शास्तृ पञ्चाक्षरस्तोत्रम्
ॐ - ओङ्कारमूर्तिमार्तिघ्नं देवं हरिहरात्मजम् ।
शबरीपीठनिलयं शास्तारं प्रणतोऽस्म्यहम् ॥ १॥
न - नक्षत्रनाथवदनं नाथं त्रिभुवनावनम् ।
नमिताशेषभुवनं शास्तारं प्रणतोऽस्म्यहम् ॥ २॥
म - मन्मथायुतसौन्दर्यं महाभूतनिषेवितम् ।
मृगयारसिकं शूरं शास्तारं प्रणतोऽस्म्यहम् ॥ ३॥
शि - शिवप्रदायिनं भक्तदैवतं पाण्ड्यबालकम् ।
शार्दूलदुग्धहर्तारं शास्तारं प्रणतोऽस्म्यहम् ॥ ४॥
वा - वारणेन्द्रसमारूढं विश्वत्राणपरायणम् ।
वेत्रोद्भासिकराम्भोजं शास्तारं प्रणतोऽस्म्यहम् ॥ ५॥
य - यक्षिण्यभिमतं पूर्णापुष्कलापरिसेवितम् ।
क्षिप्रप्रसादकं नित्यं शास्तारं प्रणतोऽस्म्यहम् ॥ ६॥
इति श्रीशास्तृ पञ्चाक्षरस्तोत्रं सम्पूर्णम् ॥
Encoded Antaratma antaratma at Safe-mail.net
Proofread by Antaratma, PSA Easwaran