श्रीसुब्रह्मण्यसहस्रनामस्तोत्रम् मार्कण्डेयप्रोक्तम्

श्रीसुब्रह्मण्यसहस्रनामस्तोत्रम् मार्कण्डेयप्रोक्तम्

स्वामिमलै सहस्रनामस्तोत्रम् ॐ श्री गणेशाय नमः । अस्य श्री सुब्रह्मण्य सहस्रनामस्तोत्रमहामन्त्रस्य, मार्कण्डेय ऋषिः । अनुष्टुप्छन्दः । श्री सुब्रह्मण्यो देवता । शरजन्माऽक्षय इति बीजं, शक्तिधरोऽक्षय इति शक्तिः । कार्तिकेय इति कीलकम् । क्रौञ्चभेदीत्यर्गलम् । शिखिवाहन इति कवचम्, षण्मुख इति ध्यानम् । श्री सुब्रह्मण्य प्रसाद सिद्ध्यर्थे नाम पारायणे विनियोगः । करन्यासः ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय हृष्टचित्तात्मने भास्वद्रूपाय अङ्गुष्ठाभ्यां नमः । var भास्वरूपाय ॐ रं षट्कोण मध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय तर्जनीभ्यां नमः । ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय षडक्षराय स्वामिनाथाय मध्यमाभ्यां नमः । ॐ णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय कुमाराय सुब्रह्मण्याय (सुब्रह्मण्य) अनामिकाभ्यां नमः । ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षाय मूलप्रकृतिरहिताय कनिष्ठिकाभ्यां नमः । ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने शक्तिहस्ताय ब्रह्मैकरूपिणे करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादिन्यासः । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम् - ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं var वन्दे षण्मुख बालार्कद्युति षट्किरीटविलसत्केयूर हारान्वितम् । कर्णालम्बित कुण्डल प्रविलसद्गण्डस्थलैः शोभितं ?? was missing la? काञ्ची कङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥ षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिदेधानं सदा ?de? ध्यायामीप्सित सिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥ द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्य सहस्रतेजसम् । वन्दे मयूरासनमग्निसम्भवं सेनान्यमध्याहमभीष्टसिद्धये ॥ लमित्यादि पञ्चपूजा । अथ स्तोत्रम् । ॐ सुब्रह्मण्यः सुरेशानः सुरारिकुलनाशनः । ब्रह्मण्यो ब्रह्मविद् ब्रह्मा ब्रह्मविद्यागुरूर्गुरुः ॥ १॥ ईशानगुरुरव्यक्तो व्यक्तरूपः सनातनः । प्रधानपुरुषः कर्ता कर्म कार्यं च कारणम् ॥ २॥ अधिष्ठानं च विज्ञानं भोक्ता भोगश्च केवलः । अनादिनिधनः साक्षी नियन्ता नियमो यमः ॥ ३॥ वाक्पतिर्वाक्प्रदो वाग्मी वाच्यो वाग्वाचकस्तथा । पितामहगुरुर्लोकगुरुस्तत्वार्थबोधकः ॥ ४॥ प्रणवार्थोपदेष्टा चाप्यजो ब्रह्म सनातनः । वेदान्तवेद्यो वेदात्मा वेदादिर्वेदबोधकः ॥ ५॥ वेदान्तो वेदगुह्यश्च वेदशास्त्रार्थबोधकः । सर्वविद्यात्मकः शान्तश्चतुष्षष्टिकलागुरुः ॥ ६॥ मन्त्रार्थो मन्त्रमूर्तिश्च मन्त्रतन्त्रप्रवर्तकः । मन्त्री मन्त्रो मन्त्रबीजं महामन्त्रोपदेशकः ॥ ७॥ महोत्साहो महाशक्तिर्महाशक्तिधरः प्रभुः । जगत्स्रष्टा जगद्भर्ता जगन्मूर्तिर्जगन्मयः ॥ ८॥ जगदादिरनादिश्च जगद्बीजं जगद्गुरूः । ज्योतिर्मयः प्रशान्तात्मा सच्चिदानन्दविग्रहः ॥ ९॥ सुखमूर्तिः सुखकरः सुखी सुखकराकृतिः । ज्ञाता ज्ञेयो ज्ञानरूपो ज्ञप्तिर्ज्ञानबलं बुधः ॥ १०॥ विष्णुर्जिष्णुर्ग्रसिष्णुश्च प्रभविष्णुः सहिष्णुकः । वर्धिष्णुर्भूष्णुरजरस्तितिक्ष्णुः क्षान्तिरार्जवम् ॥ ११॥ ऋजुः सुगम्यःसुलभो दुर्लभो लाभ ईप्सितः । विज्ञो विज्ञानभोक्ता च शिवज्ञानप्रदायकः ॥ १२॥ महदादिरहङ्कारो भूतादिर्भूतभावनः । भूतभव्य भविष्यच्च भूत भव्यभवत्प्रभुः ॥ १३॥ देवसेनापतिर्नेता कुमारो देवनायकः । तारकारिर्महावीर्यः सिंहवक्त्रशिरोहरः ॥ १४॥ अनेककोटिब्रह्माण्ड परिपूर्णासुरान्तकः । सुरानन्दकरः श्रीमानसुरादिभयङ्करः ॥ १५॥ असुरान्तः पुराक्रन्दकरभेरीनिनादनः । सुरवन्द्यो जनानन्दकरशिञ्जन्मणिध्वनिः ॥ १६॥ स्फुटाट्टहाससङ्क्षुभ्यत्तारकासुरमानसः । महाक्रोधो महोत्साहो महाबलपराक्रमः ॥ १७॥ महाबुद्धिर्महाबाहुर्महामायो महाधृतिः । रणभीमः शत्रुहरो धीरोदात्तगुणोत्तरः ॥ १८॥ महाधनुर्महाबाणो महादेवप्रियात्मजः । महाखड्गो महाखेटो महासत्वो महाद्युतिः ॥ १९॥ महर्धिश्च महामायी मयूरवरवाहनः । मयूरबर्हातपत्रो मयूरनटनप्रियः ॥ २०॥ महानुभावोऽमेयात्माऽमेयश्रीश्च महाप्रभुः । सुगुणो दुर्गुणद्वेषी निर्गुणो निर्मलोऽमलः ॥ २१॥ सुबलो विमलः कान्तः कमलासन पूजितः । कालः कमलपत्राक्षः कलिकल्मषनाशनः ॥ २२॥ महारणो महायोद्धा महायुद्धप्रियोऽभयः । महारथो महाभागो भक्ताभीष्टफलप्रदः ॥ २३॥ भक्तप्रियः प्रियः प्रेम प्रेयान् प्रीतिधरः सखा । गौरीकरसरोजाग्र लालनीय मुखाम्बुजः ॥ २४॥ कृत्तिकास्तन्यपानैकव्यग्रषड्वदनाम्बुजः । चन्द्रचूडाङ्गभूभाग विहारणविशारदः ॥ २५॥ ईशाननयनानन्दकन्दलावण्यनासिकः । चन्द्रचूडकराम्भोज परिमृष्टभुजावलिः ॥ २६॥ लम्बोदर सहक्रीडा लम्पटः शरसम्भवः । अमरानननालीक चकोरीपूर्ण चन्द्रमाः ॥ २७॥ सर्वाङ्ग सुन्दरः श्रीशः श्रीकरः श्रीप्रदः शिवः । वल्लीसखो वनचरो वक्ता वाचस्पतिर्वरः ॥ २८॥ चन्द्रचूडो बर्हिपिञ्छ शेखरो मकुटोज्ज्वलः । गुडाकेशः सुवृत्तोरुशिरा मन्दारशेखरः ॥ २९॥ बिम्बाधरः कुन्ददन्तो जपाशोणाग्रलोचनः । षड्दर्शनीनटीरङ्गरसनो मधुरस्वनः ॥ ३०॥ मेघगम्भीरनिर्घोषः प्रियवाक् प्रस्फुटाक्षरः । स्मितवक्त्रश्चोत्पलाक्षश्चारुगम्भीरवीक्षणः ॥ ३१॥ कर्णान्तदीर्घनयनः कर्णभूषण भूषितः । सुकुण्डलश्चारुगण्डः कम्बुग्रीवो महाहनुः ॥ ३२॥ पीनांसो गूढजत्रुश्च पीनवृत्तभुजावलिः । रक्ताङ्गो रत्नकेयूरो रत्नकङ्कणभूषितः॥ ३३॥ ज्याकिणाङ्क लसद्वामप्रकोष्ठवलयोज्ज्वलः । रेखाङ्कुशध्वजच्छत्रपाणिपद्मो महायुधः ॥ ३४॥ सुरलोक भयध्वान्त बालारुणकरोदयः । अङ्गुलीयकरत्नांशु द्विगुणोद्यन्नखाङ्कुरः ॥ ३५॥ पीनवक्षा महाहारो नवरत्नविभूषणः । हिरण्यगर्भो हेमाङ्गो हिरण्यकवचो हरः ॥ ३६॥ हिरण्मय शिरस्त्राणो हिरण्याक्षो हिरण्यदः । हिरण्यनाभिस्त्रिवली ललितोदरसुन्दरः ॥ ३७॥ सुवर्णसूत्रविलसद्विशङ्कटकटीतटः । पीताम्बरधरो रत्नमेखलावृत मध्यकः ॥ ३८॥ पीवरालोमवृत्तोद्यत्सुजानुर्गुप्तगुल्फकः । शङ्खचक्राब्जकुलिशध्वजरेखाङ्घ्रिपङ्कजः ॥ ३९॥ नवरत्नोज्ज्वलत्पादकटकः परमायुधः । सुरेन्द्रमकुटप्रोद्यन्मणि रञ्जितपादुकः ॥ ४०॥ पूज्याङ्घ्रिश्चारुनखरो देवसेव्यस्वपादुकः । पार्वतीपाणि कमलपरिमृष्टपदाम्बुजः ॥ ४१॥ मत्तमातङ्ग गमनो मान्यो मान्यगुणाकरः । क्रौञ्च दारणदक्षौजाः क्षणः क्षणविभागकृत् ॥ ४२॥ सुगमो दुर्गमो दुर्गो दुरारोहोऽरिदुः सहः । सुभगः सुमुखः सूर्यः सूर्यमण्डलमध्यगः ॥ ४३॥ स्वकिङ्करोपसंसृष्टसृष्टिसंरक्षिताखिलः । जगत्स्रष्टा जगद्भर्ता जगत्संहारकारकः ॥ ४४॥ स्थावरो जङ्गमो जेता विजयो विजयप्रदः । जयशीलो जितारातिर्जितमायो जितासुरः ॥ ४५॥ जितकामो जितक्रोधो जितमोहस्सुमोहनः । कामदः कामभृत्कामी कामरूपः कृतागमः ॥ ४६॥ कान्तः कल्यः कलिध्वंसी कल्हारकुसुमप्रियः । रामो रमयिता रम्यो रमणीजनवल्लभः ॥ ४७॥ रसज्ञो रसमूर्तिश्च रसो नवरसात्मकः । रसात्मा रसिकात्मा च रासक्रीडापरो रतिः ॥ ४८॥ सूर्यकोटिप्रतीकाशः सोमसूर्याग्निलोचनः । कलाभिज्ञः कलारूपी कलापी सकलप्रभुः ॥ ४९॥ बिन्दुर्नादः कलामूर्तिः कलातीतोऽक्षरात्मकः । मात्राकारः स्वराकारः एकमात्रो द्विमात्रकः ॥ ५०॥ त्रिमात्रकश्चतुर्मात्रो व्यक्तः सन्ध्यक्षरात्मकः । व्यञ्जनात्मा वियुक्तात्मा संयुक्तात्मा स्वरात्मकः ॥ ५१॥ विसर्जनीयोऽनुस्वारः सर्ववर्णतनुर्महान् । अकारात्माऽप्युकारात्मा मकारात्मा त्रिवर्णकः ॥ ५२॥ ओङ्कारोऽथ वषट्कारः स्वाहाकारः स्वधाकृतिः । आहुतिर्हवनं हव्यं होताऽध्वर्युर्महाहविः ॥ ५३॥ ब्रह्मोद्गाता सदस्यश्च बर्हिरिध्मं समिच्चरुः । कव्यं पशुः पुरोडाशः आमिक्षा वाजवाजिनम् ॥ ५४॥ पवनः पावनः पूतः पवमानः पराकृतिः । पवित्रं परिधिः पूर्णपात्रमुद्भूतिरिन्धनम् ॥ ५५॥ विशोधनं पशुपतिः पशुपाशविमोचकः । पाकयज्ञो महायज्ञो यज्ञो यज्ञपतिर्यजुः ॥ ५६॥ यज्ञाङ्गो यज्ञगम्यश्च यज्वा यज्ञफलप्रदः । यज्ञाङ्गभूर्यज्ञपतिर्यज्ञश्रीर्यज्ञवाहनः ॥ ५७॥ यज्ञराड् यज्ञविध्वंसी यज्ञेशो यज्ञरक्षकः । सहस्रबाहुः सर्वात्मा सहस्राक्षः सहस्रपात् ॥ ५८॥ सहस्रवदनो नित्यः सहस्रात्मा विराट् स्वराट् । सहस्रशीर्षो विश्वश्च तैजसः प्राज्ञ आत्मवान् ॥ ५९॥ अणुर्बृहत्कृशः स्थूलो दीर्घो ह्रस्वश्च वामनः । सूक्ष्मः सूक्ष्मतरोऽनन्तो विश्वरूपो निरञ्जनः ॥ ६०॥ अमृतेशोऽमृताहारोऽमृतदाताऽमृताङ्गवान् । अहोरूपस्त्रियामा च सन्ध्यारूपो दिनात्मकः ॥ ६१॥ अनिमेषो निमेषात्मा कला काष्ठा क्षणात्मकः । मुहूर्तो घटिकारूपो यामो यामात्मकस्तथा ॥ ६२॥ पूर्वाह्णरूपो मध्याह्नरूपः सायाह्नरूपकः । अपराह्णोऽतिनिपुणः सवनात्मा प्रजागरः ॥ ६३॥ वेद्यो वेदयिता वेदो वेददृष्टो विदां वरः । विनयो नयनेता च विद्वज्जनबहुप्रियः ॥ ६४॥ विश्वगोप्ता विश्वभोक्ता विश्वकृद्विश्वभेषजम् । विश्वम्भरो विश्वपतिर्विश्वराड्विश्वमोहनः ॥ ६५॥ विश्वसाक्षी विश्वहन्ता वीरो विश्वम्भराधिपः । वीरबाहुर्वीरहन्ता वीराग्र्यो वीरसैनिकः ॥ ६६॥ वीरवादप्रियः शूर एकवीरः सुराधिपः । शूरपद्मासुरद्वेषी तारकासुरभञ्जनः ॥ ६७॥ ताराधिपस्तारहारः शूरहन्ताऽश्ववाहनः । शरभः शरसम्भूतः शक्तः शरवणेशयः ॥ ६८॥ शाङ्करिः शाम्भवः शम्भुः साधुः साधुजनप्रियः । साराङ्गः सारकः सर्वः शार्वः शार्वजनप्रियः ॥ ६९॥ गङ्गासुतोऽतिगम्भीरो गम्भीरहृदयोऽनघः । अमोघविक्रमश्चक्रश्चक्रभूः शक्रपूजितः ॥ ७०॥ चक्रपाणिश्चक्रपतिश्चक्रवालान्तभूपतिः । सार्वभौमस्सुरपतिः सर्वलोकाधिरक्षकः ॥ ७१॥ साधुपः सत्यसङ्कल्पः सत्यस्सत्यवतां वरः । सत्यप्रियः सत्यगतिः सत्यलोकजनप्रियः ॥ ७२॥ भूतभव्य भवद्रूपो भूतभव्यभवत्प्रभुः । भूतादिर्भूतमध्यस्थो भूतविध्वंसकारकः ॥ ७३॥ भूतप्रतिष्ठासङ्कर्ता भूताधिष्ठानमव्ययः । ओजोनिधिर्गुणनिधिस्तेजोराशिरकल्मषः ॥ ७४॥ कल्मषघ्नः कलिध्वंसी कलौ वरदविग्रहः । कल्याणमूर्तिः कामात्मा कामक्रोधविवर्जितः ॥ ७५॥ गोप्ता गोपायिता गुप्तिर्गुणातीतो गुणाश्रयः । सत्वमूर्ती रजोमूर्तिस्तमोमूर्तिश्चिदात्मकः ॥ ७६॥ देवसेनापतिर्भूमा महिमा महिमाकरः । प्रकाशरूपः पापघ्नः पवनः पावनोऽनलः ॥ ७७॥ कैलासनिलयः कान्तः कनकाचल कार्मुकः । निर्धूतो देवभूतिश्च व्याकृतिः क्रतुरक्षकः ॥ ७८॥ उपेन्द्र इन्द्रवन्द्याङ्घ्रिरुरुजङ्घ उरुक्रमः । विक्रान्तो विजयक्रान्तो विवेकविनयप्रदः ॥ ७९॥ अविनीतजनध्वंसी सर्वावगुणवर्जितः । कुलशैलैकनिलयो वल्लीवाञ्छितविभ्रमः ॥ ८०॥ शाम्भवः शम्भुतनयः शङ्कराङ्गविभूषणः । स्वयम्भूः स्ववशः स्वस्थः पुष्कराक्षः पुरूद्भवः ॥ ८१॥ मनुर्मानवगोप्ता च स्थविष्ठः स्थविरो युवा । बालः शिशुर्नित्ययुवा नित्यकौमारवान् महान् ॥ ८२॥ अग्राह्यरूपो ग्राह्यश्च सुग्रहः सुन्दराकृतिः । प्रमर्दनः प्रभूतश्रीर्लोहिताक्षोऽरिमर्दनः ॥ ८३॥ त्रिधामा त्रिककुत्त्रिश्रीः त्रिलोकनिलयोऽलयः । शर्मदः शर्मवान् शर्म शरण्यः शरणालयः ॥ ८४॥ स्थाणुः स्थिरतरः स्थेयान् स्थिरश्रीः स्थिरविक्रमः । स्थिरप्रतिज्ञः स्थिरधीर्विश्वरेताः प्रजाभवः ॥ ८५॥ अत्ययः प्रत्ययः श्रेष्ठः सर्वयोगविनिःसृतः । सर्वयोगेश्वरः सिद्धः सर्वज्ञः सर्वदर्शनः ॥ ८६॥ वसुर्वसुमना देवो वसुरेता वसुप्रदः । समात्मा समदर्शी च समदः सर्वदर्शनः ॥ ८७॥ वृषाकृतिर्वृषारूढो वृषकर्मा वृषप्रियः । शुचिः शुचिमनाः शुद्धः शुद्धकीर्तिः शुचिश्रवाः ॥ ८८॥ रौद्रकर्मा महारौद्रो रुद्रात्मा रुद्रसम्भवः । अनेकमूर्तिर्विश्वात्माऽनेकबाहुररिन्दमः ॥ ८९॥ वीरबाहुर्विश्वसेनो विनेयो विनयप्रदः । vinayo?? सर्वगः सर्ववित्सर्वः सर्ववेदान्तगोचरः ॥ ९०॥ कविः पुराणोऽनुशास्ता स्थूलस्थूल अणोरणुः । भ्राजिष्णुर्विष्णु विनुतः कृष्णकेशः किशोरकः ॥ ९१॥ भोजनं भाजनं भोक्ता विश्वभोक्ता विशां पतिः । विश्वयोनिर्विशालाक्षो विरागो वीरसेवितः ॥ ९२॥ पुण्यः पुरुयशाः पूज्यः पूतकीर्तिः पुनर्वसुः । सुरेन्द्रः सर्वलोकेन्द्रो महेन्द्रोपेन्द्रवन्दितः ॥ ९३॥ विश्ववेद्यो विश्वपतिर्विश्वभृद्विश्वभेषजम् । मधुर्मधुरसङ्गीतो माधवः शुचिरूष्मलः ॥ ९४॥ शुक्रः शुभ्रगुणः शुक्लः शोकहन्ता शुचिस्मितः । महेष्वासो विष्णुपतिः महीहन्ता महीपतिः ॥ ९५॥ मरीचिर्मदनो मानी मातङ्गगतिरद्भुतः । हंसः सुपूर्णः सुमनाः भुजङ्गेशभुजावलिः ॥ ९६॥ पद्मनाभः पशुपतिः पारज्ञो वेदपारगः । पण्डितः परघाती च सन्धाता सन्धिमान् समः ॥ ९७॥ दुर्मर्षणो दुष्टशास्ता दुर्धर्षो युद्धधर्षणः । विख्यातात्मा विधेयात्मा विश्वप्रख्यातविक्रमः ॥ ९८॥ सन्मार्गदेशिको मार्गरक्षको मार्गदायकः । अनिरुद्धोऽनिरुद्धश्रीरादित्यो दैत्यमर्दनः ॥ ९९॥ अनिमेषोऽनिमेषार्च्यस्त्रिजगद्ग्रामणीर्गुणी । सम्पृक्तः सम्प्रवृत्तात्मा निवृत्तात्माऽऽत्मवित्तमः ॥ १००॥ अर्चिष्मानर्चनप्रीतः पाशभृत्पावको मरुत् । सोमः सौम्यः सोमसुतः सोमसुत्सोमभूषणः ॥ १०१॥ सर्वसामप्रियः सर्वसमः सर्वंसहो वसुः । उमासूनुरुमाभक्त उत्फुल्लमुखपङ्कजः ॥ १०२॥ अमृत्युरमरारातिमृत्युर्मृत्युञ्जयोऽजितः । मन्दारकुसुमापीडो मदनान्तकवल्लभः ॥ १०३॥ माल्यवन्मदनाकारो मालतीकुसुमप्रियः । सुप्रसादः सुराराध्यः सुमुखः सुमहायशाः ॥ १०४॥ वृषपर्वा विरूपाक्षो विष्वक्सेनो वृषोदरः । मुक्तो मुक्तगतिर्मोक्षो मुकुन्दो मुद्गली मुनिः ॥ १०५॥ श्रुतवान् सुश्रुतः श्रोता श्रुतिगम्यः श्रुतिस्तुतः । वर्धमानो वनरतिर्वानप्रस्थनिषेवितः ॥ १०६॥ वाग्मी वरो वावदूको वसुदेववरप्रदः । महेश्वरो मयूरस्थः शक्तिहस्तस्त्रिशूलधृत् ॥ १०७॥ ओजस्तेजश्च तेजस्वी प्रतापः सुप्रतापवान् । ऋद्धिः समृद्धिः संसिद्धिः सुसिद्धिः सिद्धसेवितः ॥ १०८॥ अमृताशोऽमृतवपुरमृतोऽमृतदायकः । चन्द्रमाश्चन्द्रवदनश्चन्द्रदृक् चन्द्रशीतलः ॥ १०९॥ मतिमान्नीतिमान्नीतिः कीर्तिमान्कीर्तिवर्धनः । औषधं चौषधीनाथः प्रदीपो भवमोचनः ॥ ११०॥ भास्करो भास्करतनुर्भानुर्भयविनाशनः । चतुर्युगव्यवस्थाता युगधर्मप्रवर्तकः ॥ १११॥ अयुजो मिथुनं योगो योगज्ञो योगपारगः । महाशनो महाभूतो महापुरुषविक्रमः ॥ ११२॥ युगान्तकृद्युगावर्तो दृश्यादृश्यस्वरूपकः । सहस्रजिन्महामूर्तिः सहस्रायुधपण्डितः ॥ ११३॥ अनन्तासुरसंहर्ता सुप्रतिष्ठः सुखाकरः । अक्रोधनः क्रोधहन्ता शत्रुक्रोधविमर्दनः ॥ ११४॥ विश्वमुर्तिर्विश्वबाहुर्विश्वदृग्विश्वतो मुखः । विश्वेशो विश्वसंसेव्यो द्यावाभूमिविवर्धनः ॥ ११५॥ अपान्निधिरकर्ताऽन्नमन्नदाताऽन्नदारुणः । अम्भोजमौलिरुज्जीवः प्राणः प्राणप्रदायकः ॥ ११६॥ स्कन्दः स्कन्दधरो धुर्यो धार्यो धृतिरनातुरः । आतुरौषधिरव्यग्रो वैद्यनाथोऽगदङ्करः ॥ ११७॥ देवदेवो बृहद्भानुः स्वर्भानुः पद्मवल्लभः । अकुलः कुलनेता च कुलस्रष्टा कुलेश्वरः ।११८॥ निधिर्निधिप्रियः शङ्खपद्मादिनिधिसेवितः । शतानन्दः शतावर्तः शतमूर्तिः शतायुधः ॥ ११९॥ पद्मासनः पद्मनेत्रः पद्माङ्घ्रिः पद्मपाणिकः । ईशः कारणकार्यात्मा सूक्ष्मात्मा स्थूलमूर्तिमान् ॥ १२०॥ अशरीरी त्रिशरीरी शरीरत्रयनायकः । जाग्रत्प्रपञ्चाधिपतिः स्वप्नलोकाभिमानवान् ॥ १२१॥ सुषुप्त्यवस्थाभिमानी सर्वसाक्षी तुरीयगः । स्वापनः स्ववशो व्यापी विश्वमूर्तिर्विरोचनः ॥ १२२॥ वीरसेनो वीरवेषो वीरायुधसमावृतः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् शुभलक्षणः ॥ १२३॥ समयज्ञः सुसमय समाधिजनवल्लभः । अतुलोऽतुल्यमहिमा शरभोपमविक्रमः ॥ १२४॥ अहेतुर्हेतुमान्हेतुः हेतुहेतुमदाश्रयः । विक्षरो रोहितो रक्तो विरक्तो विजनप्रियः ॥ १२५॥ महीधरो मातरिश्वा माङ्गल्यमकरालयः । मध्यमान्तादिरक्षोभ्यो रक्षोविक्षोभकारकः ॥ १२६॥ गुहो गुहाशयो गोप्ता गुह्यो गुणमहार्णवः । निरुद्योगो महोद्योगी निर्निरोधो निरङ्कुशः॥ १२७॥ महावेगो महाप्राणो महेश्वरमनोहरः । अमृताशोऽमिताहारो मितभाष्यमितार्थवाक् ॥ १२८॥ अक्षोभ्यः क्षोभकृत्क्षेमः क्षेमवान् क्षेमवर्धनः । ऋद्ध ऋद्धिप्रदो मत्तो मत्तकेकिनिषूदनः ॥ १२९॥ धर्मो धर्मविदां श्रेष्ठो वैकुण्ठो वासवप्रियः । परधीरोऽपराक्रान्त परितुष्टः परासुहृत् ॥ १३०॥ रामो रामनुतो रम्यो रमापतिनुतो हितः । विरामो विनतो विद्वान् वीरभद्रो विधिप्रियः ॥ १३१॥ विनयो विनयप्रीतो विमतोरुमदापहः । सर्वशक्तिमतां श्रेष्ठः सर्वदैत्यभयङ्करः ॥ १३२॥ शत्रुघ्नःशत्रुविनतः शत्रुसङ्घप्रधर्षकः । सुदर्शन ऋतुपतिर्वसन्तो माधवो मधुः ॥ १३३॥ वसन्तकेलिनिरतो वनकेलिविशारदः । पुष्पधूलीपरिवृतो नवपल्लवशेखरः ॥ १३४॥ जलकेलिपरो जन्यो जह्नुकन्योपलालितः । गाङ्गेयो गीतकुशलो गङ्गापूरविहारवान् ॥ १३५॥ गङ्गाधरो गणपतिर्गणनाथसमावृतः । विश्रामो विश्रमयुतो विश्वभुग्विश्वदक्षिणः ॥ १३६॥ विस्तारो विग्रहो व्यासो विश्वरक्षण तत्परः । विनतानन्द कारी च पार्वतीप्राणनन्दनः ॥ विशाखः षण्मुखः कार्तिकेयः कामप्रदायकः ॥ १३७॥ इति श्रीसुब्रह्मण्यसहस्रनामस्तोत्रं सम्पूर्णम् । । ॐ शरवणभव ॐ । The sahasranAmastotram is practised in Swamimalai. It is said that the benefits that one would get by visiting Lord SwaminathA in Swamimalai could be attained by reciting the Sahasranama by Markandeya since the name itself is called as Swamimalai Sahasranama. From shrIsubrahamNyastutima~njarI published by Shri MahaperiyavAl Trust. We are thankful for the quality religious publications by the trust and providing for everyone's use. Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar, NA
% Text title            : subrahmaNyasahasranAmastotram
% File name             : subrahmaNyasahasranAmastotra.itx
% itxtitle              : subrahmaNyasahasranAmastotram (mArkaNDeyaproktam)
% engtitle              : Shri Subrahmanya Sahasranamastotram
% Category              : sahasranAma, subrahmanya, stotra
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion  Mahaperiyavaal Trust.  We are thankful for the quality religious publications by the trust   and providing for everyone''s use.
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Description-comments  : From shrIsubrahamNyastutimanjarI published by Shri
% Latest update         : August 24, 2014
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org