योगिनीहृदयम्
अथ प्रथमः पटलः
श्रीदेव्युवाच -
देवदेव महादेव परिपूर्णप्रथामय ।
वामकेश्वरतन्त्रेऽस्मिन्नज्ञातर्थास्त्वनेकशः ॥ १॥
तांस्तानर्थानशेषेण वक्तुमर्हसि भैरव ।
श्रीभैरव उवाच
शृणु देवि महागुह्यं योगिनिहृदयं परम् ॥ २॥
त्वत्प्रीत्या कथयाम्यद्य गोपनीयं विशेषतः ।
कर्णात्कर्णोर्पदेशेन सम्प्राप्तमवनीतलम् ॥ ३॥
न देयं परशिष्येभ्यो नास्तिकेभ्यो न चेश्वरि ।
न शुश्रूषालसानाञ्च नैवानर्थप्रदायिनाम् ॥ ४॥
परीक्षिताय दातव्यं वत्सरार्धोषिताय च ।
एतज्ज्ञात्वा वररोहे सद्यः खेचरतां व्रजेत् ॥ ५॥
चक्रसङ्केतको मन्त्रपूजासङ्केतकौ तथा ।
त्रिविधस्त्रिपुरादेव्याः सङ्केतः परमेश्वरि ॥ ६॥
यावदेतन्न जानाति सङ्केतत्रयमुत्तमम् ।
न तावत्रिपुराचक्रे परमाज्ञाधरो भवेत् ॥ ७॥
तच्छक्तिपञ्चकं सृष्ट्या लयेनाग्निचतुष्टयम् ।
पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसम्भवः ॥ ८॥
एतच्चक्रावतारन्तु कथयामि तवानघे ।
यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ॥ ९॥
स्फुरत्तामात्मनः पश्येत्तदा चक्रस्य सम्भवः ।
शून्याकाराद्विसर्गान्ताद् बिन्दोः प्रस्पन्दसंविदः ॥ १०॥
प्रकाशपरमार्थत्वात् स्फुरत्तालहरीयुतात् ।
प्रसृतं विश्वलहरीस्थानं मातृत्रयात्मकम् ॥ ११॥
बैन्दवं चक्रमेतस्य त्रिरूपत्वं पुनर्भवेत् ।
धर्माधर्मौ तथात्मानो मातृमेयौ तथा प्रमा ॥ १२॥
नवयोन्यात्मकं चक्रं चिदानन्दघनं महत् ।
चक्रं नवात्मकमिदं नवधा भिन्नमन्त्रकम् ॥ १३॥
बैन्दवासनसंरूढसंवर्तानलचित्कलम् ।
अम्बिकारूपमेवेदमष्टारस्थं स्वरावृतम् ॥ १४॥
नवत्रिकोणस्फुरितप्रभारूपदशारकम् ।
शक्त्यादिनवपर्यन्तदशार्णस्फूर्तिकारकम् ॥ १५॥
भूततन्मात्रदशकप्रकाशालम्बनत्वतः ।
द्विदशारस्फुरद्रूपं क्रोधीशादिदशारकम् ॥ १६॥
चतुश्चक्रप्रभारूपसंयुक्तपरिणामतः ।
चतुर्दशाररूपेण संवित्तिकरणात्मना ॥ १७॥
खेचर्यादिजयान्तार्णपरमार्थप्रथामयम् ।
एवं शक्त्यनलाकारस्फुरद्रौद्रीप्रभामयम् ॥ १८॥
ज्येष्टारूपचतुष्कोणं वामारूपभ्रमित्रयम् ।
चिदंशान्तस्त्रिकोणं च शान्त्यतिताष्टकोणकम् ॥ १९॥
शान्त्यंशद्विदशारञ्च तथैव भुवनारकम् ।
विद्याकलाप्रमारूपदलाष्टकसमावृतम् ॥ २०॥
प्रतिष्टावपुषा सृष्टस्फुरद्द्व्यष्टदलाम्बुजम् ।
निवृत्त्याकारविलसच्चतुस्ष्कोणविराजितम् ॥ २१॥
त्रैलोक्यमोहनाद्ये तु नवचक्रे सुरेश्वरि ।
नादो बिन्दुः कला ज्येष्टा रौद्रीई वामा तथा पुनः ॥ २२॥
विषघ्नीई दूतरी चैव सर्वानन्दा क्रमात् स्थिताः ।
निरंशौ नादबिन्दू च कला चेच्छास्वरूपकम् ॥ २३॥
ज्येष्टा ज्ञानं क्रिया शेषमित्येवं त्रितयात्मकम् ।
चक्रं कामकलारूपं प्रसारपर,मार्थतः ॥ २४॥
अकुले विषुसंज्ञे च शक्ते वह्नौ तथा पुनः ।
नाभावनाहते शुद्धे लम्बिकाग्रे भ्रुवोऽन्तरे ॥ २५॥
बिन्दौ तदर्धे रोधिन्यां नादे नादान्त एव च ।
शक्तौ पुनर्व्यापिकायां समनोन्मनि गोचरे ॥ २६॥
महाबिन्दौ पुनश्चैव त्रिधा चक्रं तु भावयेत् ।
आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम् ॥ २७॥
उन्मन्यन्तं परे स्थाने निष्कलञ्च त्रिधा स्थितम् ।
दीपाकारोऽर्धमात्रश्च ललाटे वृत्त् इष्यते ॥ २८॥
अर्धचन्द्रस्तथाकारः पादमात्रस्तदूर्ध्वके ।
ज्योत्स्नाकारा तदष्टांशा रोधिनी त्र्यस्रविग्रहा ॥ २९॥
बिन्दुद्वयान्तरे दण्डः शेवरूपो मणिप्रभः ।
कलांशो द्विगुणांशश्च नादान्तो विद्युदुज्ज्वलः ॥ ३०॥
हलाकारस्तु सव्यस्थबिन्दुयुक्तो विराजते ।
शक्तिर्वामस्थबिन्दुद्यत्स्थिराकारा तथा पुनः ॥ ३१॥
व्यापिका बिन्दुविलसत्त्रिकोणाकारतां गता ।
बिन्दुद्वयान्तरालस्था ऋजुरेखामयी पुनः ॥ ३२॥
समना बिन्दुविलसदृजुरेखा तथोन्मना ।
शक्त्यादीनां वपुः स्फूर्जद्द्वादशादित्यसन्निभम् ॥ ३३॥
चतुःषष्टिस्तदूर्ध्वं तु द्विगुणं दिगुणं ततः ।
शक्त्यादीनां तु मात्रांशो मनोन्मन्यास्तथोन्मनी ॥ ३४॥
दैशकालानवच्छिन्नं तदूर्ध्वे परमं महत् ।
निसर्गसुन्दरं तत्तु परानन्दविघूर्णितम् ॥ ३५॥
आत्मनह् स्फुरणं पश्येद्यदा सा परमा कला ।
अम्बिकारूपमापन्न परा वाक् ससुदीरिता ॥ ३६॥
बीजभावस्थितं विश्वं स्फुटीकर्तुं यदोन्मुखी॥
वामा विश्वस्य वमनादङ्कुशाकारतां गता ॥ ३७॥
इच्छाशक्तिस्तदा सेयं पश्यन्ती वपुषा स्थिता ।
ज्ञानशक्तिस्तथा ज्येष्टा मध्यमा वागुदीरिता ॥ ३८॥
ऋजुरेखामयी विश्वस्थितौइ प्रथितविग्रहा ।
तत्संहृतिदशायां तु बैन्दवं रूपमास्थिता ॥ ३९॥
प्रत्यावृत्तिक्रमेणैवं शृङ्गटवपुरुज्ज्वला ।
क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा ॥ ४०॥
भासनाद्विश्वरूपस्य स्वरूपे बाह्यतोऽपि च ।
एताश्चतस्त्रः शक्त्यस्तु का पू जा ओ इति क्रमात् ॥ ४१॥
पीठाः कन्दे पदे रूपे रूपातीते क्रमात् स्थिताः ।
चतुरस्त्रं तथ बिन्दुषट्कयुक्तं च वृत्तकम् ॥ ४२॥
अर्धचन्द्रं त्रिकोणं च रूपाण्येषां क्रमेण तु ।
पीतो धूम्रस्तथा श्वेतो रक्तो रूपं च कीर्तितम् ॥ ४३॥
स्वयम्भुर्बाणलिङ्गं च इतरं च परं पुनः ।
पीठेष्वेतानि लिङ्गानि संस्थितानि वरानने ॥ ४४॥
हेमबन्धृककुसुमशरच्चन्द्रनिभानि तु ।
स्वावृतं त्रिकूटं च महालिङ्गं स्वयम्भुवम् ॥ ४५॥
कादितान्ता क्षरोपेतं बाणलिङ्गं त्रिकोणकम् ।
कदम्बगोलकाकारं थादिसान्ताक्षरावृतम् ॥ ४६॥
सूक्ष्मरूपं समस्तार्णवृतं परमलिङ्गकम् ।
बिन्दुरूपं परानन्दकन्दं नित्यपओदितम् ॥ ४७
बीअत्रितययुक्तास्य सकस्य मनोः पुनः ।
एतानि वाच्यरूपाणि कुलकौलमयानि तु ॥ ४८॥
जाग्रत्स्वप्नसुषुप्त्याख्यतुर्यरूपाण्यमूनि तु ।
अतितं तु परं तेजः स्वसंविदुदयात्मकम् ॥ ४९॥
स्वेच्छाविश्वमयोल्लेखखचितं विश्वरूपकम् ।
चैतन्यमात्मनो रूपं निसर्गानन्दसुन्दरम् ॥ ५०॥
मेयमातृप्रमामानप्रसरैः संकुचत्प्रभम् ।
शृङ्गाटरूपमापन्नमिच्छाज्ञानक्रियात्मकम् ॥ ५१॥
विश्वाकारप्रथाधारनिजरूपशिवाश्रयम् ।
कामेश्वराङ्कपर्यङ्कनिविष्टमतिसुन्दरम् ॥ ५२॥
इच्छाशक्तिमयं पाशमङ्कुशं ज्ञनरूपिणम् ।
क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् ॥ ५३॥
आश्रयाश्रयिभेदेन अष्टधा भिन्नहेतिमत् ।
अष्टारचक्रसंरूढं नवचक्रासनस्थितम् ॥ ५४॥
एवंरूपं परं तेजः श्रीचक्रवपुषा स्थितम् ।
तदीयशक्तिनिकरस्फुरदूर्मिसमावृतम् ॥ ५५॥
चिदात्मभित्तौ विश्वस्य प्रकाशामर्शने यदा ।
करोति स्वेच्छया पूर्णविचिकीर्षासमन्विता ॥ ५६॥
क्रियाशक्तिस्तु विश्वस्य मोदनाद् द्रावणात्तथा ।
मुद्राख्या सा यदा संविदम्बिका त्रिकलामयी ॥ ५७॥
त्रिखण्डारूपमापन्ना सदा सन्निधिकारिणी ।
सर्वस्य चक्रराजस्य व्यापिका परिकीर्तित ॥ ५८॥
योनिप्राचुर्यतः सैषा सर्वसंक्षोभिका पुनः ।
वामाशक्तिप्रधानेयं द्वारचक्रे स्थिता भवेत् ॥ ५९॥
क्षुब्धाविश्वस्थिततिर्करी ज्येष्टाप्राचुर्यमाश्रिता ।
स्थूलनादकलारूपा सर्वानुग्रहकारिणी ॥ ६०॥
सर्वाशपूरणाख्ये तु सैषा स्फुरितविग्रहा ।
ज्येष्टावामासमन्त्वेन सृष्टेः प्राधान्यमाश्रिता ॥ ६१॥
आकर्षिणी तु मुद्रेयं सर्वसंक्षोभिणी स्मृता ।
व्योमद्वयान्तरालस्थबिन्दुरूपा महेश्वरि ॥ ६२॥
शिवशक्त्यात्मसंश्लेषाद्दिव्याकेशकरी स्मृता ।
चतुर्दशारचक्रस्था संविदानन्दविग्रहा ॥ ६३॥
बिन्द्वन्तरालविलसत्सूक्ष्म रेखाशिखामयी ।
ज्येष्टाशक्तिप्रधाना तु सर्वोन्मादनकारिणी ॥ ६४॥
दशारचक्रमास्थाय संस्थिता वीरवन्दिते ।
वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः ॥ ६५॥
तद्वद्विश्वं वमन्ती सा दिव्तीये तु दशारके ।
संस्थिता मोदनपरा मुद्रारूपत्वमास्थिता ॥ ६६॥
धर्माधर्मस्य संघट्टादुत्थिता वित्तीरूपिणी ।
विकल्पोत्थक्रियालोपरूपदोषविधातिनी ॥ ६७॥
विकल्परूपरोगाणां हारिणी खेचरी परा ।
सर्वरोगहराख्ये तु चक्रे संविन्मयी स्थिता ॥ ६८॥
शिवशक्तिसमाश्लेषस्फुरद्व्योमान्तरे पुनः ।
प्रकाशयति विश्वं सा सूक्ष्मरूपस्थित सदा ॥ ६९॥
बीजरूपा महामुद्रा सर्वसिद्धिमये स्थिता ।
सम्पूर्णस्य प्रकाशस्य लाभभूमिरियं पुनः ॥ ७०॥
योनिमुद्रा कलारूपा सर्वानन्दमये स्थिता ।
क्रिया चैतन्यरूपत्वादेवं चक्रमयं स्थितम् ॥ ७१॥
इच्छारूपं परं तेजाः सर्वदा भावयेद् बुधः ।
त्रिधा च नवधा चैव चक्रसङ्केतकः पुनः ॥ ७२॥
वह्निनैकेन शक्तिभ्यां द्वाभ्यां चैकोऽप्रः पुनः ।
तैश्च वह्नित्रयेणापि शक्तीनां त्रितयेन च ॥ ७३॥
पद्मद्वयेन चान्यः स्याद् भूगृहत्रितयेन च ।
पञ्चशक्ति चतुर्वह्निपद्मद्वयमहीत्रयम् ॥ ७४॥
परिपूर्णं महचक्रं तत्प्रकारः प्रदर्श्यते ।
तत्राद्यं नवयोनि स्यात् तेन द्विदशासंयुतम् ॥ ७५॥
मनुयोनि परं विद्यात् तृतीयं तदनन्तरम् ।
अष्टद्व्यष्टदलोपेतं चतुरस्रत्रयान्वितम् ॥ ७६॥
चक्रस्य त्रिप्रकारत्वं कथितं परमेश्वरि ।
सृष्टिःस्यान्नवयोन्यादिपृथ्व्यन्तं संहृति पुनः ॥ ७७॥
पृथ्व्यादिनवयोन्यन्तमिति शास्त्रस्य निर्णयः ।
एतत्समष्टिरूपं तु त्रिपुराचक्रमुच्यते ॥ ७८॥
यस्य विज्ञानमात्रेण त्रिपुराज्ञानवान् भवेत् ।
चक्रस्य नवधात्वं च कथयामि तव प्रिये ॥ ७९॥
आदिमं भूत्रयेण स्याद् द्वितीयं षोडशारकम् ।
अन्यदष्टदलं प्रोक्तं मनुकोणमनन्तरम् ॥ ८०॥
पञ्चमं दशकोणं स्यात् षष्टं चापि दशारकम् ।
सप्तमं वसुकोणं स्यान्मध्यत्र्यस्रमथाष्टमम् ॥ ८१॥
नवमं त्र्यस्रमध्यं स्यात् तेषां नामान्यतः शृणु ।
त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् ॥ ८२॥
सर्वसंक्षोभणं गौरि सर्वासौभाग्यदायकम् ।
सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् ॥ ८३॥
सर्वरोगहरं देवि सर्वसिद्धिमयं तथा ।
सर्वानन्दमयं चापि नवमं शृणु सुन्दरि ॥ ८४॥
अत्र पुज्या महादेवी महात्रिपुरसुन्दरी ।
परिपूर्णं महाचक्रमजरामरकारकम् ॥ ८५॥
एतमेव महाचक्रसङ्केतः परमेश्वरि ।
कथितस्त्रिपुरादेव्या जीवन्मुक्तिप्रवर्तकः ॥ ८६॥
इति प्रथमः पटलः समाप्तः ।
अथ द्वितीयः पटलः
मन्त्रसङ्केतं दिव्यमधुना कथ्यामि ते ।
यद्वेत्ता त्रिपुराकारो विरचक्रेश्वरो भवेत् ॥ १॥
करशुद्धिकरो त्वाद्या द्वितीया चात्मरक्षिका ।
आत्मासनगता देवी तृतीया तदनन्तरम् ॥ २॥
चक्रासनगता पश्चात् सर्वमन्त्रासनस्थिता ।
साध्यसिद्धासना ष्ष्टा मायालक्ष्मीमयी परा ॥ ३॥
मूर्तिविद्या च सा देवी सप्तमो परिकीर्तिता ।
अष्टम्यावाहिनी विद्या नवमा भैरवी परा ॥ ४॥
मूलविद्या तथा ख्याता त्रैलोक्यवशकारिणी ।
एवं नवप्रकारास्तु पूजाकाले प्रयत्नतः ॥ ५॥
एताः क्रमेण न्यस्तव्याः साधकेन कुलेश्वरि ।
पादाग्रजङ्घाजानूरुगुदलिङ्गाग्रकेषु च ॥ ६॥
आधरे विन्यसन्मूर्ति तस्यामावाहिनीं न्यसेत् ।
मूलेन व्यापकन्यासः कर्तव्यः परेम्श्वरि ॥ ७॥
अकुलादिषु पूर्बोक्तस्थानेषु परिचिन्तयेत् ।
चक्रेश्वरिसमायुक्तं नवचक्रं पुरोदितम् ॥ ८॥
तासां नामानि वक्ष्यामि यथानुक्रमयोगतः ।
तत्राद्या त्रिपुरा देवी द्वितीया त्रिपुरेश्वरी ॥ ९॥
तृतीया च तथा प्रोक्ता देवी त्रिपुरसुन्दरी ।
चतुर्थी च महादेवी देवी त्रिपुरवासिनी ॥ १०॥
पञ्चमी त्रिपुरा श्रीः स्यात् षष्टी त्रिपुरमालिनी ।
सप्तमी त्रिपुरा सिद्धिरष्टमी त्रिपुराम्बिका ॥ ११॥
नवमी तु माहदेवी महात्रिपुरसुन्दरी ।
पूजयेच्च क्रमादेता नवचक्रे पुरोदिते ॥ १२॥
एवं नवप्रकाराद्या पुजाकले तु पार्वति ।
एकाकारा ह्याद्यशक्तिरजरामरकारिणी ॥ १३॥
मन्त्रसङ्केतकस्तस्या नानाकारो व्यवस्थितः ।
नानामन्त्रकर्मेणैव पारम्पर्येण लभ्यते ॥ १४॥
षडविधस्तं तु देवेशि कथयामि तवानधे ।
भावार्थः सम्प्रदायार्थो निगमार्थश्च कौलिकः ॥ १५॥
तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च ।
अक्षरार्थो हि भावार्थः केवलः परमेश्वरि ॥ १६॥
योगिनीभिस्तथा विरैर्वीरेन्द्राइः सर्वदा प्रिये ।
शिवशक्तिसमायोगाऽज्जनितो मन्त्रराजकः ॥ १७॥
तन्मयीं परमानन्दनन्दितां स्पन्दरूपिणीम् ।
निसर्गसुन्दरीं देवीं ज्ञात्वा स्वैरमुपासते ॥ १८॥
शिवशक्त्यात्मसंघट्टरूपे ब्रह्माणि शाश्वते ।
तत्प्रथाप्रसराश्लेषभुवि त्वैन्द्रोपलक्षिते ॥ १९॥
ज्ञातृज्ञानमयाकारसननान्मन्त्ररूपिणी ।
तेषां समष्टिरूपेण पराशक्तिस्तु मातृका ॥ २०॥
मध्यबिन्दुविसर्गान्तः समास्थानमये परे ।
कुटिलारूपके तस्याः प्रतिरूपे वियत्कले ॥ २१॥
मध्यप्राणप्रथारूपपस्पन्दव्योम्नि स्थित पुनः ।
मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः ॥ २२॥
राहुकूटाद्वयस्फूर्जच्चलत्तासंस्थितस्य तु ।
धर्माधर्मस्य वाच्यस्य विषामृतमयस्य च ॥ २३॥
वाचक्राक्षरसंयोगात् कथिता विश्वरूपिणी ।
तेषां समष्टिरूपेण पराशक्तिं तु मातृकाम् ॥ २४॥
कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणिम् ।
आद्यां शक्तिं भावयन्तो भावार्थमिति मन्वते ॥ २५॥
सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः ।
विश्वाकारप्रथायास्तु महत्त्वञ्च यदाश्रयम् ॥ २६॥
शिवशक्त्याद्यया मूलविद्यया परमेश्वरि ।
जगत्कृत्स्नं तया व्याप्तं शृणुष्वावहिता प्रिये ॥ २७॥
पञ्चभूतमयं विश्वं तन्मयी सा सदानघे ।
तन्मयी मूलविद्या च तदद्य कथयाम्मि ते ॥ २८॥
हकाराद् व्योम सम्भूतं ककारात्तु प्रभञ्जनह् ।
रेफादग्निः सकाराच्च जलतत्त्वस्य सम्भवः ॥ २९॥
लकारात्,ह् पृथिवी जाता तस्माद् विश्वमयी च सा ।
गुणाःपञ्चदश प्रोक्ता भूतानं तन्मयी शिवा ॥ ३०॥
यस्य यस्य पदार्थस्य सा या शक्तिरुदीरिता ।
सा सा सर्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ३१॥
व्याप्ता पञ्चदशार्णः सा विद्या भूतगुणात्मिकाः ।
पञ्चभिश्च तथा षड् भिश्चतुर्भिरपि चाक्षरः ॥ ३२॥
स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदेनी ।
सप्तत्रिंशत्प्रभेदेन षट् त्रिंशतत्त्वरूपिणी ॥ ३३॥
तत्त्वातीतस्वभावा च विद्यैषं भाव्यते सदा ।
पृथिव्यादिषु भूतेषु व्यापकं चोत्तरोत्तरम् ॥ ३४॥
भूतं त्वधस्तनं व्याप्यं तद् गुणा व्यापकाश्रयाः ।
व्याप्येष्ववस्थिता देवि स्थूलसूक्ष्मविभेदतः ॥ ३५॥
तस्माद्व्योमगुणः शब्दो वाय्वादीन् व्याप्य संस्थितः ।
व्योमबिहैस्तु विद्यास्थैर्लक्षयेच्छब्दपञ्चकम् ॥ ३६॥
तेषां कारुणरूपेण स्थित ध्वनिमयं परम् ।
भवेद् गुणवतां बीजं गुणानामपि वाचकम् ॥ ३७॥
कार्यकारणभावेन तयोरैक्य विवक्षया ।
महामायात्रयेणापि कारणेन च बिन्दुना ॥ ३८॥
वाय्वाग्निजलभूमीनां स्पर्शानां च चतुष्टयम् ।
उत्पन्नं भावयेद् देवि स्थूलसूक्ष्मविभेदतः ॥ ३९॥
रूपाणां त्रितयं तद्वत् त्रिभी रेफैर्विभावितम् ।
प्रधानं तेजसो रूपं तद् बीजेन हि जन्यते ॥ ४०॥
विद्यास्थैश्चन्द्रबीजैस्तु स्थूलसूक्ष्मो रसः स्मृतः ।
सम्बन्धो विदितो लोके रसस्याप्यमृतस्य च ॥ ४१॥
वसु धाया गुणो गन्धस्तल्लिपिर्गन्धवाचिका ।
भुवनत्रयसम्भन्धात् त्रिधात्वं तु महेश्वरि ॥ ४२॥
अशुद्धशुद्धमिश्राणां प्रमातॄणां परं वपुः ।
क्रोधीशत्रितये नाथ विद्यास्थेन प्रकाश्यते ॥ ४३॥
श्रीकण्ठदशकं तद्वद व्यक्तस्यापि वाचकः ।
प्राणरूपस्थितो देवि तद्वदेकादशः परः ॥ ४४॥
एकः सन्नेव पुरुषो बहुधा कायते हि सः ।
रुद्रेश्वरसदेशाख्या देवता मितविग्रहाः ॥ ४५॥
बिन्दुत्रयेण कथिता अमितामितविग्रहाः ।
शान्तिः शक्तिश्च शम्भुश्च नादत्रितयबोधनाः ॥ ४६॥
वागुरामूलवलये सूत्राद्याः कवलीकृताः ।
तथा मन्त्राः समस्ताश्च विद्यायामत्र संस्थिताः ॥ ४७॥
गुरुक्रमेण सम्प्राप्तः सम्प्रदायार्थ ईरितः ।
निगर्भार्थो महदेवि शिवगुर्वात्मगोचरः ॥ ४८॥
शिवगुर्वात्मनामैक्यानुसंधानात्तदात्मकम् ॥ ४९॥
निष्कलत्वं शिवे बुध्वा तद्रूपत्वं गुरोरपि ।
तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् ॥ ५०॥
भावयेदभक्तिनम्रः सङ्कोचोन्मेषाकलङ्कितः ।
कौलिकं कथयिष्यामि चक्रदेवतयोरपि ॥ ५१॥
विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते ।
लकारैश्चतुरस्राणि वृत्तत्रितयसंयुतम् ॥ ५२॥
सरोरुहद्वयं शक्तैरग्नीषोमात्मकं प्रिये ।
हृल्लेखात्रयसंभूतैरक्षरैर्नवसङ्ख्यकैः ॥ ५३॥
बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये ।
मण्डलत्रययुक्तं तु चक्रं शक्त्यनलात्मकम् ॥ ५४॥
व्योमबीजत्रयेणैव प्रमातृत्रित्यान्वितम् ।
इच्छाज्ञानक्रियारूपमादनत्रयसंयुतम् ॥ ५५॥
सदाशिवासनं देवि महाबिन्दुमयं परम् ।
इत्थं मन्त्रात्मकं चक्रं देवतायाः परं वपुः ॥ ५६॥
एकादशाधिकशतदेवतात्मतया पुनः ।
गणेशत्वं महादेव्याः ससोमरविपावकैः ॥ ५७॥
इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैह् पुनः ।
ग्रहरूपा च सा देवी ज्ञानकर्मेन्द्रियैरपि ॥ ५८॥
तदर्थैरेव देवेशि करणैरान्तरैः पुनः ।
प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना ॥ ५९॥
नक्षत्रविग्रहा जाता योगिनीत्वमथोच्यते ।
त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ ॥ ६०॥
वर्गाष्टकनिविष्टाभिर्योगिनीभिश्च संयुता ।
योगिनीरूपमास्थाय राजते विश्वविग्रा ॥ ६१॥
प्राणापानौ समानश्चोदनव्यानौ तथा पुनः ।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ६२॥
जीवात्मा पर्मात्मा चैत्येतै राशिस्वरूपिणी ।
अकथादित्रिपङ्क्त्यात्मा तार्तियादिक्रमेण सा ॥ ६३॥
गणेशोऽभून्महाविद्या परावागादिवाङ्मयी ।
बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ॥ ६४॥
हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः ।
अन्यैर्द्वादशभिर्वर्णैरेषा नक्षत्ररूपिणी ॥ ६५॥
विद्यानन्तर्भूतशक्त्याद्यैः शाक्तैः षड् भिस्तथाक्षरैः ।
योगिनीत्वं च विद्याय राशित्वं चान्त्यवर्जितैः ॥ ६६॥
एवं विश्वप्रकारा च चक्र रूपा महेश्वरी ।
देव्या देहे यथा प्रोक्तो गुरुदेहे तथैव हि ॥ ६७॥
तत्प्रसादाच्च शिष्योऽपि तद्रूपः सम्प्रजायते ।
इत्येवं कौलिकार्थस्तु कथितो विरवन्दिते ॥ ६८॥
तथा सर्वरह्स्यार्थं कथयामि तवानघे ।
मूलाधारे तडिद्रूपे वाग्भवाकारतां गते ॥ ६९॥
अष्टात्रिंशत्कलायुक्तपञ्चाशद्वर्णविग्रहा ।
विद्या कुण्डलिनीरूपा मण्दलत्रयभेदिनी ॥ ७०॥
तडित्कोटिनिभप्रख्या बिसतन्तुनिभाकृतिः ।
व्योमेन्दुमण्डलासक्ता सुधास्त्रोतःस्वरूपिणी ॥ ७१॥
सदा व्याप्तजगत् कृत्स्ना सदानन्दस्वरूपिणी ।
एषा स्वात्मेति बुद्धिस्तु रहस्यार्थो महेश्वरि ॥ ७२॥
महातत्त्वार्थं इति यत्तच देवि वदामि ते ।
निष्कले प्रमे सूक्ष्मे निर्लक्ष्ये भाववर्जिते ॥ ७३॥
व्योमातीते परे तत्त्वे प्रकाशानन्दविग्रहे ।
विश्वोत्तिर्णे विश्वमये तत्त्वे स्वात्मनियोजनम् ॥ ७४॥
तदा प्रकाशमानत्वं तेजसां तमसामपि ।
अविनाभावरूपत्वं तस्माद्विश्वस्य सर्वतः ॥ ७५॥
प्रकाशते महातत्त्वं दिव्यक्रीडारसोज्ज्वले ।
निरस्तसर्वसंकल्पविकल्पस्थितिपूर्वकः ॥ ७६॥
रहस्यार्थो मया गुप्तः सद्यः प्रत्ययकारकः ।
महाज्ञानार्णवे दृष्टः शङ्का तत्र न पार्वति ॥ ७७॥
विद्यापीठनिबद्धेषु संस्थितो दिव्यसिद्धिदः ।
कौलाचारपरैर्देवि पादुकाभावनापरैः ॥ ७८॥
योगिनीमेलनोद्युक्तैः प्राप्तविद्याभिषेचनैः ।
शङ्काकलङ्कविगतैः सदा मुदितमानसैः ॥ ७९॥
पारम्पर्येण विज्ञातरहस्यार्थविशारदैः ।
लभ्यते नान्यथ देवि त्वां शपेकुलसुन्दरि ॥ ८०॥
पारम्पर्यविहीना ये ज्ञानमात्रेण गर्विताः ।
तेषां समयलोपेन विकुर्वन्ति मरीचयः ॥ ८१॥
यस्तु दिव्यरसास्वादमोदमानविमर्शनः ।
देअतातिथिनक्षत्रे वारेऽपि च विवस्वतः ॥ ८२॥
मरीचीन् प्रीणयत्येव मदिरानन्दघूर्णितः ।
सर्वदा च विशेषण लभते पूर्णबोधताम् ॥ ८३॥
एवंव्हावस्तु देवेशि देशिकेन्द्रप्रसादतः ।
महाज्ञानमयो देवि सद्यः सम्प्राप्यते नरैः ॥ ८४॥
एवमेतत्प्रदं ज्ञानं विद्यार्णागमगोचरम् ।
देवि गुह्यप्रियेणैव व्याख्यातं दुर्गि षड् विधम् ।
सद्यो यस्य प्रबोधेन वीरचक्रेश्वरो भवेत् ॥ ८५॥
इति द्वितीयः पटलः समाप्तः ।
अथ तृतायः पटलः
पूजासङ्केतमधुना कथयामि तवानघे ।
यस्य प्रबोधमात्रेण जिवन्मुक्तः प्रमोदते ॥ १॥
तव नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता ।
परा चाप्यपर गौरि तृतीया च परापरा ॥ २॥
प्रथमाद्वैतभावस्था सर्वप्रसरगोचरा ।
द्वितीया चक्रपूजा च सदा निष्पाद्यते मया ॥ ३॥
एवं ज्ञानमये देवि तृतीया तु परापरा ।
उत्तमा सा परा ज्ञेया विधानं शृणु साम्प्रतम् ॥ ४॥
महापद्मवनान्तस्थे वाग्भवे गुरुपादुकाम् ।
आप्यायितजगद्रूपां पर्मामृतवर्षिणीम् ॥ ५॥
सञ्चिन्त्य परमाद्वैतभावनामृतघूर्णितः ।
दहरान्तरसंसर्पन्नादालोकनतत्परः ॥ ६॥
विकल्परूपसंजल्पविमुखोऽन्तर्मुखः सदा ।
चित्कलोल्लासदलितसंकोचस्त्वतिसुन्दरः ।
इन्द्रियप्रीणनद्रव्यैविं हितस्वात्मपूजनः ॥ ७॥
न्यासं निर्वर्तयेदेहे षोढान्यासपुरःसरम् ।
गणेशैः प्रथमो न्यासो द्वितीतस्तु ग्रहैर्मतः ॥ ८॥
नक्षत्रैश्च तृतीयः स्याद्योगिनीभिश्चतुर्थकः ।
राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ॥ ९॥
षोढान्यासस्त्वयं प्रोक्तः सर्वत्रैवापराजितः ।
एवं यो न्यस्तगात्रस्तु स पूज्यः सर्वयोगिभिः ॥ १०॥
नास्त्यस्य पूज्यो लोकेषु पितृमातृमुखो जनः ।
स एव पूज्यः सर्वेषां स स्वयं परमेश्वरः ॥ ११॥
षोढान्यासविहीनं यं प्रणमेदेष पार्वति ।
सोऽचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते ॥ १२॥
षोढान्यासप्रकारं च कथयामि तवानघे ।
विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ ॥ १३॥
विघ्नकृद्विघ्नहर्ता च गणराट् गणनायकः ।
एकदन्तो द्विदन्तश्च गजवक्त्रो निरञ्जनः ॥ १४॥
कपर्दवान् दीर्घमुखः शङ्कुकर्णो वृषध्वजः ।
गणनाथो गजेन्द्रश्च शुर्पकर्णस्त्रिलोचनः ॥ १५॥
लम्बोदरो महानादश्चतुर्मूर्तिः सदाशिवः ।
आमोदो दुर्मुखश्चैव सुमुखश्च प्रमोदकः ॥ १६॥
एकपादो द्विजिह्वश्च शूरो वीरश्च षण्मुखः ।
वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः ॥ १७॥
सेनानीर्ग्रामणीर्मत्तो विमत्तो मत्तवाहनः ।
जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः ॥ १८॥
भक्ष्यप्रियो गणेशश्च मेघनादो गणेश्वरः ।
तरुणारुणसङ्काशान् गजवक्त्रान् त्रिलोचनान् ॥ १९॥
पाशाङ्कुशवराभीतिहस्तान् शक्तिसमन्वितान् ।
एतांस्तु विन्यसेदेहे मातृकान्यासवत्प्रिये ॥ २०॥
स्वरैस्तु सहितं सूर्यं हृदयाथः प्रविन्यसेत् ।
बिन्दुस्थाने सुधासूतिं यादिवर्णचतुष्टयैः ॥ २१॥
भूपुत्रं लोचनद्वन्द्व कवर्गाधिपतिं प्रिये ।
हृदये विन्यसेच्छुक्रं चवर्गाधिपतिं पुनः ॥ २२॥
हृदयोपरि विन्यसेट्टवर्गाधिपतिं बुधम् ।
बृहस्पतिं कण्ठदेशे तवर्गाधिपतिं प्रिये ॥ २३॥
नाभौ शनैश्चरं देवि पवर्गेशं सुरेश्वरि ।
वक्त्रेशादिचतुर्वर्णैः सहितं राहुमेव च ॥ २४॥
क्षकारसहितं केतुं पायो देवेशि विन्यसेत् ।
[ रक्तं श्वेतं तथा रक्तं श्यामं पीतं च पाण्डुरम् ।
कृष्णं धूम्रं धूम्रधूम्रं भावयेद्रविपुर्वकान्॥
कामरूपधरान् देवि दिव्याम्बरविभूषणान् ।
वामोरुन्यस्तहस्तांश्च दक्षहस्तवरप्रदान् ॥]
ललाटे दक्षनेत्रे च वामे कर्णद्वये पुनः ॥ २५॥
पुटयोनिर्नासिकायाश्च कण्ठे स्कन्धद्वये पुनः ।
पश्चात्कूर्परयुग्मे च मणिबन्धद्वये पुनः ॥ २६॥
स्तनयोर्नाभिदेशे च कटिबन्धे ततः परम् ।
ऊरुयुग्मे तथा जान्वोर्जङ्घयोश्च पदद्वये ॥ २७॥
[ आद्ययुग्मन्तथा चैकं तस्त्रीणि चतुष्टयम् ।
एकमेकं द्वयञ्चेति स्वराः प्रोक्ताश्चतुर्दश ॥ २८॥
व्यञ्जनेष्वेकमुभयं द्वयं न्यस्येदतः परम् ।
एकं युग्मं द्वयन्द्वन्द्वमेकं युग्मं द्वयन्ततः ॥ २९॥
एकं त्रयं तथा चैकं एकमेकं द्वयन्तथा ।
एकं द्वयं त्रयं पश्चाल्लक्षं अं मश्चतुष्टयम् ॥ ३०॥
अशिव्न्यादेः पुरो भगे दत्वा चक्रमतो न्यसेत् ]
ज्वलत्कालानलप्रख्या वरदाभयपाणयः ॥ ३१॥
नतिपाण्योऽश्विनीपूर्वाः सर्वाभरणभूषिताः ।
एतास्तु विन्यसेद्देवि स्थानेष्वेषु सुरार्चिते ॥ ३२॥
विशुद्धौ हृदये नाभौ स्वाधिष्टाने च मूलके ।
आज्ञायां धातुनाथाश्च न्यस्तव्या डादिदेवताः ॥ ३३॥
अमृतादियुताः सम्यङ्न्यस्तव्याश्च सुरेश्वरि ।
पादे लिङ्गे च कुक्षौ च हृदये बाहुमूलयोः ॥ ३४॥
दक्षिणं पादमारभ्य वामपादावसानकम् ।
मेषादिराशयो वर्णैर्न्यस्तव्याः सह पार्वति ॥ ३५॥
[ चतुष्कं त्रितयं त्रीणि द्वितयं द्वितयं द्वयम् ।
पञ्चकं पञ्चकं पञ्च पञ्चक्तं पञ्चकं ततः॥
चत्वारि मेरुर्मिने स्युः कन्यायां पञ्च शादयः । ]
पिठानि विन्यसेद्देवि मातृकास्थानके पुनः ।
तेषां नामानि वक्ष्यन्ते शृणुष्वावहिता प्रिये ॥ ३६॥
कामरूपं वाराणसी नेपालं पौण्ड्रवर्धनम् ।
चरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् ॥ ३७॥
आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोटकम् ।
कैलासं भृगुनगरं केदारपूर्णचन्द्रके ॥ ३८॥
श्रीपीठमोङ्कारपीठं जालन्ध्रं मालवोत्कले ।
कुलान्तं देविकोटं च गोकर्णं मारुतेश्वरम् ॥ ३९॥
अट्टहासं च विरजं राजगेहं महापथम् ।
कोलापुर मेलापुरं ओङ्कारन्तु जयन्तिका ॥ ४०॥
उज्जयिन्यापि चित्रा च क्षीरकं हस्तिनापुरम् ।
ओड्डीशं च प्रयागाख्यं षष्ठं मायापुरं तथा ॥ ४१॥
जलेशं मलयं शैलं मेरुं गिरिवरं तथा ।
महेन्द्रं वामनं चैव हिरण्यपुरमेव चा ॥ ४२॥
महालक्ष्मीपुरोड्याणं छायाछत्रमतः परम् ।
एते पीठाः समुद्दिष्टा मातृकारूपकाः स्थिताः ॥ ४३॥
एवं षोढा पुरः कृत्वा श्रीचक्रन्यासमाचरेत् ।
श्रीमत्त्रिपुरसुन्दर्याश्चक्रन्यासं शृणु प्रिये ॥ ४४॥
यन्न कस्यचिदाख्यातं तनुशुद्धिकरं परम् ।
चतुरस्त्राद्यरेखायै नम इत्यादितो न्यसेत् ॥ ४५॥
दक्षांसपृष्ठपाण्यग्रस्फिक्कपादाङ्गुलीष्वथ ।
वामाङ्घ्र्यङ्गुलिषुस्फिक्के पाण्यग्रे चांसपृष्ठके ॥ ४६॥
सचूलीमूलपृष्ठेषु व्यापकत्वेन सुन्दरि ।
अत्रैव स्थानदशके अणिमाद्यास्तु विन्यसेत् ॥ ४७॥
सिद्धिस्तदन्तश्च तनुव्यापकत्वेन सुन्दरि ।
[ चतुरस्रमध्यरेखायै नम इत्यपि वल्लभे। ]
तस्याः स्थानेषु विन्यस्य ब्रह्माण्याद्यास्तदाष्टसु ॥ ४८॥
पादाङ्गुष्ठद्वये पार्श्वे दक्षे मूर्धन्यपार्श्वके ।
वामदक्षिणजान्वोश्च बहिरंसद्वये तथा ॥ ४९॥
न्यस्तव्याश्चतुरस्रान्त्यरेखायै नम इत्यपि ।
विन्यसेद् व्यापकत्वेन पूर्वोक्तान्तश्च विग्रहे ॥ ५०॥
तस्याः स्थानेषु दशसु मुद्राणां दशकं न्यसेत् ।
ब्रह्माण्याद्यष्टस्थानान्तस्तासामष्टौ न्यसेत्ततः ॥ ५१॥
शिष्टे द्वे द्वादशान्ते च पादाङ्गुष्ठे च विन्यसेत् ।
तदान्तः षोडशदलपद्माय नम इत्यपि ॥ ५२॥
विन्यस्य तद्दले कामाकर्षिण्याद्याश्च विन्यसेत् ।
दलानि दक्षिनश्रोत्रपृष्ठमंसं च कूर्परम् ॥ ५३॥
करपृष्ठं चोरुजानुगुल्फपादतलं तथा ।
वामपादतलाद्येवमेतदेवाष्टकं मतम् ॥ ५४॥
तदन्तरे चाष्टदलपद्माय नम इत्यपि ।
विन्यस्य तद्दलेष्वेषु दक्षशङ्खे च जत्रुके ॥ ५५॥
ऊर्वन्तर्गुल्फगुल्फोरुजत्रुशङ्खे च वमतः ।
अनङ्गकुसुमाद्याश्च शक्तीरष्टौ च विन्यसेत् ॥ ५६
तदनतश्चतुर्दशारचक्राय नम इत्यपि ।
विन्यस्य तस्य कोणेषु न्यसेच्छक्तीश्चतुर्दश ॥ ५७॥
सर्वसङ्क्षोभिण्याद्यास्तु तस्य कोणानि वच्म्यहम् ।
ललाटं दक्षभागं च दक्षगण्डांसमध्यतः ॥ ५८॥
पार्श्वान्तरूरुकङ्घान्तर्वामजङ्घादि पार्वति ।
वामोर्वन्तं वामपार्श्वं वामांसं वामगण्डकम् ॥ ५९॥
ललाटवाममध्ये च तथा वै पृष्ठमित्यपि ।
ततो दशारचक्राय नम इत्यपि पार्वति ॥ ६०॥
तस्य कोणानि दक्षाक्षिनासामूलाऽऽस्यनेत्रके ।
कुक्षीशवायुकोणेषु जानुद्वयगुदेषु च ॥ ६१॥
कुक्षिनै ॠर्तिवह्न्याख्यकोणेष्वेषु न्यसेत् पुनः ।
सर्वासिद्धिप्रदादीनां शक्तीनां दशकं तथा ॥ ६२॥
तदन्तस्च दशारादिचक्राय नम इत्यपि ।
विन्यस्य तस्य कोणेषु सर्वज्ञाद्याः प्रविन्यसेत् ॥ ६३॥
दक्षनासा सृक्किणी चा स्तनं वृषणमेव च ।
सीविनी वाममुष्कं च स्तनं सृक्किणि नासिके ॥ ६४॥
नासाग्रं चैव विज्ञेयं कोणानां दशकं तथा ।
तदन्तरष्टकोणादिचक्राय नम इत्यपि ॥ ६५॥
विन्यस्य तस्य कोणेषु वषिन्याद्यष्टकं न्यसेत् ।
चिबुकं कण्ठहृदयनाभीनां चैव दक्षिणम् ॥ ६६॥
ज्ञेयं पार्श्वचतुष्कं च मणिपूरादि वामकम् ।
चतुष्ठयं च पार्श्वानामेतत् कोणाष्टकं मतम् ॥ ६७॥
हृदयस्थत्रिकोणस्य चतुर्दिक्षु बहिर्न्यसेत् ।
शरचापौ पाशसृणी त्रिकोणाय नमस्तथा ॥ ६८॥
विन्यस्य तस्य कोणेषु अग्रदक्षोत्तरेषु च ।
कामेश्वर्यादिदेवीनां मध्ये देवीं च विन्यसेत् ॥ ६९॥
एवं मयोदितो देवि ! न्यासो गुह्यतमक्रमः ।
एतद् गुह्यतमं कार्यं त्वया वै वीरवन्दिते ॥ ७०॥
समयस्थाय दातव्यं नऽशिष्याय कदाचन ।
गुप्ताद् गुप्ततरं चैतत्तवाऽद्य प्रकटीकृतम् ॥ ७१॥
मूलदेव्यादिकं न्यासमणिमान्तं पुनर्न्यसेत् ।
[ त्रिकोणस्थे महाबिन्दौ महात्रिपुरसुन्दरीम् ] ।
शिरस्त्रिकोणपूर्वादि कामेश्वर्यादिकं न्यसेत् ॥ ७२॥
बाणान्नेत्रे भ्रुवोश्चापौ कर्णे पाशद्वयं न्यसेत् ।
सृणिद्वयं च नासाग्रे दक्षिणाग्रं तु विन्यसेत् ॥ ७३॥
मुण्डमूलक्रमेणैव न्यसेद्वाग्देवताष्टकम् ।
बैन्दवादीनि चक्राणि न्यस्तव्यानि वरानने ॥ ७४॥
नेत्रमूले त्वपाङ्गे च कर्णपूर्वोत्तरे पुनः ।
चूडादिकण्ठनिम्नेऽर्धं शेषार्धं कर्णपृष्टके ॥ ७५॥
कर्णे पूर्वे त्वपाङ्गे च तस्य मूले च विन्यसेत् ।
हृदये मनुकोणस्थ शक्तयोऽपि च पूर्ववत् ॥ ७६॥
सर्वसिद्ध्यादिकं कण्ठे प्रादक्षिण्येन विन्यसेत् ।
नाभावष्टदलं तत्तु वंशे वामे च पार्श्वके ॥ ७७॥
उदरे सव्यपार्श्वे च न्यसेदादिचतुष्टयम् ।
वंशवामान्तरालादि न्यसेदन्य चतुष्टयम् ॥ ७८॥
स्वाधिष्ठाने न्यसेत् स्वस्य पूर्वाद्दक्षावसानकम् ।
चतस्रस्तु चतस्रस्तु चतुर्दिक्षु क्रमान्न्यसेत् ॥ ७९॥
मूलाधारे न्यसेन्मुद्रादशकं साधकोत्तमः ।
पुनर्वंशे च सव्ये च वामे चैवान्तरालके ॥ ८०॥
ऊर्धोधो दशमुद्राश्च ऊर्ध्वाधोवर्जितं पुनः ।
ब्रह्माण्याद्याष्टकं दक्षजन्घायां तास्तु पूर्ववत् ॥ ८१॥
वामजङ्घां समारभ्य वामादिक्रमतोऽपि च ।
सिद्ध्यष्टकं न्यसेत्तेषु द्वयं पादतले न्यसेत् ॥ ८२॥
कारणात्प्रसृतं न्यासं दीपाद्दीपमिवोदितम् ।
एवं विन्यस्य देवेशीं स्वाभेदेन विचिन्तयेत् ॥ ८३॥
ततश्च करशुद्ध्यादिन्यासं कुर्यात् समाहितः ।
अहं ते कथयाम्यद्य विद्यान्यासं शृनु प्रिये ॥ ८४॥
मूर्ध्नि गुह्ये च हृदये नेत्रेषु त्रितयेषु च ।
श्रोत्रयोर्युगले चैव मुखे च भुजयोस्तथा ॥ ८५॥
पृष्टे जान्वोश्च नाभौ च विद्यान्यासं विधाय च ।
करशुद्धिं पुनश्चैव आसनादिषडङ्गकम् ॥ ८६॥
श्रीकण्ठादीनि वाग्देवीराधारे हृदये पुनः ।
शिखायां बैन्दवस्थाने त्वग्निचक्रादिका न्यसेत् ॥ ८७॥
तत्त्वत्रयं समस्तं च विद्याबिजत्रयान्वितम् ।
पादादिनाभिपर्यन्तमागलं शिरस्तथा ॥ ८८॥
व्यापकं चैव विन्यस्य स्वात्मीकृत्य परं पुनः ।
सन्तर्पयेत् पुनर्देवीं सौम्याग्नेयामृतद्रवैः ॥ ८९॥
एवं चतुर्विधो न्यासः कर्वव्यो वीरवन्दिते ।
षोढान्यासोऽणिमाद्यश्च मूलदेव्यादिकः प्रिये ॥ ९०॥
करशुद्ध्यादिकस्चैव साधकेन सुसिद्धये ।
प्रातः काले तथा पूजासमये होमकर्मणि ॥ ९१॥
जपकाले तथा तेषां विनियोगः पृथक् पृथक् ।
पूजाकाले समस्तं वा कृत्वा साधकपुङ्गवः ॥ ९२॥
षट्त्रिंशतत्त्वपर्यन्तमासनं परिकल्प्य च ।
गुप्तादियोगिनीनां च मन्त्रेणाऽथ बलिं ददेत् ॥ ९३॥
पिण्ऽडरूपपदग्रन्थिभेदनाद् विघ्नभेदकम् ।
गुह्यहृन्मुखमूर्धसु विद्यान्यासनेअ सुन्दरि ॥ ९४॥
यागमन्दिरगांश्चैव विघ्नानुत्सार्य मन्त्रवित् ।
[ अपसर्पन्तु ते भूता ये भुता भूमिसंस्थिताः॥
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ]
पार्ष्णिघातेन भौमांश्च तालेन च नभोगतान् ॥ ९५॥
अस्त्रमन्त्रेण विद्यांश्च दृष्ट्या विघानपोहयेत् ।
दिक्ष्वधोर्ध्वं महावह्निप्राकारं परिभावयेत् ॥ ९६॥
सामान्यार्ध्येण देवेशि! मार्तण्ऽडं परिपूजयेत् ।
प्रकाशशक्तिसहितमरुणाकल्पमुज्ज्वलम् ॥ ९७॥
ग्रहादिपरिवारञ्च विश्वतेजोऽवभासनम् ।
सौम्याग्नेययुतैर्देवि रोचनागुरुकुङ्कुमैः ॥ ९८॥
मूलमुच्चारयन् सम्यग्भावयेच्चक्रराजकम् ।
योगिनी मूलमन्त्रेण क्षिपेत् पुष्पाञ्जलिं ततः ॥ ९९॥
मणिमुक्ताप्रवालैर्वा विलोमं मूलविद्यया ।
अशून्यं सर्वदा कुर्याच्छून्ये विघ्नास्त्वनेकशः ॥ १००॥
श्रीचक्रस्यात्मनश्चैव मध्ये त्वर्घ्यं प्रतिक्षिपेत् ।
चतुरस्रान्तरालस्थकाणषट्के सुरेश्वरि ॥ १०१॥
षडासनानि सम्पुज्य त्रिकोणस्यान्तरे पुनः ।
पीठानि चतुरो देवि कापूजा ओ इति क्रमात् ॥ १०२॥
अर्चयित्वाऽर्घ्यपादे तु वह्नेर्दश कला यजेत् ।
अर्घ्यपात्रं प्रतिष्ठाप्य तत्र सूर्यकला यजेत् ॥ १०३॥
पात्रे सूर्यकलाश्चैव कभादिद्वादशार्चयेत् ।
विधृते तु पुनर्द्रव्ये षोडशेन्दुकला यजेत् ॥ १०४॥
अमृतेशीं च तन्मध्ये भावयेच्च नवात्मना ।
नवात्मना ततो देवि तर्पेय्द्धातुदेवताः ॥ १०५॥
आनन्दभैरवं वौषडन्तेनैव च तर्पयेत् ।
तदाज्ञाप्रेरितं तच्च गुरुषङ्क्तौ निवेदयेत् ॥ १०६॥
तथैवार्घ्यं विशेषेण साधयेत् साधकोत्तमः ।
गुरुपादालिमापूज्य भैरवाय ददेत् पुनः ॥ १०७॥
तदीयं शेषमादाय कामाग्नौ विश्व ... स्थुषि ।
पादुकां मूलविद्यां च जपन् होमं समाचरेत् ॥ १०८॥
महाप्रकाशे विश्वस्य संहारवमनोद्यते ।
मरीचिवृत्तीर्जुहुयान्मनसा कुण्डलीमुखे ॥ १०९॥
अहन्तेदन्तयोरैक्यमुन्मन्यां स्रुचि कल्पितम् ।
मथनोद्रेकसम्भूतं वस्तुरूपं महाहविः ॥ ११०॥
हुत्वा हुत्वा स्वयं चैवं महजानन्दविग्रहः ।
स्वप्रधाप्रसराकारं श्रीचक्रं पूजयेत् सुधीः ॥ १११॥
गणेशं दूतरीं चैव क्षेत्रेशं दूतिकां तथा ।
बाह्यद्वरे यजेद् देवि देवीश्च स्वस्तिकादिकाः ॥ ११२॥
ततस्चान्तस्त्रिकोणऽपि गुरुपङ्क्तिं त्रिधा स्थिताम् ।
तदन्तश्च महादेवीं तामावाह्य यजेत् पुनः ॥ ११३॥
महापद्मवनान्तस्थां कारणानन्दविग्रहाम् ।
मदङ्कोपाश्रितां देवीमिच्छाकामफलप्रदाम् ॥ ११४॥
भवतीं त्वन्मयैरेव नैवेद्यादिभिरर्चयेत् ।
त्रिकोणे तत्स्फुरत्तायाः प्रतिबिम्बाकृतीः पुनः ॥ ११५॥
तत्तत्तिथिमयीर्नित्याः काम्यकर्मानुसारिणीः ।
तत्र प्रकटयोगिन्यश्चक्रे त्रैलोक्यमोहने ॥ ११६॥
मातृकास्थूलरूपत्वात्त्वगादिव्यापकत्वतः ।
योगिन्यः प्रकटा ज्ञेयाः स्थूलविश्वप्रधात्मनि ॥ ११७॥
अणिमाद्या महादेवि सिद्धयोऽष्टौ व्यवस्थिताः ।
तासु रक्ततरा बणैर्वराभयकरास्तथा ॥ ११८॥
धृतचिन्तामहारत्ना मनीषितफलप्रदाः ।
ब्राह्म्याद्या अपि तत्रैव यष्टव्याः क्रमतः प्रिये ॥ ११९॥
ब्रह्माणी पीतवर्णा च चतुर्भिः शोभिता मुखैः ।
वरदाऽभयहस्ता च कुण्डिका क्षलसत्करा ॥ १२०॥
माहेश्वरी श्वेतवर्णा त्रिनेत्रा शूलधारिणी ।
कपालमेणं परशुं दधाना पाणिभिः प्रिये ॥ १२१॥
[ ऐन्द्री तु श्यामवर्णा च व्रजोत्पललसत्करा ]
कौमारी पीतवर्णा च शक्तितोमरधरिणी ॥ १२२॥
वरदाभयहस्ता च ध्यातव्या परमेश्वरी ।
वैष्णवी श्यामवर्णा च शङ्खचक्रवराभयान् ॥ १२३॥
हस्तपद्मैस्तु विभ्राणा भूषिता दिव्यभूषणैः ।
वाराही श्यामलच्छाया पोत्रि वक्त्रसमुज्ज्वला ॥ १२४॥
हलं च मुसलं खड्गं खेटकं दधाती भुजैः ।
[ ऐन्द्री श्यामलवर्णा च वज्रद्वयलसत्करा ] ॥ १२५॥
चामुण्डा कृष्णवर्णा च शूलं डमरुकं तथा ।
खड्गं वेतालकं चैव दधाना दक्षिणैः करैः ॥ १२६॥
नागखेटकघण्टा ख्यान् दधानान्यैः कपालकम् ।
महालक्ष्मीस्तु पीताभा पद्मदर्पणमेव च ॥ १२७॥
मात लुङ्गफलं चैव दधान परमेश्वरी ।
एवं ध्यात्वा यजेदेताश्चक्रेशीं त्रिपुरां ततः ॥ १२८॥
कर्मेन्द्रियाणां वैमल्यात् करशुद्धिकरी स्मृता ।
कायशुद्धिभवा सिद्धिरणिमा चात्र संस्थिता ॥ १२९॥
षोडशस्पन्दसन्दोहे चमत्कृतिमयोः कलाः ।
प्राणादिषोडशानां तु वयुना प्राणनात्मिकाः ॥ १३०॥
बीज भूताः स्वरात्मत्वात् कलनाद् बीजरूपकाः ।
अन्तरङ्गतया गुप्ता योगिन्यः संव्यवस्थिताः ॥ १३१॥
कामाकर्षणरूपाद्याः सृष्टेः प्राधान्यतः प्रिये ।
सर्वाशापूरणाख्ये तु चक्रे वामेन पूजयेत् ॥ १३२॥
पाशाङ्कुशधरा ह्येता रक्ता रक्ताम्बरा वृताः ।
प्राणशुद्धिमयी सिद्धिर्लघिमा भोक्तुरात्मनः ॥ १३३॥
त्रिपुरेशी च चक्रेशी पूज्या सर्वोपचारकैः ।
[ कौलिकानुभवाविष्टभोगपुर्यष्टकाश्रिताः ॥ १३४॥
वाग्भवाष्टकसम्बन्धसूक्ष्मा वर्गस्वरूपतः ।
तास्तु गुप्ततराः सर्वाः सर्वसंक्षोभणात्मके ॥ १३५॥
अनङ्गकुसुमाद्यास्तु रक्तकञ्चुकशोभिताः ]
[ वेणीकृत लसत्केशाश्चापबाणधराः शुभाः ] ॥ १३६॥
तत्तदाजारबुद्ध्यात्मबोग्यभोक्तुर्महेशितुः ।
पिण्डादिपदविश्रान्तिसौन्दर्यगुणसंयुता ॥ १३७॥
चक्रेश्वरी बुद्धिशुद्धिरूपा च परमेश्वरी ।
महिमासिद्धिरूपा तु पूज्या सर्वोपचारकैः ॥ १३८॥
द्वादशग्रन्थिभेदेन समुल्लसितसंविदः ।
विसर्गान्तदशवेशाच्छाक्तानुभवपूर्वकम् ॥ १३९॥
उन्मेषषक्तिप्रसरईरिच्छाशक्तिप्रधानकैः ।
तदेवाऽकुलसङ्घट्टरूपैर्वर्णचतुष्टयैः ॥ १४०॥
वेद्योष्मरूपसावर्णैर्मिश्रेच्छाभावितैरपि ।
कुलशक्तिसमावेशरूपवर्णद्वयान्वितैः ॥ १४१॥
शक्तेः सारमयत्वेन प्रसृतत्वान्महेश्वरि ।
स,प्रदायक्रमायाताश्चक्रे सौभाग्यदायके ॥ १४२॥
निरन्तरओरधा रूपसौभाग्यं कलयोगतः ।
अन्तर्थसंज्ञिके देवि अणिमासदृशा: शुभाः ॥ १४३॥
सर्वसङ्क्षोभिणीपूर्वा देहाक्षादिविशुद्धिदाः ।
ईशित्वसिद्धिरपि च प्रोतरूपे पुरत्रये ॥ १४४॥
योगादिक्लेशभेदेन सिद्धा त्रिपुरवासिनीइ ।
एताः सम्पूजयेद् देवि सर्वाः सर्वोपचारकैः ॥ १४५॥
सदातनाना नादानां नवरन्ध्रस्थितात्मनाम् ।
महासामान्यरूपेण व्यावृत्तध्वनिरूपिणीइ ॥ १४६॥
अस्थिरस्थिरवेद्यानां छायारूपैर्दशार्णकैः ।
कुलकौलिकयोगिन्यः सर्व्सिद्धिप्रदायिकाः ॥ १४७॥
श्वेताम्ब्रधराः श्वेताः श्वेताभरणभूषिताः ।
मन्त्राणां स्वप्रधारूपयोगादन्वर्थसंज्ञ्के ॥ १४८॥
सर्वसिद्धिप्रदाद्यास्तु चक्रे सर्वर्थसाधके ।
लोकत्रयसमृद्धीनां हेतुत्वाच्चक्रनायिका ॥ १४९॥
त्रिपुरा श्रीर्महेशानि मन्त्रशुद्धिभवा पुनः ।
वशित्वसिद्धिराख्याता एताः सर्वाख़् समर्चयेत् ॥ १५०॥
ऊर्ध्वाधोमुखया देवि कुण्डलिन्या प्रकाशिताः ।
कुलेच्छया बहिर्भावात् कादिवर्णप्रथामयी ॥ १५१॥
निगर्भयोगिनीवाच्याः स्वरूपावेशरूपके ।
सर्वावेशकर चक्रे सर्वरक्षाकरे पराः ॥ १५२॥
सर्वज्ञाद्याः स्थिता एताः सह पुस्ताक्षमालिकाः ।
मातृमानप्रमेयाणां पुराणां परिपोषिणी ॥ १५३॥
त्रिपुरामालिनी ख्याता चक्रेशी त्रिपुरमोहिनी ।
निरूद्धवायुसङ्घट्टस्फटितग्रन्थिमूलतः ॥ १५४॥
हृदयान्तरसंवित्तिशून्यपर्यष्टकात्मना ।
बीजरूपस्वरकलास्पृष्टवर्गानुसारतः ॥ १५५॥
रह्स्ययोगिनीर्देवीः संसारदलनोज्ज्वले ।
सर्वरोगहरे चक्रे संस्थिता वीरवन्दिते ॥ १५६॥
वशिन्याद्या रक्तवर्णा वरदाभयमुद्रिताः ।
पुस्तकं जपमालां च दधानाः सिद्धयोगिनीः ॥ १५७॥
शुद्धिविद्याविशुद्धिं च भुक्तिसिद्धिं महेश्वरि ।
ईश्वरीं त्रिपुरां सिद्धां पूजयेद् बिन्दुतर्पणैः ॥ १५८॥
शक्तित्रयात्मिका देवि चिद्धामप्रसराः पुनाः ।
संवर्ताग्निकलारूपाः परमातिरहस्यकाः ॥ १५९॥
पूर्णापुर्णस्वरूपायाः सिद्धेर्हेतुः सुरेश्वरि ।
सर्वासिद्धिमयाख्ये तु चक्रे त्वायुधभूषिताः ॥ १६०॥
स्थिताः कामेश्वरीपूर्वाश्चतस्त्रः पीठदेवताः ।
आयुधास्त्वतिरक्ताभाः स्वायुधोज्ज्वलमस्तकाः ॥ १६१॥
वरदाभयहस्ताश्च्च पूज्या व्रतफलप्रदा:ः ।
त्वदीयाश्च मदीयाश्च पुंस्त्रिवश्यविधायिनः ॥ १६२॥
त्वगसृङ्मांसमेदोस्थिशुक्लानां च महेश्वरि ।
द्वितीयस्वरसंयुक्ता एते बाणास्त्वदीयकाः ॥ १६३॥
वामादीनां पुराणां तु जननी त्रिपुर्म्बिका ।
परस्वातन्त्र्यरूपत्वादिच्छासिद्धिर्महेश्वरि ॥ १६४॥
एताः सर्वोपचारेण पूजयेत्तु वरानने ।
सर्वानन्दमये देवि परब्रह्मात्मके परे ॥ १६५॥
चक्रे संवित्तिरूपा च महात्रिपुरसुन्दरी ।
स्वैराचारेण सम्पूज्या त्वहन्तेदन्तयोः सम ॥ १६६॥
महाकामकलारूपा पीठविद्यादिसिद्धिदा ।
महामुद्रामयी देवि पूज्या पञ्चदशात्मिका ॥ १६७॥
तत्तत्तिथिमयी नित्या नवमी भैरवी परा ।
प्रतिचक्रं समुद्रास्तु चक्रसङ्केतचोदिताः ॥ १६८॥
नित्यक्लिन्न्नादिकाश्चैव काम्यकर्मानुसारतः ।
चतुरस्रान्तराले वा त्रिकोणे वा यजेत् सुधीः ॥ १६९॥
अलिना पिशितैर्गन्धैर्धूपैराराध्य देवताः ।
चक्रपूजां विधाएत्थं कुलदीपं निवेदयेत् ॥ १७०॥
अन्तर्बहिर्भासमानं स्वप्रकाशोज्ज्वलं प्रिये ।
पुष्पाञ्जलिं ततः कृत्वा जपं कुर्यात् समाहितः ॥ १७१॥
कूटत्रये महादेवि कुण्डलीत्रितयेऽपि च ।
चक्राणां पूर्वपूर्वेषां नादरूपेण योजिताम् ॥ १७२॥
तेषु प्राणाग्निमायार्णकलाबिन्द्वर्धचन्द्रिकाः ।
रोधिनीनादनादान्ताः शक्तिव्यापिकलान्विताः ॥ १७३॥
समना चोन्मना चेति द्वादशन्ते स्थिताः प्रिये ।
मूलकुण्डलिनीरूपे मध्यमे च ततः पुनः ॥ १७४॥
सृष्ट्युन्मुखे च विश्वस्य स्थितिरूपे महेश्वरि ।
केवलं नादरूपेण उत्तरोत्तरयोजितम् ॥ १७५॥
शबलाकारके देवि तृतीये द्वादशी कला ।
शून्यषट्कं तथा देवि ह्यवस्थापञ्चकं पुनः ॥ १७६॥
विषुवं सप्तरूपं च भावयन् मनसा जपेत् ।
अग्न्यादिद्वादशान्तेषु त्रींस्त्रीन् त्यक्त्वा वरानने ॥ १७७॥
शून्यत्रयं विजानीयादेकैकान्तरतः प्रिये ।
[ शुन्यत्रयात् परे स्थाने महाशून्यं विभावयेत् ]
प्रबोध करणस्याऽथ जागरत्वेन भावनम् ॥ १७८॥
वह्नौ देवि महाजाग्रदवस्था त्विन्द्रियद्वयैः ।
आन्तरैः करणैरेव स्वप्नमायावबोधकः ॥ १७९॥
गलदेशे सुषुप्तिस्तु लीनपूर्वस्य वेदनम् ।
अन्तःकरणवृओत्तीनां लयतो विषयस्य तु ॥ १८०॥
पूर्वार्णानां विलोमेन भ्रूमध्ये बिन्दुसंस्थिता ।
तुर्यरूपं तथा चात्र वृत्तार्धादेस्तु सङ्ग्रहः ॥ १८१॥
चैतन्यव्यक्तिहेतोस्तु नादरूपस्य वेदनम् ।
तुर्यातीतं सुखस्थानं नादान्तादिस्थितं प्रिये ॥ १८२॥
अत्रैव जपकाले तु पञ्चावस्थाः स्मरेद् बुधः ।
योगः प्राणात्ममनसां विषुवं प्राणसंज्ञितम् ॥ १८३॥
आधारित्थितनादे तु लीनं बुद्ध्यात्मरूपकम् ।
संयोगेन वियोगेन मन्त्रार्णानां महेश्वरि ॥ १८४॥
अनहताद्याधारान्तं नादात्मत्वविचिन्तनम् ।
नादसंस्पर्शनात्तस्य नाडीविषुवमुच्यते ॥ १८५॥
द्वादशग्रन्थिभेदेन वर्णानामन्तरे प्रिये ।
नादयोगः प्रशान्तं तु प्रशान्तेन्द्रियगोचरम् ॥ १८६॥
वह्निं मायां कलां चैव चेतनामर्धचन्द्रकम् ।
रोधिनीनादनादान्तान् शक्तौ लीनान् विभावयेत् ॥ १८७॥
विषुवं शक्तिसंज्ञ्ं तु तदुर्ध्वं नादचिन्तनम् ।
तदुर्ध्वं कालविषुवमुन्मनान्तं महेश्वरि ॥ १८८॥
मुनिचन्द्राऽष्टदशभिस्त्रुटिभिर्नादवेदनम् ।
चैतन्यव्यक्तिहेतुश्च विषुवं तत्त्वसंज्ञितम् ॥ १८९॥
परं स्थानं महादेवि निसर्गानन्दसुन्दरम् ।
एवं चितयमानस्य जपकालेषु पार्वति ॥ १९०॥
सिद्धयः सकलास्तूर्णां सिद्ध्यन्ति त्वत्प्रसादतः ।
एवं कृत्वा जपं देव्या वामहस्ते निवेदयेत् ॥ १९१॥
अनामाङ्गुष्ठयोगेन तर्पयेच्चक्रदेवताः ।
मद्यं मांसं तथा मत्स्यं देव्यास्तु विनिवेदयेत् ॥ १९२॥
कौलाचारसमायुक्तैर्विरैर्स्तु सह पूजयेत् ।
पुष्यभेन तु वारे च सौरे च परमेश्वरि ॥ १९३॥
गुरोर्दिने स्वनक्षत्रे चतुर्दश्यष्टमीषु च ।
चक्रपूजां विशेषेण योगिनीनां समाचरेत् ॥ १९४॥
चतुःषष्टियुताः कोट्यो योगिनीनां महौजसाम् ।
चक्रमेतत् समाश्रित्य संस्थिता वीरवन्दिते ॥ १९५॥
अष्टाष्टकं तु कर्तव्यं वित्तशाठ्यविवर्जितम् ।
त्वमेव तासां रूपेण क्रीडसे विश्वमोहिनी ॥ १९६॥
अज्ञात्व तु कुलाचारमयष्ट्वा गुरुपादुकाम् ।
योऽस्मिन् शास्त्रे प्र्वर्तेत तं त्वं पीडयसि ध्रुवम् ॥ १९७॥
एवं ज्ञात्वा वरारोहे कौलाचारपरः सदा ।
आवयोः शबलाकारं मद्यं तत्र निवेद्य च ॥ १९८॥
त्वत्प्रधा प्रसराकारास्त्वामेव परिभावयेत् ।
वामिच्छाविग्रहां देवीं गुरुरूपां विभावयेत् ॥ १९९॥
त्वन्मयस्य गुरोः शेषं निवेद्यात्मनि योजयेत् ।
योगिनीनां महादेवि बटुकायात्मरूपिणे ॥ २००॥
क्षेत्राणां पतये मद्यं बलिं कुर्वित हेतुना ।
नित्यं पिबन् वमन् खादन् स्वेच्छाचारपरः स्वयम् ॥ २०१॥
अहन्तेदन्तयोरौक्यं भावयन् विहरेत् सुखम् ।
एतत्ते कथितं सर्वं सङ्केतत्रयमुत्तमम् ॥ २०२॥
गोपनीयं प्रयत्नेन स्वगुह्यमिव सुव्रते ।
चुम्बके ज्ञानलुब्धे च न प्रकाश्यं त्वयानघे ॥ २०३॥
अन्यायेन न दातव्यं नास्तिकानां महेश्वरि ।
एवं त्वयाऽहमाज्ञप्तो मदिच्छारूपया प्रभो ॥ २०४॥
अज्ञानेन तु यो दद्यात् स परेतो भविष्यति ।
सङ्केतं यो विजानाति योगिनीनां भवेत्प्रियः ॥ २०५॥
सर्वेप्सितफलावाप्तिः सर्वकामफलाश्रयः ।
यतोऽपि दृश्यते देवि कथं विद्वान्न चिन्तयेत् ॥ २०६॥
इति तृतीयः पटलः समाप्तः ।
॥ इति योगिनीहृदयं स्तोत्रम् ॥
Encoded and proofread by Mike Magee
(ac70@cityscape.co.uk mike.magee@btinternet.com) .