श्रीसीताष्टोत्तरशतनामावलिः
(श्रीमदानन्दरामायणान्तर्गते श्रीसीताष्टोत्तरशतनामस्तोत्रतः उद्धृता)
ॐ सीतायै नमः । ॐ जानकीदेव्यै नमः । ॐ वैदेह्यै नमः । ॐ राघवप्रियायै नमः ।
ॐ रमायै नमः । ॐ अवनिसुतायै नमः । ॐ रामायै नमः ।
ॐ राक्षसान्तप्रकारिण्यै नमः । ॐ रत्नगुप्तायै नमः । ॐ मातुलिङ्ग्यै नमः । १०
ॐ मैथिल्यै नमः । ॐ भक्ततोषदायै नमः । ॐ पद्माक्षजायै नमः ।
ॐ कञ्जनेत्रायै नमः । ॐ स्मितास्यायै नमः । ॐ नूपुरस्वनायै नमः ।
ॐ वैकुण्ठनिलयायै नमः । ॐ माश्रियै नमः । ॐ मुक्तिदायै नमः ।
ॐ कामपूरण्यै नमः । २०
ॐ नृपात्मजायै नमः । ॐ हेमवर्णायै नमः । ॐ मृदुलाङ्ग्यै नमः ।
ॐ सुभाषिण्यै नमः । ॐ कुशाम्बिकायै नमः । ॐ दिव्यदायै नमः ।
ॐ लवमात्रे नमः । ॐ मनोहरायै नमः । ॐ हनुमद्वन्दितपदायै नमः ।
ॐ मुक्तायै नमः । ३०
ॐ केयूरधारिण्यै नमः । ॐ अशोकवनमध्यस्थायै नमः । ॐ रावणादिकमोहिन्यै नमः ।
ॐ विमानसम्स्थितायै नमः । ॐ सुभ्रुवे नमः । ॐ सुकेश्यै नमः ।
ॐ रशनान्वितायै नमः । ॐ रजोरूपायै नमः । ॐ सत्त्वरूपायै नमः ।
ॐ तामस्यै नमः । ४०
ॐ वह्निवासिन्यै नमः । ॐ हेममृगासक्तचित्तायै नमः । ॐ वाल्मीक्याश्रमवासिन्यै नमः ।
ॐ पतिव्रतायै नमः । ॐ महामायायै नमः । ॐ पीतकौशेयवासिन्यै नमः ।
ॐ मृगनेत्रायै नमः । ॐ बिम्बोष्ठ्यै नमः । ॐ धनुर्विद्याविशारदायै नमः ।
ॐ सौम्यरूपायै नमः । ५०
ॐ दशरथस्नुषायै नमः । ॐ चामरवीजितायै नमः । ॐ सुमेधादुहित्रे नमः ।
ॐ दिव्यरूपायै नमः । ॐ त्रैलोक्यपालिन्यै नमः । ॐ अन्नपूर्णायै नमः ।
ॐ महालक्ष्म्यै नमः । ॐ धियै नमः । ॐ लज्जायै नमः । ॐ सरस्वत्यै नमः । ६०
ॐ शान्त्यै नमः । ॐ पुष्ट्यै नमः ।ॐ क्षमायै नमः । ॐ गौर्यै नमः । ॐ प्रभायै नमः ।
ॐ अयोध्यानिवासिन्यै नमः । ॐ वसन्तशीतलायै नमः । ॐ गौर्यै नमः ।
ॐ स्नानसन्तुष्टमानसायै नमः । ॐ रमानामभद्रसंस्थायै नमः । ७०
ॐ हेमकुम्भपयोधरायै नमः । ॐ सुरार्चितायै नमः । ॐ धृत्यै नमः । ॐ कान्त्यै नमः ।
ॐ स्मृत्यै नमः । ॐ मेधायै नमः । ॐ विभावर्यै नमः । ॐ लघूदरायै नमः ।
ॐ वरारोहायै नमः । ॐ हेमकङ्कणमण्डितायै नमः । ८०
ॐ द्विजपत्न्यर्पितनिजभूषायै नमः । ॐ राघवतोषिण्यै नमः । ॐ श्रीरामसेवनरतायै नमः ।
ॐ रत्नताटङ्कधारिण्यै नमः । ॐ रामवामाङ्कसंस्थायै नमः । ॐ रामचन्द्रैकरञ्जिन्यै नमः ।
ॐ सरयूजलसङ्क्रीडाकारिण्यै नमः ।ॐ राममोहिन्यै नमः । ॐ सुवर्णतुलितायै नमः ।
ॐ पुण्यायै नमः । ९०
ॐ पुण्यकीर्त्यै नमः । ॐ कलावत्यै नमः । ॐ कलकण्ठायै नमः ।
ॐ कम्बुकण्ठायै नमः । ॐ रम्भोरवे नमः । ॐ गजगामिन्यै नमः ।
ॐ रामार्पितमनसे नमः । ॐ रामवन्दितायै नमः । ॐ रामवल्लभायै नमः ।
ॐ श्रीरामपदचिह्नाङ्गायै नमः । १००
ॐ रामरामेति भाषिण्यै नमः । ॐ रामपर्यङ्कशयनायै नमः । ॐ रामाङ्घ्रिक्षालिण्यै नमः ।
ॐ वरायै नमः । ॐ कामधेन्वन्नसन्तुष्टायै नमः । ॐ मातुलिङ्गकरधृतायै नमः ।
ॐ दिव्यचन्दनसंस्थायै नमः । ॐ मूलकासुरमर्दिन्यै नमः । १०८
इति श्रीसीताष्टोत्तरशतनामावलिः समाप्ता ॥
Encoded by Antaratma antaratma at Safe-mail.net
Proofread by Antaratma, PSA Easwaran