श्रीललिताहृदयस्तोत्रम्

श्रीललिताहृदयस्तोत्रम्

अथश्रीललिताहृदयस्तोत्रम् ॥ श्रीललिताम्बिकायै नमः । देव्युवाच । देवदेव महादेव सच्चिदानन्दविग्रहा । सुन्दर्याहृदयं स्तोत्रं परं कौतूहलं विभो ॥ १॥ ईश्वरौवाच । साधु साधुत्वया प्राज्ञे लोकानुग्रहकारकम् । रहस्यमपिवक्ष्यामि सावधानमनाःश‍ृणु ॥ २॥ श्रीविद्यां जगतां धात्रीं सर्ग्गस्थितिलयेश्वरीम् । नमामिललितां नित्यां भक्तानामिष्टदायिनीम् ॥ ३॥ बिन्दुत्रिकोणसम्युक्तं वसुकोणसमन्वितम् । दशकोणद्वयोपेतं चतुर्द्दश समन्वितम् ॥ ४॥ दलाष्टकेसरोपेतं दलषोडशकान्वितम् । वृत्तत्रययान्वितम्भूमिसदनत्रयभूषितम् ॥ ५॥ नमामि ललिताचक्रं भक्तानामिष्टदायकम् । अमृताम्भोनिधिन्तत्र रत्नद्वीपं नमाम्यहम् ॥ ६॥ नानावृक्षमहोद्यानं वन्देहं कल्पवाटिकाम् । सन्तानवाटिकांवन्दे हरिचन्दनवाटिकाम् ॥ ७॥ मन्दारवाटिकां पारिजातवाटीं मुदा भजे । नमामितव देवेशि कदम्बवनवाटिकाम् ॥ ८॥ पुष्यरागमहारत्नप्राकारं प्रणमाम्यहम् । पद्मरागादिमणिभिःप्राकारं सर्वदा भजे ॥ ९॥ गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये । वैडूर्यरत्नप्राकारम्प्रणमामि कुलेश्वरी ॥ १०॥ इन्द्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहम् । मुक्ताफलमहारत्नप्राकारम्प्रणमाम्यहम् ॥ ११॥ मरताख्यमहारत्नप्राकाराय नमोनमः । विद्रुमाख्यमहारत्नप्राकारम्प्रणमाम्यहम् ॥ १२॥ माणिक्यमण्डपं रत्नसहस्रस्तम्भमण्डपम् । ललिते!तवदेवेशि भजाम्यमृतवापिकाम् ॥ १३॥ आनन्दवापिकां वन्देविमर्शवापिकां भजे । भजेबालातपोल्गारं चन्द्रिकोगारिकां भजे ॥ १४॥ महाश‍ृङ्गारपरिखां महापत्माटवीं भजे । चिन्तामणिमहारत्नगृहराजं नमाम्यहम् ॥ १५॥ पूर्वांनायमयं पूर्व्वद्वारं देवि नमाम्यहम् । दक्षिणांनायरूपन्तेदक्षिणद्वारमाश्रये ॥ १६॥ नमामि पश्चिमद्वारं पश्चिमाम्नाय रूपकम् । वन्देहमुत्तरद्वारमुत्तराम्नायरूपकम् ॥ १७॥ ऊर्द्ध्वाम्नायमयं वन्दे ह्यूर्द्धद्वारं कुलेश्वरि । ललितेतव देवेशि महासिंहासनं भजे ॥ १८॥ ब्रह्मात्मकं मञ्चपादमेकं तव नमाम्यहम् । एकंविष्णुमयं मञ्चपादमन्यं नमाम्यहम् ॥ १९॥ एकं रुद्रमयं मञ्चपादमन्यं नमाम्यहम् । मञ्चपादंममाम्येकं तव देवीश्वरात्मकम् ॥ २०॥ मञ्चैकफलकं वन्दे सदाशिवमयं शुभम् । नमामितेहंसतूलतल्पकं परमेश्वरी! ॥ २१॥ नमामिते हंसतूलमहोपाधानमुत्तमम् । कौस्तुभास्तरणंवन्दे तव नित्यं कुलेश्वरी ॥ २२॥ महावितानिकां वन्दे महायविनिकां भजे । एवं पूजागृहं ध्यात्वा श्रीचक्रे श्रीशिवां भजे ॥ २३॥ स्वदक्षिणे स्थापयामि भागे पुष्पाक्षतादिकान् । अमितांस्तेमहादेवि दीपान् सन्दर्शयाम्यहम् ॥ २४॥ मूलेन त्रिपुराचक्रं तव सम्पूज्ययाम्यहम् । त्रिभिःखण्डैस्तवख्यातैः पूजयामि महेश्वरि! ॥ २५॥ वाय्वग्नि जलसम्युक्तं प्राणायामैरहं शिवै । शोषाणान्दाहनं चैव करोमि प्लावनं तथा ॥ २६॥ त्रिवारं मूलमन्त्रेण प्राणायामं करोम्यहम् । पाषण्डकारिणोभूता भूमौये चान्तरिक्षके ॥ २७॥ करोम्यनेन मन्त्रेण तालत्रयमहं शिवे । नारायणोऽहम्ब्रह्माहं भैरवोऽहं शिवोस्म्यहम् ॥ २८॥ देवोहं परमानन्दोऽस्म्यहं त्रिपुरसुन्दरि । ध्यात्वावै वज्रकवचं न्यासं तव करोम्यहम् ॥ २९॥ कुमारीबीजसम्युक्तं महात्रिपुरसुन्दरि! । मांरक्षरक्षेति हृदि करोम्यज्ञलिमीश्वरि! ॥ ३०॥ महादेव्यासनायेति प्रकरोम्यासनं शिवे । चक्रासनंनमस्यामि सर्वमन्त्रासनं शिवे ॥ ३१॥ साद्ध्यसिद्धासनं मन्त्रैरेभिर्युक्तं महेश्वरि । करोम्यस्मिञ्चक्रमन्त्रैर्देवतासनमुत्तमम् ॥ ३२॥ करोम्यथ षडङ्गाख्यं मातृकां च कलां न्यसे । श्रीकण्टङ्केशवं चैव प्रपञ्चं योगमातृकाम् ॥ ३३॥ तत्त्वन्यासं ततः कूर्व्वे चतुष्पीटं यथाचरे । लघुषोढान्ततः कूर्व्वे शक्तिन्यासं महोत्तमम् ॥ ३४॥ पीटन्यासं ततः कुर्वे देवतावाहनं प्रिये । कुङ्कुमन्यासकञ्चैव चक्रन्यासमथाचरे ॥ ३५॥ चक्रन्यासं ततः कुर्व्वे न्यासं कामकलाद्वयम् । षोडशार्ण्णमहामन्त्रैरङ्गन्यासङ्करोम्यहम् ॥ ३६॥ महाषोढां ततः कुर्व्वे शाम्भवं च महाप्रिये । ततोमूलम्प्रजप्त्वाथ पादुकाञ्च ततः परम् ॥ ३७॥ गुरवे सम्यगर्च्याथ देवतां हृदिसम्भजे । करोमिमण्डलं वृत्तं चतुरश्रं शिवप्रिये ॥ ३८॥ पुष्पैरभ्यर्च्च्यसाधारं शङ्खं सम्पूजयामहम् । अर्च्चयामिषडङ्गेन जलमापूरयाम्यहम् ॥ ३९॥ ददामि चादिमं बिन्दुं कुर्वे मूलाभिमन्त्रितम् । तज्जलेनजगन्मातस्त्रिकोणं वृत्तसम्युतम् ॥ ४०॥ षल्कोणं चतुरश्रञ्च मण्डलं प्रणमाम्यहम् । विद्ययापूजयामीह त्रिखण्डेन तु पूजनम् ॥ ४१॥ बीजेनवृत्तषल्कोणं पूजयामि तवप्रिये । तस्मिन्देवीकलात्मानां मणिमण्डलमाश्रये ॥ ४२॥ धूम्रार्च्चिषं नमस्यामि ऊष्मां च ज्वलनीं तथा । ज्वालिनीञ्च नमस्यामि वन्देहं विस्पुलिङ्गिनीम् ॥ ४३॥ सुश्रियं च सुरूपाञ्चकम्पिलां प्रणमाम्यहम् । नौमिहव्यवहां नित्यां भजे कव्यवहां कलाम् ॥ ४४॥ सूर्याग्निमण्डलां तत्र सकलाद्वादशात्मकम् । अर्घ्यपाद्यमहन्तत्र तपिनीं तापिनीं भजे ॥ ४५॥ धूम्रां मरीचीं वन्देहं ज्वालिनीं मरुहं भजे । सुषुम्नाम्भोगदां वन्दे भजे विश्वां च बोधिनीम् ॥ ४६॥ धारिणीं च क्षमां वन्दे सौरीरेताः कलाभजे । आश्रयेमण्मलं चान्द्रं तल्कलाषोडशात्मकम् ॥ ४७॥ अमृतां मानदां वन्दे पूषां तुष्टीं भजाम्यहम् । पुष्टिम्भजे महादेवि भजेऽहं च रतिं धृतिम् ॥ ४८॥ रशनिं चन्द्रिकां वन्दे कान्तीं जोत्सना श्रियं भजे । नेऔमिप्रीतिञ्चागतदाञ्चपूर्ण्णिमाममृताम्भजे ॥ ४९॥ त्रिकोणलेखनं कुर्व्वे आकारादिसुरेखकम् । हलक्षवर्ण्णसम्युक्तंस्पीतं तं हंसभास्करम् ॥ ५०॥ वाक्कामशक्ति संयुक्तं हंसमाराधयाम्यहम् । वृत्ताद्बहिःषडश्रस्यलेखनं प्रकरोम्यहम् ॥ ५१॥ पुरतोग्न्यादिषल्ख़ोणं कखगेनार्च्चयाम्यहम् । श्रीविद्ययासप्तवारं करोम्यत्राभि मन्त्रितम् ॥ ५२॥ समर्प्पयामि देवेशि तस्मात् गन्धाक्षतादिकम् । ध्यायामिपूजाद्रव्येषु तत् सर्वं विद्ययायुतम् ॥ ५३॥ चतुर्न्नवतिसन्मन्त्रान् स्पृष्ट्वा तत् प्रजपाम्यहम् । वह्नेर्द्दशकलाःसूर्यकलाद्वादशकं भजे ॥ ५४॥ आश्रये शोडषकलास्तत्र चन्द्रमसस्तदा । सृष्टिम्वृद्धिम् स्मृतिम् वन्दे मेधाम् कान्तीम् तथैव च ॥ ५५॥ लक्ष्मीम् द्युथिम् स्थिताम् वन्दे स्थितिम् सिद्धिम् भजाम्यहम् । एताब्रह्मकलावन्दे जरान्थाम् पालिनीम् भजे ॥ ५६॥ शान्तिं नमामीश्वरीं च रतीं वन्दे च कारिकाम् । वरदांह्लादिनीं वन्दे प्रीतिं दीर्घां भजाभम्यहम् ॥ ५७॥ एता विष्णुअकलावन्दे तीक्षणां रौद्रिं भयां भजे । निद्रान्तन्द्रीं क्षुधां वन्दे नमामि क्रोधिनीं क्रियाम् ॥ ५८॥ उल्कारीं मृत्युरूपां च एता रुद्रकला भजे । नीलाम्पीतां भजे श्वेतां वन्देहमरुणां कलाम् ॥ ५९॥ अनन्तख्यां कलाञ्चेति ईश्वरस्य कलाभजे । निवृत्तिञ्चप्रतिष्ठाञ्चविद्यांशान्तिं भजाम्यहम् ॥ ६०॥ रोधिकां दीपिकां वन्दे रेचिकां मोचिकां भजे । परांसूक्षामृतां सूक्षां प्रणामि कुलेश्वरि! ॥ ६१॥ ज्ञानाख्याञ्चनमस्यामि नौमिज्ञानामृतां कलाम् । आप्यायिनींव्यापिनीं च मोदिनीं प्रणमाम्यहम् ॥ ६२॥ कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् । विष्णुयोनिन्नमस्यामि मूलविद्यां नमाम्यहम् ॥ ६३॥ त्रैयम्बकम् नमस्यामि तद्विष्णुम् प्रणमाम्यहम् । विष्णुयोनिम्नमस्यामि मूलविद्याम् नमाम्यहम् ॥ ६४॥ अमृतं मन्त्रितं वन्दे चतुर्न्नवतिभिस्तथा । अखण्डैकरसानन्दकरेपरसुधात्मनि ॥ ६५॥ स्वच्छन्दस्पपुरणं मन्त्रं नीधेहि कुलरूपिणि । अकुलस्थामृताकारेसिद्धिज्ञानकरेपरे ॥ ६६॥ अमृतं निधेह्यस्मिन् वस्तुनिक्लिन्नरूपिणि । तद्रूपाणेकरस्यत्वङ्कृत्वाह्येतत्स्वरूपिणि ॥ ६७॥ भूत्वा परामृताकारमयि चित् स्पुरणं कुरु । एभिर्म्मनूत्तमैर्वन्देमन्त्रितं परमामृतम् ॥ ६८॥ जोतिम्मयमिदं वन्दे परमर्घ्यञ्च सुन्दरि । तद्विन्दुभिर्मेशिरसि गुरुं सन्तर्प्पयाम्यहम् ॥ ६९॥ ब्रह्मास्मिन् तद्विन्दुं कुण्डलिन्यां जुहोम्यहम् । हृच्चक्रस्तां-महादेवीम्महात्रिपुरसुन्दरीम् ॥ ७०॥ निरस्तमोहतिमिरां साक्षात् संवित्स्वरूपिणीम् । नासापुटात्परकलामथनिर्ग्गमयाम्यहम् ॥ ७१॥ नमामियोनिमद्ध्यास्थां त्रिखण्डकुसुमांञ्जलिम् । जगन्मातर्महादेवियन्त्रेत्वां स्थापयाम्यहम् ॥ ७२॥ सुधाचैतन्यमूर्त्तीं ते कल्पयामिमनुं तव । अनेनदेविमन्त्रयन्त्रेत्वां स्थापयाम्यहम् ॥ ७३॥ महापद्मवनान्तस्थे कारणानन्तविग्रहे । सर्वभूतहितेमातरेह्यपि परमेश्वरि ॥ ७४॥ देवेशी भक्तसुलभे सर्वाभरणभूषिते । यावत्वम्पूजयामीहतावत्त्वं सुस्थिराभव ॥ ७५॥ अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहम् । कल्पयामिनमः पादमर्घ्यं ते कल्पयाम्यहम् ॥ ७६॥ गन्धतैलाभ्यञ्जनञ्चमज्जशालाप्रवेशम् । कल्पयामिनमस्तस्मै मणिपीठोप्रवेशनम् ॥ ७७॥ दिव्यस्नानीयमीशानि गृहाणोद्वर्त्तनं शुभे । गृहाणोष्णादकस्नानङ्कल्पयाम्यभिषेचनम् ॥ ७८॥ हेमकुम्भायुतैः स्निग्द्धैः कल्पयाम्यभिषेचनम् । कल्पयामिनमस्तुभ्यं धएऔतेन परिमार्ज्जनम् ॥ ७९॥ बालभानु प्रतीकाशं दुकूलं परिधानकम् । अरुणेनदुकुलेनोत्तरीयं कल्पयाम्यहम् ॥ ८०॥ प्रवेशनं कल्पयामि सर्वाङ्गानि विलेपनम् । नमस्तेकल्पयाम्यत्र मणिपीठोपवेशनम् ॥ ८१॥ अष्टगन्धैः कल्पयामि तवलेखनमम्बिके । कालागरुमहाधूपङ्कल्पयामि नमश्शिवे ॥ ८२॥ मल्लिकामालातीजाति चम्पकादि मनोरमैः । अर्च्चिताङ्कुसुमैर्म्मालां कल्पयामि नमश्शिवे ॥ ८३॥ प्रवेशनं कल्पयामि नमो भूषणमण्डपे । उपवेश्यंरत्नपीठे तत्रते कल्पयाम्यहम् ॥ ८४॥ नवमाणिक्यमकुटं तत्रते कल्पयाम्यहम् । शरच्चन्द्रनिभंयुक्तं तच्चन्द्रशकलं तव ॥ ८५॥ तत सीमन्तसिन्दूरं कस्तूरीतिलकं तव । कालाज्ञनङ्कल्पयामि पालीयुगलमुत्तमम् ॥ ८६॥ मणिकुण्डलयुग्मञ्च नासाभरणमीश्वरी! । ताटङ्कयुगलन्देवि ललिते धारयाम्यहम् ॥ ८७॥ अथाद्यां भूषणं कण्ठे महाचिन्ताकमुत्तमम् । पदकन्ते कल्पयामि महापदकमुत्तमम् ॥ ८८॥ मुक्तावलीं कल्पयामि चैकावलि समन्विताम् । छन्नवीरञ्चकेयूरयुगलानां चतुष्टयम् ॥ ८९॥ वलयावलिमालानीं चोर्मिकावलिमीश्वरि । काञ्चीदामकटीसूत्रंसौभग्याभरणं च ते ॥ ९०॥ त्रिपुरे पादकटकं कल्पये रत्ननूपुरम् । पादाङ्गुलीयकन्तुभ्यं पाशमेकं करेतव ॥ ९१॥ अन्ये करेङ्कुशं देवि पूण्ड्रेक्षुधनुषं तव । अपरेपुष्पबाणञ्च श्रीमन्माणिक्यपादुके ॥ ९२॥ तदावरण देवेशि महामञ्चादिरोहणम् । कामेश्वराङ्कपर्यङ्कमुपवेशनमुत्तमम् ॥ ९३॥ सुधया पूर्ण्णचषकं ततस्तत् पानमुत्तमम् । कर्प्पूरवीटिकान्तुभ्यं कल्पयामि नमः शिवे ॥ ९४॥ आनन्दोल्लासविलसद्धंसं ते कल्पयाम्यहम् । मङ्गलारात्रिकंवन्दे छत्रं ते कल्पयाम्यहम् ॥ ९५॥ चामरं यूगलं देविदर्प्पणं कल्पयाम्यहम् । तालव्रिन्तङ्कल्पयामिगन्धपुष्पाक्षतैरपि ॥ ९६॥ धूपं दीपश्चनैवेद्यं कल्पयामि शिवप्रिये । अथाहम्बैन्दवे चक्रे सर्वानन्दमयात्मके ॥ ९७॥ रत्नसिंहासने रम्ये समासीनां शिवप्रियाम् । उद्यद्भानुसहस्राभाञ्जपापुष्पसमप्रभाम् ॥ ९८॥ नवरत्नप्रभायुक्तमकुटेन विराजिताम् । चन्द्ररेखासमोपेताङ्कस्तूरितिलकाङ्किताम् ॥ ९९॥ कामकोदण्डसौन्दर्यनिर्ज्जितभ्रूलतायुताम् । अञ्जनाञ्चितनेत्रान्तुपद्मपत्रनिभेषणाम् ॥ १००॥ मणिकुण्डलसम्युक्त कर्ण्णद्वयविराजिताम् । ताम्बूलपूरितमुखींसुस्मितास्यविराजिताम् ॥ १०१॥ आद्यभूषणसम्युक्तां हेमचिन्ताकसंयुताम् । पदकेनसमोपेतां महापदकसंयुताम् ॥ १०२॥ मुक्ताफलसमोपेतामेकावलिसमन्विताम् । कौसुभाङ्गदसंयुक्तचतुर्बाहुसमन्विताम् ॥ १०३॥ अष्टगन्धसमोपेतां श्रीचन्दनविराजिताम् । हेमकुम्भोपमप्रख्यस्तनद्वन्दविराजिताम् ॥ १०४॥ रक्तवस्त्रपरीधानां रक्तकञ्चुकसंयुताम् । सूक्ष्मरोमावलियुक्ततनुमद्ध्यविराजिताम् ॥ १०५॥ मुक्तामाणिक्यखचित काञ्चीयुतनितम्बनीम् । सदाशिवाङकस्थबृहन्महाजघनमण्डलाम् ॥ १०६॥ कदलिस्तम्भसंराजदूरुद्वयविराजिताम् । कपालीकान्तिसङ्काशजङ्घायुगलशोभिताम् ॥ १०७॥ ग्रूढगुल्फद्वेयोपेतां रक्तपादसमन्विताम् । ब्रह्मविष्णुमहेशादिकिरीटस्फूर्ज्जिताङ्घ्रिकाम् ॥ १०८॥ कान्त्या विराजितपदां भक्तत्राण परायणाम् । इक्षुकार्मुकपुष्पेषुपाशाङ्कुशधरांशुभाम् ॥ १०९॥ संवित्स्वरूपिणीं वन्दे ध्यायामि परमेश्वरीम् । प्रदर्शयाम्यथशिवेदशामुद्राः फलप्रदाः ॥ ११०॥ त्वां तर्प्पयामि त्रिपुरे त्रिधना पार्व्वति । अग्नौमहेशदिग्भागे नैरृत्र्यां मारुते तथा ॥ १११॥ इन्द्राशावारुणी भागे षडङ्गान्यर्च्चये क्रमात् । आद्याङ्कामेश्वरीं वन्दे नमामि भगमालिनीम् ॥ ११२॥ नित्यक्लिन्नां नमस्यामि भेरुण्डां प्रणमाम्यहम् । वह्निवासान्नमस्यामि महाविद्येश्वरीं भजे ॥ ११३॥ शिवदूतिं नमस्यामि त्वरितां कुल सुन्दरीम् । नित्यान्नीलपताकाञ्च विजयां सर्वमङ्गलाम् ॥ ११४॥ ज्वालामालाञ्च चित्राञ्च महानित्यां च संस्तुवे । प्रकाशानन्दनाथाख्याम्पराशक्तिनमाम्यहम् ॥ ११५॥ शुक्लदेवीं नमस्यामि प्रणमामि कुलेश्वरीम् । परशिवानन्दनाथाख्याम्पराशक्ति नमाम्यहम् ॥ ११६॥ कौलेश्वरानन्दनाथं नौमि कामेश्वरीं सदा । भोगानन्दन्नमस्यामि सिद्धौघञ्च वरानने ॥ ११७॥ क्लिन्नानन्दं नमस्यामि समयानन्दमेवच । सहजानन्दनाथञ्चप्रणमामि मुहुर्मुहु ॥ ११८॥ मानवौघं नमस्यामि गगनानन्दगप्यहम् । विश्वानन्दन्नमस्यामि विमलानन्दमेवच ॥ ११९॥ मदनानन्दनाथञ्च भुवनानन्दरूपिणीम् । लीलानन्दन्नमस्यामि स्वात्मानन्दं महेश्वरि ॥ १२०॥ प्रणमामिप्रियानन्दं सर्वकामफलप्रदम् । परमेष्टिगुरुंवन्दे परमङ्गुरुमाश्रये ॥ १२१॥ श्रीगुरुं प्रणमस्यामि मूर्द्ध्नि ब्रह्मबिलेश्वरीम् । श्रीमदानन्दनाथाख्यश्रिगुरोपादुकां तथा ॥ १२२॥ अथ प्राथमिके देवि चतुरश्रे कुलेश्वरि । अणिमांलखिमां वन्दे महिमां प्रणमाम्यहम् ॥ १२३॥ ईशित्वसिद्धिं कलये वशित्वं प्रणमाम्यहम् । प्राकाम्यसिद्धिम्भुक्तिञ्च इच्छाप्राप्र्तिमहं भजे ॥ १२४॥ सर्वकामप्रदां सर्वकामसिद्धिमहं भजे । मद्ध्यमेचतुरश्रेहं ब्राह्मीं माहेश्वरीं भजे ॥ १२५॥ कौमारीं वैष्णवीं वन्दे वाराहीं प्रणमाम्यहम् । माहेन्द्रीमपिचामुण्डाम्महालक्ष्मीमहं भजे ॥ १२६॥ तृतीये चतुरश्रे तु सर्वसंक्षोभिणीं भजे । सर्वविद्रापिणीम्मुद्रां सर्वाकर्षिणिकां भजे ॥ १२७॥ मुद्रां वशङ्करीं वन्दे सर्वोन्मादिनिकां भजे । भजेमहाङ्कुशां मुद्रां खेचरीं प्रणमाम्यहम् ॥ १२८॥ बीजामुद्रां योनिमुद्रां भजे सर्वत्रिखण्डिनीम् । त्रैलोक्यमोहनञ्चक्रं नमामि ललिते तव ॥ १२९॥ नमामि योगिनीं तत्र प्रखटाख्यामभीष्टदाम् । सुधार्ण्णवासनंवन्दे तत्र ते परमेश्वरि ॥ १३०॥ चक्रेश्वरि महं वन्दे त्रिपुरां प्रणमाम्यहम् । सर्वसंक्षोभिणीम्मुद्रां ततोहं कलये शिवे ॥ १३१॥ अथाहं षोडशदले कामाकर्षिणिकां भजे । बुद्ध्याकर्षिणिकां वन्देऽहङ्काराकर्षिणीं भजे ॥ १३२॥ शब्दाकर्षिणिकां वन्दे स्पर्शाकर्षिणिकां भजे । रूपाकर्षिणिकांवन्दे रसाकर्षिणिकां भजे ॥ १३३॥ गन्धाकर्षिणिकां वन्दे चित्ताकर्षिणिकां भजे । धैर्याकर्षिणिकांवन्दे स्मृत्याकर्षिणिकां भजे ॥ १३४॥ नामाकर्षिणिकां वन्दे बीजाकर्षिणिकां भजे । आत्माकर्षिणिकांवन्दे अमृताकर्षिणिकां भजे ॥ १३५॥ शरीराकर्षिणिकां वन्दे नित्यां श्रीपरमेश्वरि । सर्वाशापूरकंवन्दे कल्पयेहं तवेश्वरि ॥ १३६॥ गुप्ताख्यां योगिनीं वन्दे मातरं गुप्तपूज्यताम् । पोताम्बुजासनन्तत्र नमामि ललिते तव ॥ १३७॥ त्रिपुरेशीं नमस्यामि भजामिष्टार्त्थसिद्धिदाम् । सर्वविद्राविणिमुद्रान्तत्राहं ते विचन्तये ॥ १३८॥ सिवे तवाष्टपत्रेहमनङ्गकुसुमां भजे । अनङ्गमेखलांवन्दे अनङ्गमदनां भजे ॥ १३९॥ नमोहं प्रणस्यामि अनङ्गमदनातुराम् । अनङ्गरेखाङ्कलये भजेनङ्गां च वेगिनीम् ॥ १४०॥ अनङ्गाकुशवन्देऽहमनङ्गमालिनीं भजे । तत्राहम्प्रणस्यामि देव्या आसनमुत्तमम् ॥ १४१॥ नमामि जगतीशानीं तत्र त्रिपुरसुन्दरीम् । सर्वाकर्षिणिकाम्मुद्रां तत्राह कल्पयामिते ॥ १४२॥ भुवनाश्रये तव शिवे सर्वसंक्षोभिणीं भजे । सर्वविद्राविणींवन्दे सर्वकर्षिणिकां भजे ॥ १४३॥ सर्वह्लादिनीं वन्दे सर्वसम्मोहिनीं भजे । सकलस्तम्भिनीं वन्दे कलये सर्वजृम्भिणीम् ॥ १४४॥ वशङ्करीं नमस्यामि सर्वरज्ञिनिकां भजे । सकलोन्मदिनीं वन्दे भजे सर्वार्थसाधके ॥ १४५॥ सम्पत्तिपुरिकां वन्दे सर्वमन्त्रमयीं भजे । भजाम्येवततश्शक्तिं सर्वद्वन्द्वक्ष्यङ्करीम् ॥ १४६॥ तत्राहं कलये चक्रं सर्वसौभाग्यदायकम् । नमामिजगतां धात्रीं सम्प्रदायाख्ययोगिनिम् ॥ १४७॥ नमामि परमेशानीं महात्रिपुरवासिनिम् । कलयेहन्तव शिवे मुद्रां सर्वशङ्करीम् ॥ १४८॥ बहिर्द्दशारे ते देवि सर्वसिद्धिप्रदां भजे । सर्वसम्पत्प्रदां वन्दे सर्वप्रियङ्करीं भजे ॥ १४९॥ नमाम्यहं ततो देवीं सर्वमङ्गलकारिणीम् । सर्वकामप्रदांवन्दे सर्वदुःखविमोचिनिम् ॥ १५०॥ सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीम् । सर्वाङ्गसुन्दरींवन्दे सर्वसौभाग्यदायिनीम् ॥ १५१॥ सर्वार्त्थसाधकं चक्रं तत्राहं ने विचिन्तये । तत्राहन्ते नमस्यामि कुलोत्तीर्णाख्य योगिनीम् ॥ १५२॥ सर्वमन्त्रसनं वन्दे त्रिपुराश्रियमाश्रये । कलयामिततो मुद्रां सर्वोन्मादन कारिणीम् ॥ १५३॥ अन्तर्द्दशारे ते देवि सर्वज्ञां प्रणमाम्यहम् । सर्वशक्तिन्नमस्यामि सर्वैश्वर्यप्रदां भजे ॥ १५४॥ सर्वज्ञानमयीं वन्दे सर्वव्याधिविनाशिनीम् । सर्वाधारस्वरूपाञ्चसर्वपापहराम्भजे ॥ १५५॥ सर्वानन्दमयिं वन्दे सर्वरक्षास्वरूपिणीम् । प्रणमामिमहादेवीं सर्वेप्सित फलप्रदाम् ॥ १५६॥ सर्वरक्षाकरं चक्रं सुन्दरीं कलये सदा । निगर्भयोनींवन्दे तत्राहं प्रणमाम्यहम् ॥ १५७॥ साद्ध्यसिद्धासनं वन्दे भजे त्रिपुरमालिनीम् । कलयामिततो देवीं मुद्रां सर्वमहाङ्कुशाम् ॥ १५८॥ अष्टारे वशिनीं वन्दे महा कामेश्वरीं भजे । मोदिनींविमलांवन्दे अरुणाजयिनीं भजे ॥ १५९॥ सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहम् । सर्वरोगहरञ्चक्रं तत्राहं कलये सदा ॥ १६०॥ नमामि त्रिपुरा सिद्धिं भजे मुद्रां च खेचरीम् । महात्रिकोणवत्बाहुचतुरश्रे कुलेश्वरि ॥ १६१॥ नमामि जृम्भणाबाणं सर्वसम्मोहिनीं भजे । पाशञ्चापं भजे नित्यं भजे स्तम्भनमङ्कुशम् ॥ १६२॥ त्रिकोणेहं जगद्धात्रीं महाकामेश्वरीं भजे । महावज्रेश्वरींवन्दे महाश्रीभगमालिनीम् ॥ १६३॥ महाश्रीसुन्दरीं वन्दे सर्वकामफलप्रदाम् । सर्वसिद्धिप्रदञ्चक्रं तवदेवि नमाम्यहम् ॥ १६४॥ नमाम्यतिरहस्याख्यां योगिनीं तवकामदाम् । त्रिपुराम्बान्नमस्यामि बीजामुद्रामहाम्भजे ॥ १६५॥ मूलमन्त्रेण ललिते तल्बिन्दौ पूजयाम्यहम् । सर्वानन्दमयञ्चक्रं तवदेवि भजाम्यहम् ॥ १६६॥ परां पररहस्याख्यां योगिनीं तत्रकामदाम् । महाचक्रेश्वरींवन्दे योनिमुद्रामहं भजे ॥ १६७॥ धूपदीपादिकं सर्वमर्प्पितं कल्पयाम्यहम् । त्वल्प्रीतयेमहामुद्रां दर्शयामि ततश्शिवे ॥ १६८॥ शाल्यन्नं मधुसम्युक्तं पायसापूप सम्युक्तम् । घृतसूपसमायुक्तन्दधिक्षीरसमन्वितम् ॥ १६९॥ सर्वभक्ष्यसमायुक्तं बहुशाकसमन्वितम् । निक्षिप्यकाञ्चने पात्रे नैवेद्यं कल्पयामि ते ॥ १७०॥ सङ्कल्पबिन्दुना चक्रं कुचौ बिन्दुद्वयेन च । योनिश्चसपरार्द्धेन कृत्वा श्रीललिते तव ॥ १७१॥ एतत् कामकला रूपं भक्तानां सर्वकामदम् । सर्वसौभाग्यदंवन्दे तत्र त्रिपुरसुन्दरीम् ॥ १७२॥ वामभागे महेशानि वृत्तं च चतुरस्रकम् । कृत्वागन्धाक्षताद्यैश्चाप्यर्च्चयामि महेश्वरीम् ॥ १७३॥ वाग्दवाद्यं नमस्यामि तत्र व्यापकमण्डलम् । जलयुक्तेनपाणौ च शुद्धमुद्रा समन्वितम् ॥ १७४॥ तत्र मन्त्रेण दास्यामि देवि ते बलिमुत्तमम् । नमस्तेदेवदेवेशि नम स्त्रैलोक्यवन्दिते ॥ १७५॥ नमश्शिववराङ्कस्थे नमस्त्रीपुरसुन्दरि । प्रदक्षिणनमस्कारमनेनाहं करोमि ते ॥ १७६॥ तत सङ्कल्पमन्त्राणां समाजं परमेश्वरि । प्रजपामिमहाविद्यां त्वत् प्रीत्यर्त्थमहं शिवे ॥ १७७॥ तव विद्यां प्रजप्त्वाथ नौमि त्वां परमेश्वरि । महादेविमहेशानि महाशिवमये प्रिये ॥ १७८॥ महानित्ये महासिद्धे त्वामहं शरणं शिवे । जयत्वन्त्रिपुरे देवि ललिते परमेश्वरि ॥ १७९॥ सदाशिव प्रियङ्करि पाहिमां करुणानिधे । जगन्मातर्ज्जगद्रूपेजगदीश्वरवल्लभे ॥ १८०॥ जगन्मयि जगत् स्तुत्ये गौरि त्वामहमाश्रये । अनाद्येसर्वलोकानामाद्ये भक्तेष्टदायिनि ॥ १८१॥ गिरिराजेन्द्रतनये नमस्तीपुरसुन्दरि । जयारीञ्जयदेवेशिब्रह्ममातर्महेश्वरि ॥ १८२॥ विष्णुमातरमाद्यन्ते हरमातस्सुरेश्वरि । ब्रह्म्यादिमातृसंस्तुत्ये सर्वाभरण सम्युक्ते ॥ १८३॥ ज्योतिर्मयि महारूपे पाहिमां त्रिपुरे सदा । लक्ष्मीवाण्यादिसं पूज्ये ब्रह्मविष्णुशिवप्रिय ॥ १८४॥ भजामि तव पादाब्जं देवि त्रिपुरसुन्दरि । त्वल्प्रीत्यर्त्थंयतः काञ्चीच्छक्तिं वैपूजयाम्यहम् ॥ १८५॥ ततश्च केतनां शक्तिं तर्पयामि महेश्वरि । तथापित्वां भजंस्तोषं चिदग्नौ च ददाम्यहम् ॥ १८६॥ त्वल्प्रीत्यर्थ्यं महादेवि ममाभीष्टार्त्थ सिद्धये । बद्ध्वात्वां खैचरीमुद्रां क्षमस्वोद्वासयाम्यहम् ॥ १८७॥ तिष्ठमे हृदयेनित्यं त्रिपुरे परमेश्वरि । जगदम्बमहाराज्ञि महाशक्ति शिवप्रिये ॥ १८८॥ हृच्चक्रे तिष्तमे नित्यं महात्रिपुरसुन्दरि । एतत्त्रिपुरसुन्दर्या हृदयं सर्वकामदम् ॥ १८९॥ महारहस्यं सततं दुर्ल्लभं दैवतैरपि । साक्षात्सदाशिवेनोक्तं गुह्यात् गुह्यमनुत्तमम् ॥ १९०॥ यः पतेत् श्रद्धया नित्यं श‍ृणुयाद्वा समाहितः । नित्यपूजाफलन्देव्यास्सलभेन्नात्र संशयः ॥ १९१॥ पापैः समुच्यते सद्यः कायवाक्क् सित्तसम्भवैः । पूर्वजन्मसमुत् भ्रदतैर्ज्ञानाज्ञकृतैरपि ॥ १९२॥ सर्वक्रतुषुयत् पुण्यं सर्वतीर्त्थेषु यर्फलम् । तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥ १९३॥ अचलां लभते लक्ष्मीं त्रैलोक्येनाति दुर्लभाम् । साक्षाद्विष्णुर्महालक्ष्याशीघ्रमेव भविष्यति ॥ १९४॥ अष्टैश्वर्य मवाप्नोति स शीघ्रं मानवोत्तमः । घण्डिकापादुकासिद्ध्यादिष्टकंशीघ्रमश्नुते ॥ १९५॥ श्रीमत्त्रिपुराम्बिकायै नमः । ॥ श्रीललिताहृदयस्तोत्रं सम्पूर्णम् ॥ ॐ तत् सत् ॥ Encoded and proofread by Adwaith Menon adwaithmenon at gmail.com
% Text title            : laLitaahRidaya stotraM
% File name             : shrIlalitAhRidayastotram.itx
% itxtitle              : lalitAhRidayastotram
% engtitle              : lalitAhRidaya stotram
% Category              : hRidaya, devii, dashamahAvidyA, lalitA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory           : lalitA
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Adwaith Menon adwaithmenon at gmail.com
% Proofread by          : Adwaith Menon
% Latest update         : June 15, 2005
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org