श्रीनटेशसहस्रनामस्तोत्रम्
पूर्वपीठिका
यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् ।
इदं नमो नटेशाय तस्मै कारुण्यमूर्तये ॥
ॐ कैलासशिखरे रम्ये रत्नसिंहासने स्थितम् ।
शङ्करं करुणामूर्तिं प्रणम्य परया मुदा ॥ १॥
विनयावनता भूत्वा पप्रच्छ परमेश्वरी ।
भगवन् भव सर्वज्ञ भवतापहराव्यय ॥ २॥
त्वत्तः श्रुतं मया देव सर्वं नामसहस्रकम् ।
नटेशस्य तु नामानि न श्रुतानि मया प्रभो ॥ ३॥
असंकृत्प्रार्थितोऽपि त्वं न तत्कथितवानसि ।
इदानीं कृपया शम्भो वद वाञ्छाभिपूर्तये ॥ ४॥
श्री शिव उवाच
साधु साधु महादेवि पृष्टं सर्वजगद्धितम् ।
पुरा नारायणः श्रीमान् लोकरक्षापरायणः ॥ ५॥
क्षीराब्धौ सुचिरं कालं साम्बमूर्तिधरं शिवम् ।
मामेकाग्रेण चित्तेन ध्यायन् न्यवसदच्युतः ॥ ६॥
तपसा तस्य सन्तुष्टः प्रसन्नोऽहं कृपावशात् ।
ध्यानात्समुत्थितो विष्णुर्लक्ष्म्या मां पर्यपूजयत् ॥ ७॥
तुष्टाव विविधैस्स्तोत्रैर्वेदवेदान्तसम्मितैः ।
वरं वरय हे वत्स यदिष्टं मनसि स्थितम् ॥ ८॥
तत्ते दास्यामि न चिरादित्युक्तः कमलेक्षणः ।
प्राह मां परया भक्त्या वरं दास्यसि चेत्प्रभो ॥ ९॥
रक्षार्थं सर्वजगतामसुराणां क्षयाय च ।
सार्वात्म्ययोगसिद्ध्यर्थं मन्त्रमेकं ममादिश ॥ १०॥
इति सम्प्रार्थितस्तेन माधवेनाहमम्बिके ।
सञ्चिन्त्यानुत्तमं स्तोत्रं सर्वेषां सर्वसिद्धिदम् ॥ ११॥
नटेशनामसाहस्रमुक्तवानस्मि विष्णवे ।
तेन जित्वाऽसुरान् सर्वान् ररक्ष सकलं जगत् ॥ १२॥
सार्वात्म्ययोगसिद्धिं च प्राप्तवानम्बुजेक्षणः ।
तदेव प्रार्थयस्यद्य नामसाहस्रमम्बिके ॥ १३॥
पठनान्मननात्तस्य नृत्तं दर्शयति प्रभुः ।
सर्वपापहरं पुण्यं सर्वरक्षाकरं नृणाम् ॥ १४॥
सर्वैश्वर्यप्रदं सर्वसिद्धिदं मुक्तिदं परम् ।
वक्ष्यामि शृणु हे देवि नामसाहस्रमुत्तमम् ॥ १५॥
अथ श्रीनटेशसहस्रनामस्तोत्रम् ।
ॐ अस्य श्रीनटेशसहस्रनामस्तोत्रमालामहामन्त्रस्य
सदाशिव ऋषिः, महाविराट् छन्दः श्रीमन्नटेशो देवता ।
बीजं, शक्तिः, कीलकं, अङ्गन्यासकरन्यासौ च चिन्तामणिमन्त्रवत् ।
ध्यानम्
ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं
दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् ।
वह्निं डोलकराभयं डमरुकं वामे शिवां (स्थितां) श्यामलां
कल्हारं जपसृक्षुकं (दधतीं प्रलम्बितकरा) कटिकरां
देवीं सभेशं भजे ॥
लं पृथिव्यात्मकम् इत्यादिना पञ्चपूजा ।
श्रीशिव उवाच
श्रीशिवः श्रीशिवानाथः श्रीमान् श्रीपतिपूजितः ।
शिवङ्करः शिवतरश्शिष्टहृष्टश्शिवागमः ॥ १॥
अखण्डानन्दचिद्रूपः परमानन्दताण्डवः ।
अपस्मृतिन्यस्तपादः कृत्तिवासाः कृपाकरः ॥ २॥
कालीवादप्रियः कालः कालातीतः कलाधरः ।
कालनेता कालहन्ता कालचक्रप्रवर्तकः ॥ ३॥
कालज्ञः कामदः कान्तः कामारिः कामपालकः ।
कल्याणमूर्तिः कल्याणीरमणः कमलेक्षणः ॥ ४॥
कालकण्ठः कालकालः कालकूटविषाशनः ।
कृतज्ञः कृतिसारज्ञः कृशानुः कृष्णपिङ्गलः ॥ ५॥
करिचर्माम्बरधरः कपाली कलुषापहः ।
कपालमालाभरणः कङ्कालः कलिनाशनः ॥ ६॥
कैलासवासी कामेशः कविः कपटवर्जितः ।
कमनीयः कलानाथशेखरः कम्बुकन्धरः ॥ ७॥
कन्दर्पकोटिसदृशः कपर्दी कमलाननः ।
कराब्जधृतकालाग्निः कदम्बकुसुमारुणः ॥ ८॥
कमनीयनिजानन्दमुद्राञ्चितकराम्बुजः ।
स्फुरड्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनः ॥ ९॥
उद्दण्डताण्डवश्चण्ड ऊर्ध्वताण्डवपण्डितः ।
सव्यताण्डवसम्पन्नो महाताण्डववैभवः ॥ १०॥
ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवः ।
महोग्रताण्डवाभिज्ञः परिभ्रमणताण्डवः ॥ ११॥
नन्दिनाट्यप्रियो नन्दी नटेशो नटवेषभृत् ।
कालिकानाट्यरसिको निशानटननिश्चलः ॥ १२॥
भृङ्गिनाट्यप्रमाणज्ञो भ्रमरायितनाट्यकृत् ।
वियदादिजगत्स्रष्टा विविधानन्ददायकः ॥ १३॥
विकाररहितो विष्णुर्विराडीशो विराण्मयः ।
विराढृदयपद्मस्थो विधिर्विश्वाधिको विभुः ॥ १४॥
वीरभद्रो विशालाक्षो विष्णुबाणो विशाम्पतिः ।
विद्यानिधिर्विरूपाक्षो विश्वयोनिर्वृषध्वजः ॥ १५॥
विरूपो विश्वदिग्व्यापी वीतशोको विरोचनः ।
व्योमकेशो व्योममूर्तिर्व्योमाकारोऽव्ययाकृतिः ॥ १६॥
व्याघ्रपादप्रियो व्याघ्रचर्मधृद्व्याधिनाशनः ।
व्याकृतो व्यापृतो व्यापी व्याप्यसाक्षी विशारदः ॥ १७॥
व्यामोहनाशनो व्यासो व्याख्यामुद्रालसत्करः ।
वरदो वामनो वन्द्यो वरिष्ठो वज्रवर्मभृत् ॥ १८॥
वेदवेद्यो वेदरूपो वेदवेदान्तवित्तमः ।
वेदार्थविद्वेदयोनिः वेदाङ्गो वेदसंस्तुतः ॥ १९॥
वैकुण्ठवल्लभोऽवर्ष्यो वैश्वानरविलोचनः ।
समस्तभुवनव्यापी समृद्धस्सततोदितः ॥ २०॥
सूक्ष्मात्सूक्ष्मतरः सूर्यः सूक्ष्मस्थूलत्ववर्जितः ।
जह्नुकन्याधरो जन्मजरामृत्युनिवारकः ॥ २१॥
शूरसेनः शुभाकारः शुभ्रमूर्तिः शुचिस्मितः ।
अनर्घरत्नखचितकिरीटो निकटे स्थितः ॥ २२॥
सुधारूपः सुराध्यक्षः सुभ्रूः सुखघनः सुधीः ।
भद्रो भद्रप्रदो भद्रवाहनो भक्तवत्सलः ॥ २३॥
भगनेत्रहरो भर्गो भवघ्नो भक्तिमन्निधिः ।
अरुणः शरणः शर्वः शरण्यः शर्मदः शिवः ॥ २४॥
पवित्रः परमोदारः परमापन्निवारकः ।
सनातनस्समः सत्यः सत्यवादी समृद्धिदः ॥ २५॥
धन्वी धनाधिपो धन्यो धर्मगोप्ता धराधिपः ।
तरुणस्तारकस्ताम्रस्तरिष्णुस्तत्त्वबोधकः ॥ २६॥
राजराजेश्वरो रम्यो रात्रिञ्चरविनाशनः ।
गह्वरेष्ठो गणाधीशो गणेशो गतिवर्जितः ॥ २७॥
पतञ्जलिप्राणनाथः परापरविवर्जितः ।
परमात्मा परज्योतिः परमेष्ठी परात्परः ॥ २८॥
नारसिंहो नगाध्यक्षो नादान्तो नादवर्जितः ।
नमदानन्ददो नम्यो नगराजनिकेतनः ॥ २९॥
दैव्यो भिषक्प्रमाणज्ञो ब्रह्मण्यो ब्राह्मणात्मकः ।
कृताकृतः कृशः कृष्णः शान्तिदश्शरभाकृतिः ॥ ३०॥
ब्रह्मविद्याप्रदो ब्रह्मा बृहद्गर्भो बृहस्पतिः ।
सद्यो जातस्सदाराध्यः सामगस्सामसंस्तुतः ॥ ३१॥
अघोरोऽद्भुतचारित्र आनन्दवपुरग्रणीः ।
सर्वविद्यानामीशान ईश्वराणामधीश्वरः ॥ ३२॥
सर्वार्थः सर्वदा तुष्टः सर्वशास्त्रार्थसम्मतः ।
सर्वज्ञः सर्वदः स्थाणुः सर्वेशस्समरप्रियः ॥ ३३॥
जनार्दनो जगत्स्वामी जन्मकर्मनिवारकः ।
मोचको मोहविच्छेत्ता मोदनीयो महाप्रभुः ॥ ३४॥
व्पुप्तकेशो विविशदो विष्वक्सेनो विशोधकः ।
सहस्राक्षः सहस्राङ्घ्रिः सहस्रवदनाम्बुजः ॥ ३५॥
सहस्राक्षार्चितः सम्राट् सन्धाता सम्पदालयः ।
बभ्रुर्बहुविधाकारो बलप्रमथनो बली ॥ ३६॥
मनोभर्ता मनोगम्यो मननैकपरायणः ।
उदासीन उपद्रष्टा मौनगम्यो मुनीश्वरः ॥ ३७॥
अमानी मदनोऽमन्युरमानो मानदो मनुः ।
यशस्वी यजमानात्मा यज्ञभुग्यजनप्रियः ॥ ३८॥
मीढुष्टमो मृगधरो मृकण्डुतनयप्रियः ।
पुरुहूतः पुरद्वेषी पुरत्रयविहारवान् ॥ ३९॥
पुण्यः पुमान्पुरिशयः पूषा पूर्णः पुरातनः ।
शयनश्शन्तमः शान्त शासकश्श्यामलाप्रियः ॥ ४०॥
भावज्ञो बन्धविच्छेत्ता भावातीतोऽभयङ्करः ।
मनीषी मनुजाधीशो मिथ्याप्रत्ययनाशनः ॥ ४१॥
निरञ्जनो नित्यशुद्धो नित्यबुद्धो निराश्रयः ।
निर्विकल्पो निरालम्बो निर्विकारो निरामयः ॥ ४२॥
निरङ्कुशो निराधारो निरपायो निरत्ययः ।
गुहाशयो गुणातीतो गुरुमूर्तिर्गुहप्रियः ॥ ४३॥
प्रमाणं प्रणवः प्राज्ञः प्राणदः प्राणनायकः ।
सूत्रात्मा सुलभस्स्वच्छः सूदरस्सुन्दराननः ॥ ४४॥
कपालमालालङ्कारः कालान्तकवपुर्धरः ।
दुराराध्यो दुराधर्षो दुष्टदूरो दुरासदः ॥ ४५॥
दुर्विज्ञेयो दुराचारनाशनो दुर्मदान्तकः ।
सर्वेश्वरः सर्वसाक्षी सर्वात्मा साक्षिवर्जितः ॥ ४६॥
सर्वद्वन्द्वक्षयकरः सर्वापद्विनिवारकः ।
सर्वप्रियतमस्सर्वदारिद्यक्लेशनाशनः ॥ ४७॥
द्रष्टा दर्शयिता दान्तो दक्षिणामूर्तिरूपभृत् ।
दक्षाध्वरहरो दक्षो दहरस्थो दयानिधिः ॥ ४८॥
समदृष्टिस्सत्यकामः सनकादिमुनिस्तुतः ।
पतिः पञ्चत्वनिर्मुक्तः पञ्चकृत्यपरायणः ॥
पञ्चयज्ञप्रियः पञ्चप्राणाधिपतिरव्ययः ।
पञ्चभूतप्रभुः पञ्चपूजासन्तुष्टमानसः ॥ ५०॥
विघ्नेश्वरो विघ्नहन्ता शक्तिपाणिश्शरोद्भवः ।
गूढो गुह्यतमो गोप्यो गोरक्षी गणसेवितः ॥ ५१॥
सुव्रतस्सत्यसङ्कल्पः स्वसंवेद्यस्सुखावहः ।
योगगम्यो योगनिष्ठो योगानन्दो युधिष्ठिरः ॥ ५२॥
तत्त्वावबोधस्तत्वेशः तत्त्वभावस्तपोनिधिः ।
अक्षरस्त्र्यक्षरस्त्रयक्षः पक्षपातविवर्जितः ॥ ५३॥
माणिभद्रार्चितो मान्यो मायावी मान्त्रिको महान् ।
कुठारभृत्कुलाद्रीशः कुञ्चितैकपदाम्बुजः ॥ ५४॥
यक्षराड्यज्ञफलदो यज्ञमूर्तिर्यशस्करः ।
सिद्धेशस्सिद्धिजनकः सिद्धान्तस्सिद्धवैभवः ॥ ५५॥
रविमण्डलमध्यस्थो रजोगुणविवर्जितः ।
वह्निमण्डलमध्यस्थो वर्षीयान् वरुणेश्वरः ॥ ५६॥
सोममण्डलमध्यस्थः सोमस्सौम्यस्सुहृद्वरः ।
दक्षिणाग्निर्गार्हपत्यो दमनो दमनान्तकः (दानवान्तकः) ॥ ५७॥
चतुर्वक्त्रश्चक्रधरः पञ्चवक्त्रः परं तपः ।
विश्वस्यायतनो वर्यो वन्दारुजनवत्सलः ॥ ५८॥
गायत्रीवल्लभो गार्ग्यो गायकानुग्रहोन्मुखः ।
अनन्तरूप एकात्मा स्वस्तरुर्व्याहृतिस्स्वधा ॥ ५९॥
स्वाहारूपो वसुमनाः वटुकः क्षेत्रपालकः ।
श्राव्यश्शत्रुहरश्शूली श्रुतिस्मृतिविधायकः ॥ ६०॥
अप्रमेयोऽप्रतिरथः प्रद्युम्नः प्रमथेश्वरः ।
अनुत्तमो ह्युदासीनो मुक्तिदो मुदिताननः ॥ ६१॥
ऊर्ध्वरेता ऊर्ध्वपादः प्रौढनर्तनलम्पटः ।
महामायो महायासो महावीर्यो महाभुजः ॥ ६२॥
महानन्दो महास्कन्दो महेन्द्रो महसान्निधिः ।
भ्राजिष्णुर्भावनागम्यः भ्रान्तिज्ञानविनाशनः ॥ ६३॥
महर्धिर्महिमाधारो महासेनगुरुर्महः ।
सर्वदृग्सर्वभूत्सर्गः सर्वहृत्कोशसंस्थितः ॥ ६४॥
दीर्घपिङ्गजटाजूटो दीर्घबाहुर्दिगम्बरः ।
संयद्वामस्सङ्यमीन्द्रः संशयच्छित्सहस्रदृक् ॥ ६५॥
हेतुदृष्टान्तनिर्मुक्तो हेतुर्हेरम्बजन्मभूः ।
हेलाविनिर्मितजगद्धेमश्मश्रुर्हिरण्मयः ॥ ६६॥
सकृद्विभातस्संवेत्ता सदसत्को टिवर्जितः ।
स्वात्मस्थस्स्वायुधः स्वामी स्वानन्यस्स्वांशिताखिलः ॥ ६७॥
रातिर्दातिश्चतुष्पादः स्वात्मरुणहरस्स्वभूः ।
वशी वरेण्यो विततो वज्रभृद्वरुणात्मजः ॥ ६८॥
चैतन्यश्चिच्छिदद्वैतः चिन्मात्रश्चित्सभाधिपः ।
भूमा भूतपतिर्भव्यो भृर्भुवो व्याहृतिप्रियः ॥ ६९॥
वाच्यवाचकनिर्मुक्तो वागीशो वागगोचरः ।
वेदान्तकृत्तुर्यपादो वैद्युतस्सुकृतोद्भवः ॥ ७०॥
अशुभक्षयकृज्ज्योतिः अनाकाशो ह्यलेपकः ।
आप्तकामोऽनुमन्ताऽऽत्म कामोऽभिन्नोऽनणुर्हरः ॥ ७१॥
अस्नेहस्सङ्गनिर्मुक्तोऽह्रस्वोऽदीर्घोऽविशेषकः ।
स्वच्छन्दस्स्वच्छसंवित्तिरन्वेष्टव्योऽश्रुतोऽमृतः ॥ ७२॥
अपरोक्षोऽव्रणोऽलिङ्गोऽविद्वेष्टा प्रेमसागरः ।
ज्ञानलिङ्गो गतिर्ज्ञानी ज्ञानगम्योऽवभासकः ॥ ७३॥
शुद्धस्फटिकसङ्काशः श्रुतिप्रस्तुतवैभवः ।
हिरण्यबाहुस्सेनानी हरिकेशो दिशां पतिः ॥ ७४॥
सस्पिञ्जरः पशुपतिः त्विषीमानध्वनां पतिः ।
बभ्लुशो भगवान्भव्यो विव्याधी विगतज्वरः ॥ ७५॥
अन्नानां पतिरत्युग्रो हरिकेशोऽद्वयाकृतिः ।
पुष्टानां पतिरव्यग्रो भवहेतुर्जगत्पतिः ॥ ७६॥
आततावी महारुद्रः क्षेत्राणामधिपोऽक्षयः ।
सूतस्सदस्पतिस्सूरिरहन्त्यो वनपो वरः ॥ ७७॥
रोहितस्स्थपतिर्वृक्षपतिर्मन्त्री च वाणिजः ।
कक्षपश्च भुवन्तिश्च भवाख्यो वारिवस्कृतः ॥ ७८॥
ओषधीशस्सतामीशः उच्चैर्घोषो विभीषणः ।
पत्तीनामधिपः कृत्स्नवीतो धावन्स सत्वपः ॥ ७९॥
सहमानस्सत्यधर्मा निव्याधी नियमो यमः ।
आव्याधिपतिरादित्यः ककुभः कालकोविदः ॥ ८०॥
निषङ्गीषुधिमानिन्द्रः तस्कराणामधीश्वरः ।
निचेरुकः परिचरोऽरण्यानां पतिरद्भुतः ॥ ८१॥
सृकावी मुष्णातां नाथः पञ्चाशद्वर्णरूपभृत् ।
नक्तञ्चरः प्रकृन्तानां पतिर्गिरिचरो यः ॥ ८२॥
कुलुञ्चानां पतिः कूप्यो धन्वावी धनदाधिपः ।
आतन्वानश्शतानन्दः गृत्सो गृत्सपतिस्सुरः ॥ ८३॥
व्रातो व्रातपतिर्विप्रो वरीयान् क्षुल्लकः क्षमी ।
बिल्मी वरूथी दुन्दुभ्य आहनन्यः प्रमर्शकः ॥ ८४॥
धृष्णुर्दूतस्तीक्ष्णदंष्ट्रः सुधन्वा सुलभस्सुखी ।
स्रुत्यः पथ्यः स्वतन्त्रस्थः काट्यो नीप्यः करोटिभृत् ॥ ८५॥
सूद्यस्सरस्यो वैशन्तो नाद्योऽवट्यः प्रवर्षकः ।
विद्युत्यो विशदो मेध्यो रेष्मियो वास्तुपो वसुः ॥ ८६॥
अग्रेवधोऽग्रे सम्पूज्यो हन्ता तारो मयोभवः ।
मयस्करो महातीर्थ्यः कूल्यः पार्यः पदात्मकः ॥ ८७॥
शङ्गः प्रतरणोऽवार्यः फेन्यः शष्प्यः प्रवाहजः ।
मुनिरातार्य आलाद्य सिकत्यश्चाथ किंशिलः ॥ ८८॥
पुलस्त्यः क्षयणो गृध्यो गोष्ठ्यो गोपरिपालकः ।
शुष्क्यो हरित्यो लोप्यश्च सूर्म्यः पर्ण्योऽणिमादिभूः ॥ ८९॥
पर्णशद्यः प्रत्यगात्मा प्रसन्नः परमोन्नतः ।
शीघ्रियश्शीभ्य आनन्द क्षयद्वीरः क्षराऽक्षरः ॥ ९०॥
पाशी पातकसंहर्ता तीक्ष्णेषुस्तिमिरापहः ।
वराभयप्रदो ब्रह्मपुच्छो ब्रह्मविदां वरः ॥ ९१॥
ब्रह्मविद्यागुरुर्गुह्यो गुह्यकैस्समभिष्टुतः ।
कृतान्तकृत्क्रियाधारः कृती कृपणरक्षकः ॥ ९२॥
नैष्कर्म्यदो नवरसः त्रिस्थस्त्रिपुरभैरवः ।
त्रिमात्रकस्त्रिवृदूपः तृतीयस्त्रिगुणातिगः ॥ ९३॥
त्रिधामा त्रिजगद्धेतुः त्रिकर्ता तिर्यगूर्ध्वगः ।
प्रपञ्चोपशमो नामरूपद्वयविवर्जितः ॥ ९४॥
प्रकृतीशः प्रतिष्ठाता प्रभवः प्रमथः प्रथी ।
सुनिश्चितार्थो राद्धान्तः तत्त्वमर्थस्तपोमयः ।
हितः प्रमाता प्राग्वर्ती सर्वोपनिषदाश्रयः ।
विशृङ्खलो वियद्धेतुः विषमो विद्रुमप्रभः ॥ ९६॥
अखण्डबोधोऽखण्डात्मा घण्टामण्डलमण्डितः ।
अनन्तशक्तिराचार्यः पुष्कलस्सर्वपूरणः ॥ ९७॥
पुरजित्पूर्वजः पुष्पहासः पुण्यफलप्रदः ।
ध्यानगम्यो ध्यातृरूपो ध्येयो धर्मविदां वरः ॥ ९८॥
अवशः स्ववशः स्थाणुरन्तर्यामी शतक्रतुः ।
कूटस्थः कूर्मपीठस्थः कूष्माण्डग्रहमोचकः ॥ ९९॥
कूलङ्कषः कृपासिन्धुः कुशली कुङ्कुमेश्वरः ।
गदाधरो गणस्वामी गरिष्ठस्तोमरायुधः ॥ १००॥
जवनो जगदाधारो जमदग्निर्जराहरः ।
जटाधरोऽमृताधारोऽमृतांशुरमृतोद्भवः ॥ १०१॥
विद्वत्तमो विदूरस्थो विश्रमो वेदनामयः ।
चतुर्भुजश्शततनुः शमिताखिलकौतुकः ॥ १०२॥
वौषट्कारो वषट्कारो हुङ्कारः फट्करः पटुः ।
ब्रह्मिष्ठो ब्रह्मसूत्रार्थो ब्रह्मज्ञो ब्रह्मचेतनः ॥ १०३॥
गायको गरुडारूढो गजासुरविमर्दनः ।
गर्वितो गगनावासो ग्रन्थित्रयविभेदनः ॥ १०४॥
भूतमुक्तावलीतन्तुः भूतपूर्वो भुजङ्गभृत् ।
अतर्क्यस्सुकरः सूरः सत्तामात्रस्सदाशिवः ॥ १०५॥
शक्तिपातकरश्शक्तः शाश्वतश्श्रेयसा निधिः ।
अजीर्णस्सुकुमारोऽन्यः पारदर्शी पुरन्दरः ॥ १०६॥
अनावरणविज्ञानो निर्विभागो विभावसुः ।
विज्ञानमात्रो विरजाः विरामो विबुधाश्रयः ॥ १०७॥
विदग्दमुग्धवेषाढ्यो विश्वातीतो विशोकदः ।
मायानाट्यविनोदज्ञो मायानटनशिक्षकः ॥ १०८॥
मायानाटककृन्मायी मायायन्त्रविमोचकः ।
वृद्धिक्षयविनिर्मुक्तो विद्योतो विश्वञ्चकः ॥ १०९॥
कालात्मा कालिकानाथः कार्कोटकविभूषणः ।
षडूर्मिरहितः स्तव्यः षड्गुणैश्वर्यदायकः ॥ ११०॥
षडाधारगतः साङ्ख्यः षडक्षरसमाश्रयः ।
अनिर्देश्योऽनिलोऽगम्योऽविक्रियोऽमोघवैभवः ॥ १११॥
हेयादेयविनिर्मुक्तो हेलाकलितताण्डवः ।
अपर्यन्तीऽपरिच्छेद्योऽगोचरो रुग्विमोचकः ॥ ११२॥
निरंशो निगमानन्दो निरानन्दो निदानभूः ।
आदिभूतो महाभूतः स्वेच्छाकलितविग्रहः ॥
निस्पन्दः प्रत्यगानन्दो निर्निमेषो निरन्तरः ।
प्रबुद्धः परमोदारः परमानन्दसागरः ॥ ११४॥
संवत्सरः कलापूर्णः सुरासुरनमस्कृतः ।
निर्वाणदो निर्वृतिस्थो निर्वैरो निरुपाधिकः ॥
आभास्वरः परं तत्त्वमादिमः पेशलः पविः ।
संशान्तसर्वसङ्कल्पः संसदीशस्सदोदितः ॥ ११६॥
भावाभावविनिर्मुक्तो भारूपो भावितो भरः ।
सर्वातीतस्सारतरः साम्बस्सारस्वतप्रदः ॥ ११७॥
सर्वकृत्सर्वभृत्सर्वमयस्सत्वावलम्बकः ।
केवलः केशवः केलीकर केवलनायकः ॥ ११८॥
इच्छानिच्छाविरहितो विहारी वीर्यवर्धनः ।
विजिघत्सो विगतभीः विपिपासो विभावनः ॥ ११९॥
विश्रान्तिभूर्विवसनो विघ्नहर्ता विशोधकः ।
वीरप्रियो वीतभयो विन्ध्यदर्पविनाशनः ॥ १२०॥
वेतालनटनप्रीतो वेतण्डत्वक्कृताम्बरः ।
वेलातिलङ्घिकरुणो विलासी विक्रमोन्नतः ॥ १२१॥
वैराग्यशेवधिर्विश्वभोक्ता सर्वोर्ध्वसंस्थितः ।
महाकर्ता महाभोक्ता महासंविन्मयो मधुः ॥ १२२॥
मनोवचोभिरग्राह्यो महाबिलकृतालयः ।
अनहङ्कृतिरच्छेद्यः स्वानन्दैकघनाकृतिः ॥ १२३॥
संवर्ताग्न्युदरस्सर्वान्तरस्थस्सर्वदुर्ग्रहः ।
सम्पन्नस्सङ्क्रमस्सत्री सन्धाता सकलोर्जितः ॥ १२४॥
सम्पन्नस्सन्निकृष्टः संविमृष्टस्समयदृक् ।
संयमस्थः संहृतिस्थः सम्प्रविष्टस्समुत्सुकः ॥ १२५॥
सम्प्रहृष्टस्सन्निविष्टः संस्पृष्टस्सम्प्रमर्दनः ।
सूत्रभूतस्स्वप्रकाशः समशीलस्सदादयः ॥ १२६॥
सत्वसंस्थस्सुषुप्तिस्थः सुतल्पस्सत्स्वरूपगः ।
सङ्कल्पोल्लासनिर्मुक्तः समनीरागचेतनः ॥ १२७॥
आदित्यवर्णस्सञ्ज्योतिः सम्यग्दर्शनतत्परः ।
महातात्पर्यनिलयः प्रत्ग्ब्रह्यैक्यनिश्चयः ॥ १२८॥
प्रपञ्चोल्लासनिर्मुक्तः प्रत्यक्षः प्रतिभात्मकः ।
प्रवेगः प्रमदार्धाङ्गः प्रनर्तनपरायणः ॥ १२९॥
योगयोनिर्यथाभूतो यक्षगन्धर्ववन्दितः ।
जटिलश्चटुलापाङ्गो महानटनलम्पटः ॥ १३०॥
पाटलाशुः पटुतरः पारिजातद्रु मूलगः ।
पापाटवीबृहद्भानुः भानुमत्कोटिकोटिभः ॥ १३१॥
कोटिकन्दर्पसौभाग्यसुन्दरो मधुरस्मितः ।
लास्यामृताब्धिलहरीपूर्णेन्दुः पुण्यगोचरः ॥ १३२॥
रुद्राक्षस्रङ्मयाकल्पः कह्लारकिरणद्युतिः ।
अमूल्यमणिसम्भास्वत्फणीन्द्रकरकङ्कणः ॥ १३३॥
चिच्छक्तिलोचनानन्दकन्दलः कुन्दपाण्डुरः ।
अगम्यमहिमाम्भोधिरनौपम्ययशोनिधिः ॥ १३४॥
चिदानन्दनटाधीशः चित्केवलवपुर्धरः ।
चिदेकरससम्पूर्णः श्रीशिव श्रीमहेश्वरः ॥ १३५॥
॥ इति श्रीनटेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Proforead by DPD
The sahasranAmastotram is to be followed by uttarapIThikA
given separately.