय नाशय वा समूलम् । मर्त्याश्च खल्वपि विषं वपुषि प्रसक्तं सङ्क्रामयन्ति परतोऽपि च नाशयन्ति ॥ ४०॥ त्वद्दर्शनश्रवण-वन्दनचिन्तनादि- ष्वक्षाणि देवि विनियुज्य यथाधिकारम् । रक्षेत्यसङ्ख्य-भवसम्भृतयैव मैत्र्या रुन्ध्यां यदि स्थिरममून्यधुनैव न स्युः ॥ ४१॥ त्रातव्य एष इति चेत्करुणा मयि स्या- त्त्रायस्व किं सुकृतदुष्कृतचिन्तया मे । कर्तुं जगत्तिरयितुं च विश‍ृङ्खलायाः कर्मानुरोध इति कं प्रति वञ्चनेयम् ॥ ४२॥ त्वय्यर्पितं प्रथममप्पय-यज्वनैव स्वात्मार्पणं विदधता स्वकुलं समस्तम् । का त्वं महेशि कुलदासमुपेक्षितुं मां को वानुपासितुमहं कुलदेवतां त्वाम् ॥ ४३॥ मौढ्यादहं शरणयामि सुरान्तरं चे- त्किं तावता स्वमपि तस्य भवामि मातः । अज्ञानतः परगृहं प्रविशन्परस्य स्वत्वं प्रयास्यति पशुः किमु राजकीयः ॥ ४४॥ आधाय मूर्धनि वृथैव भरं महान्तं मूर्खा निमज्जथ कथं भवसागरेऽस्मिन् । विन्यस्य भारमखिलं पदयोर्जनन्या विस्रब्धमुत्तरत पल्वलतुल्यमेनम् ॥ ४५॥ क्वेदं पतिष्यति वपुः क्व ततो नु गम्यं को दण्डयिष्यति कियन्तमनेहसं वा । किं तस्य सन्तरण-साधनमित्यनन्ता चिन्ता स्थिता त्वयि शनैरवतारिता सा ॥ ४६॥ ज्ञानं दिशेयमुत तेन विनोद्धरेयं प्रारब्धमप्यपलपेयमुतानुरुन्ध्याम् । इत्थं सकृत्प्रपदनैक-वशंवदाया मातुर्मयि प्रववृते महतीह चिन्ता ॥ ४७॥ एतज्जडाजड-विवेचनमेतदेव क्षित्यादितत्व-परिशोधनकौशलं च । ज्ञानं च शैवमिदमागम-कोटिलभ्यं मातुर्यदङ्घ्रियुगले निहितो मयात्मा ॥ ४८॥ षट्त्रिंशदावरण-मध्यजुषि त्वदङ्घ्रौ हालास्यनाथदयिते निहितो मयात्मा । भूभूतलत्रिदिववर्तिषु कः क्षमेत तच्चक्षुषापि निभृतेन निरीक्षितुं माम् ॥ ४९॥ बन्धं हरिष्यसि सुखं वितरिष्यसीति निश्चप्रचं निखिलमम्ब तदास्त एव । सम्प्रत्यहं त्वयि निधाय भरं समस्तं यन्निर्वृणोमि किमितोऽपि ममापवर्गे ॥ ५०॥ काश्यां निपातय वपुः श्वपचालये वा स्वर्गं नय त्वमपवर्गमधोगतिं वा । अद्यैव वा कुरु दयां पुनरायतौ वा कः सम्भ्रमो मम धने धनिनः प्रमाणम् ॥ ५१॥ नाहं सहे तव कथाश्रवणान्तरायं नाहं सहे तव पदार्चनविच्युतिं वा । मोक्षं दिशैतदविरुद्धमिदं न चेत्स्या - न्नैवास्तु मातरपवर्गमहोपसर्गः ॥ ५२॥ आचूडमाचरणमम्ब तवानुवार- मन्तःस्मरन्भुवनमङ्गलमङ्गमङ्गम् । आनन्दसागर-तरङ्गपरम्पराभि- रान्दोलितो न गणयामि गतान्यहानि ॥ ५३॥ पाषाणतोऽपि कठिने शिरसि श्रुतीनां प्रायः परिक्रमवशादिव पाटलाभम् । अम्ब स्मरेयममृतार्णव-माथलब्ध- हैयङ्गवीन-सुकुमारमिदं पदं ते ॥ ५४॥ ये नाम सन्ति कतिचिद्गुरवस्त्रिलोक्यां तेषामपि स्वयमुपेतवता गुरुत्वम् । पादेन मूर्ध्नि विधृतेन वयं तवाम्ब संसारसागरमिमं सुखमुत्तरामः ॥ ५५। साधारणे स्मरजये निटिलाक्षिसाध्ये भागी शिवो भजतु नाम यशः समग्रम् । वामाङ्घ्रि-मात्रकलिते जननि त्वदीये का वा प्रसक्तिरपि कालजये पुरारेः ॥ ५६॥ स्यात्कोमलं यदि मनो मम विश्वमात- स्तत्पादयोर्मृदुलयोस्तव पादुकाऽस्तु । स्यात्कर्कशं यदि करग्रहणे पुरारे- रश्माधिरोहणविधौ भवतूपयोगः ॥ ५७॥ प्रस्निग्धमुग्ध-रुचिपादतले भवत्या लग्नं दृढं यदिह मे हृदयारविन्दम् । एषैव साग्रभुवन-द्विशतीपतित्व- साम्राज्य-सूचनकरी तव पद्मरेखा ॥ ५८॥ अप्राकृतीं मृदुलतामविचिन्त्य किञ्चि- दालम्बितासि पदयोः सुदृढं मया यत् । तन्मे भवार्णव-निमज्जन-कातरस्य मातः क्षमस्व मधुरेश्वरि बालकृत्यम् ॥ ५९॥ यत्रानमन्पशुपतिः प्रणयापराधे मन्दं किल स्पृशति चन्द्रकलाञ्चलेन । पुष्पार्चनेऽपि मृदितं पदयोर्युगं त- न्मातस्तुदन्ति न कथं परुषा गिरो मे ॥ ६०॥ अव्याज-सुन्दरमनुत्तरमप्रमेय- मप्राकृतं परममङ्गलमङ्घ्रिपद्मम् । सन्दर्शयेदपि सकृद्भवती दयार्द्रा द्रष्टास्मि केन तदहं तु विलोचनेन ॥ ६१॥ दिव्या दृशोऽपि दिविषद्ग्रहणोचितानि वस्तूनि काममवधारयितुं क्षमन्ते । त्वन्मात्रवेद्यविभवे तव रूपधेये त्वद्भाव एव शरणं परिशेषितो नः ॥ ६२॥ अस्मिन्महत्यनवधौ किल कालचक्रे धन्यास्तु ये कतिपये शुकयोगिमुख्याः । लीनास्त्वदङ्घ्रियुगले परिशुद्धसत्वा- स्तानात्मनस्तव नखानवधारयामः ॥ ६३॥ आ शैशवान्ममतया कलितस्त्वयासा- वानृण्यमम्ब तव लब्धुमना मृगाङ्कः । स्वात्मानमेव नियतं बहुधा विभज्य त्वत्पादयोर्विनिदधे नखरापदेशात् ॥ ६४॥ नान्तः प्रवेशमयते किमपि श्रुतं मे नास्तिक्यवाद-शिलया प्रतिरुध्यमानम् । तत्पातयाम्यहमिमां महतीमधस्ता- त्पादोदकेन कियता परदेवतायाः ॥ ६५॥ सन्नाहिभिः यमभटैः परिवार्यमाणे मय्यर्भके करुणया स्वयमापतन्त्याः । आकर्णयेयमपि नाम विरामकाले मातस्तवाङ्घ्रि-मणिनूपुरशिञ्जितानि ॥ ६६॥ ब्रह्मेशकेशव-मुखैर्बहुभिः कुमारैः पर्यायतः परिगृहीत-विमुक्तदेशम् । उत्सङ्गमम्ब तव दास्यसि मे कदा त्वं मातृप्रियं किल जडं सुतमामनन्ति ॥ ६७॥ ऊरौ शिरस्तव निवेश्य दयावितीर्ण- संव्यानपल्लव-समीरविनीतखेदम् । अत्रैव जन्मनि विभोः परमोपदेश- माकर्णयेयमपि किं मणिकर्णिकायाम् ॥ ६८॥ काञ्चीगुणग्रथित-काञ्चनचेलदृश्य- चण्डातकांशुक-विभापरभागशोभि । पर्यङ्कमण्डल-परिष्करणं पुरारे- र्ध्यायामि ते विपुलमम्ब नितम्बबिम्बम् ॥ ६९॥ गर्भे निवेश्य भुवनानि चतुर्दशापि संरक्षितुं कलितनिश्चितया भवत्या । प्राकारमेव रचितं परितोऽपि नून- मूहे सुवर्णमय-मेदुरपट्टबन्धम् ॥ ७०॥ मुक्ताश्च खल्वपि यदि त्रिपुरे भवत्याः स्तन्याशया स्तनतटं न परित्यजन्ति । अस्माकमुद्भट-भवज्वरतापिताना- मार्द्रीभवन् तु वदनानि कुतो न हेतोः ॥ ७१॥ नष्टोपलब्धमधिगत्य शिशुं चिरान्मां वात्सल्यविद्रुतहृदः परदेवतायाः । क्लिद्यत्पयोधर-विनिःसृतदुग्धबिन्दु- निष्यन्दपङ्क्तिरिव दीव्यति हारयष्टिः ॥ ७२॥ यत्तद्धनुर्जन-मनोमयमैक्षवं ते तस्यास्तु देवि हृदयं मम मूलदेशः । चापाधिरोपणविधौ चरणाञ्चलेन सम्भाव्यते किल समाक्रमणं कदाचित् ॥ ७३॥ आस्थाय दारुणतरं कमपि स्वभाव- मत्यन्तदुष्कृत-कृतामपि शिक्षणाय । गृह्णासि सायकपदे कुसुमान्यमूनि मातः सुतेषु महती किल रूक्षतेयम् ॥ ७४॥ पाशं सृणिं च करयोस्तव भावयन्तः संस्तम्भयन्ति वशयन्ति च सर्वलोकान् । चापं शरं च सकृदम्ब तव स्मरन्तो भूपालतां दधति भोगपथावतीर्णाः ॥ ७५॥ पाशाङ्कुशौ तव करे परिचिन्त्य राग- द्वेषौ जयन्ति परमार्थविदस्तु धन्याः । एकत्र चापमितरत्र शरं च मत्वा व्यावर्तयन्ति हृदयं विषयान्धकूपात् ॥ ७६॥ उत्क्रान्तमान्तरमिदं करणं जनाना- मप्येति चन्द्रमिति हि श्रुतयो वदन्ति । आस्तामिदं मम तु देवि मनोऽधुनैव लीनं दृढं वदनचन्द्रमसि त्वदीये ॥ ७७॥ विद्यात्मनो जननि तावकदन्तपङ्क्ते- र्वैमल्यमीदृगिति वर्णयितुं क्षमः कः । तत्सम्भवा यदमला वचसां सवित्री तन्मूलकं कवियशोऽपि ततस्तरां यत् ॥ ७८॥ स्वच्छापि ते वहति यत्किल दन्तपङ्क्तिः स्वच्छन्द-निर्दलित-दाडिम-बीजशोभाम् । तन्मे रजोव्यतिकराधिक-पाटलिम्नि चित्ते परं परिचयादिति चिन्तयामि ॥ ७९॥ अर्धं जितत्रिपुरमम्ब तव स्मितं चे- दर्धान्तरेण च तथा भवितव्यमेव । तच्चिन्तये जननि कारणसूक्ष्मरूप- स्थूलात्मक-त्रिपुरशान्तिकृते स्मितं ते ॥ ८०॥ मत्क्लेशदर्शन-परिद्रवदन्तरङ्ग- हैयङ्गवीन-परिवाहनिभं जनन्याः । अन्तस्तमोपहमनुस्मरतां जनानां मन्दस्मितं भुवनमङ्गलमस्तु भूत्यै ॥ ८१॥ सांसिद्धिकानन-सरोरुहदिव्यगन्ध- सान्द्रीकृतेन्दु-शकलाकलिताधिवासम् । ताम्बूलसारमखिलागम-बोधसारं मातर्विधेहि मम वक्त्र-कलाचिकायाम् ॥ ८२॥ नासामणिस्तव शिवे चिरसंस्तवेन प्रत्याहृते मनसि भाति तपोधनानाम् । अज्ञानसन्तति-निशात्ययसूचनार्थं आविर्भवन्त्यसुर-देशिकतारकेव ॥ ८३॥ ताम्बूलगर्भ-परिफुल्लकपोललक्ष्य- ताटङ्कमौक्तिक-मणिप्रतिबिम्बदम्भात् । अस्तद्वय-व्यतिकरामल-सत्वमाद्यं वर्णं बिभर्ति जठरे तव वक्त्रबिम्बम् ॥ ८४॥ दत्ते श्रियं बहुविधां कुशलानि दत्ते दत्ते पदं सुरपतेरपि लीलयैव । ईदृग्विधाम्ब तव दृष्टिरितोऽधिका वा नाद्यापि कर्णमतिवर्तितुमीश्वरीयम् ॥ ८५॥ पाषाणकूटकठिने जनदुर्विगाहे व्यर्थं महत्युपनिषद्विपिने प्रवृत्ता । सेव्येत केन तव लोचनचन्द्रिकेय- मेनां निपातय सकृन्मयि तप्यमाने ॥ ८६॥ कामं शिवेन शमितं पुनरुज्जगार दृष्टिस्तवेति किमियं जननि स्तुतिस्ते । लीलाप्रसूत-पुरुषार्थ-चतुष्टयाया- स्तस्याः परं तु स भवत्यवयुत्यवादः ॥ ८७॥ सोमो जगज्जनयितेति यदाह वेदो नेदं लतापरमिति भ्रमितव्यमार्यैः । यः शैववामतनुवर्ति-भवद्दृगात्मा चन्द्रो जगत्सृजति तत्पर एष वादः ॥ ८८॥ सूच्यग्रवद्वसुमतीमणुवच्च मेरुं दृष्टिर्यदम्ब तव पश्यति दानशौण्डा । दृष्टास्त्वया वयमपीह ततः स्मरामो वेशन्तमेव भवसागरमुत्तरङ्गम् ॥ ८९॥ वाणीनिकेतनतया घनसारगौराः कल्हारकेसररुचः कमलानुषङ्गात् । मातर्जयन्ति शरणागतलोकचेतो- मालिन्यमार्जन-वशादसिताः कटाक्षाः ॥ ९०॥ आकर्णमुल्लसति मातरपाङ्गदेशे कालाञ्जनेन घटिता तव भाति रेखा । शैवाल-पङ्क्तिरिव सन्ततनिर्जिहान- कारुण्यपूर-पदवीकलितानुबन्धा ॥ ९१॥ विश्वं सृजत्यवति हन्ति च यः कटाक्षो विश्वस्यतां कथमसौ चपलस्वभावः । एषोऽपि यामनुसरँल्लभते यशांसि तामेव विश्वसिमि देवि तवानुकम्पाम् ॥ ९२॥ अर्धं कलङ्करहिता करुणैव शम्भो- रर्धं गुणास्तदितरे सकलाः समेताः । इत्यम्ब सम्प्रति किल स्फुरितं रहस्यं सम्पश्यतो मम भवन्मयमैशमर्धम् ॥ ९३॥ अम्ब भ्रुवोस्तव विचेष्टितमप्रमत्तं सम्पश्यतां निजनिजार्थ-निदेशहेतोः । तन्मूलदेशनिहिता निभृता सुराणां दृष्टिः प्रयाति मृगनाभि-विशेषकत्वम् ॥ ९४॥ सारं कणं कणमघर्मरुचां सहस्रा- त्सङ्गृह्य निर्मितमिदं तव वक्त्रबिम्बम् । तावत्सुधाकर-कलङ्ककुलानि पश्चा- देकत्र देवि निहितानि कचापदेशात् ॥ ९५॥ (पश्चादन्यत्र) विन्यस्तमिन्द्रमणि-कन्दलसुन्दरेषु केशेषु ते स्फटिकनिर्मलमिन्दुखण्डम् । आधारसङ्गति-वशादसितायमान- मिन्दीवरच्छद-वतंसदशां बिभर्ति ॥ ९६॥ चिन्तामणिस्त्रिभुवनेश्वरि कौस्तुभश्च ख्यातौ मणी तव गृहाङ्गणकुट्टिमस्थौ । किं रत्नमन्यदुपलभ्य किरीटकोटिं वाचस्पति-प्रभृतयस्तव वर्णयन्तु ॥ ९७॥ प्रादुर्भवत्तरणि-बिम्बशतारुणानि पर्याप्त-शीतकिरणायुत-शीतलानि । श‍ृङ्गारसार-परिवाहमयानि मात- रङ्गानि केऽपि चरमे जनुषि स्मरन्ति ॥ ९८॥ प्रत्यग्रकुङ्कुम-रसाकलिताङ्गरागं प्रत्यङ्गदत्तमणि-भूषणजालरम्यम् । ताम्बूलपूरितमुखं तरुणेन्दुचूडं सर्वारुणं किमपि वस्तु ममाविरस्तु ॥ ९९॥ अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मि- न्नर्धं पुमांस इति दर्शयितुं भवत्या । स्त्रीपुंसलक्षणमिदं वपुरादृतं य- त्तेनासि देवि विदिता त्रिजगच्छरीरा ॥ १००॥ निर्मासि संहरसि निर्वहसि त्रिलोकीं वृत्तान्तमेतमपि वेत्ति न वा महेशः । तस्येश्वरस्य गिरिजे तव साहचर्या- ज्जातः श्रुतिष्वपि जगज्जनकत्ववादः ॥ १०१॥ सत्तास्यखण्डसुख-संविदसि त्रिलोकी- सर्गस्थिति-प्रतिहतिष्वपि निर्व्यपेक्षा । त्वामन्तरेण शिव इत्यवशिष्यते कि- मर्धं शिवस्य भवतीत्यनभिज्ञवादः ॥ १०२॥ नास्मिन्-रविस्तपति नात्र विवाति वातो नास्य प्रवृत्तिमपि वेद जगत्समस्तम् । अन्तःपुरं तदिदमीदृशमन्तकारे- रस्मादृशास्तु सुखमत्र चरन्ति बालाः ॥ १०३॥ त्वत्सन्निधानरहितो मम मास्तु देश- स्त्वत्तत्त्वबोधरहिता मम मास्तु विद्या । त्वत्पादभक्तिरहितो मम मास्तु वंश- स्त्वच्चिन्तया विरहितं मम मास्तु चायुः ॥ १०४॥ त्वं देवि यादृगसि तादृगसि त्वमीदृ- गेवेति वक्तुमपि बोद्धुमपि क्षमः कः । मामेव तावदविदन्नतिपामरोऽहं मातः स्तुतिं त्वयि समर्पयितुं विलज्जे ॥ १०५॥ काचित्कृता कृतिरिति त्वयि साऽर्पितेति कापि प्रमोदकणिका न ममान्तरङ्गे । मौढ्यं मदीयमिह यद्विदितं ममैव किं त्वम्ब विश्वसिमि दीनशरण्यतां ते ॥ १०६॥ कालानपास्य विषुवायन-सङ्क्रमादी- नस्तङ्गते हिमकरे च दिवाकरे च । अम्ब स्मरेयमपि ते चरणारविन्द- मानन्द-लक्षणमपास्त-समस्तभेदम् ॥ १०७॥ चतुरध्यायीरूपं कलहंस-व्यञ्जनं जगन्मातुः । अपरब्रह्ममयं वपुरन्तः शशिखण्ड-मण्डनमुपासे ॥ १०८॥ ॥ इति श्री नीलकण्ठदीक्षितविरचितः श्रीआनन्दसागरस्तवः सम्पूर्णः ॥ Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi and Rajani Arjun Shankar
% Text title            : Anandasagarastava
% File name             : anandasagarastava.itx
% itxtitle              : AnandasAgarastavaH (nIlakaNThadIkShitavirachitaH)
% engtitle              : Anandasagarastava
% Category              : devii, otherforms, stotra, devI, nIlakaNThadIkShita
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Texttype              : stotra
% Author                : Nilakantha Dikshitar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi, Rajani Arjun Shankar
% Description-comments  : Hymn to Devi Minakshi
% Indexextra            : (Scans 1, 2)
% Latest update         : Dec. 18, 2009, February 17, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org