नवरत्नमालिका

नवरत्नमालिका

नामरत्ननवरत्नमालिका हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् । कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥ १॥ (३) गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् । मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥ २॥ (४) स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् । वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥ ३॥ भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् । वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकां चारुचन्द्ररविलोचनां मनसि भावयामि परदेवताम् ॥ ४॥ (६) कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस- त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम् । मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् ॥ ५॥ (५) वारणाननमयूरवाहमुखदाहवारणपयोधरां चारणादिसुरसुन्दरीचिकुरशेकरीकृतपदाम्बुजाम् । कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां वारणान्तमुखपारणां मनसि भावयामि परदेवताम् ॥ ६॥ (७) पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् । पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् ॥ ७॥ (९) आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् । मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ॥ ८॥ (८) कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् । वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां var वालिकाचतुर बालिकामखिलनायिकां मनसि भावयामि परदेवताम् ॥ ९॥ (१) नित्यमेव नियमेन जल्पतां भुक्तिमुक्तिफलदामभीष्टदाम् । शंकरेण रचितां सदा जपे- न्नामरत्ननवरत्नमालिकाम् ॥ १०॥ (११) इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ नवरत्नमालिका संपूर्णा ॥ Another variation follows with difference in sequence marked () above and some additional verses added 1, 2, and 10 below (3 above not present) as in scan. नामरत्ननवरत्नमालिका ध्यानश्लोकः । कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् । वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां var वालिकाचतुर बालिकामखिलनायिकां मनसि भावयामि परदेवताम् ॥ दाडिमीकुसुममञ्जरीनिकरसुन्दरे मदनमन्दिरे यामिनीरमणखण्डमण्डितशिखण्डिके तरलकुण्डले । पाशमङ्कुशमुदश्चितं दधति कोमले कमललोचने तावके वपुषि सन्तत जननि! मामकं भवतु मानसम् ॥ १ ॥ कुन्दसुन्दरमन्दहासविराजिताधरपल्लवा- मिन्दुबिम्बनिभाननामरविन्दचारुविलोचनाम् । चन्दनागरुपङ्करूषिततुङ्गपीनपयोधरा चन्द्रशेखरवल्लभां प्रणमामि शैलसुतामुमाम् ॥ २ ॥ हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् । कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥ ३॥ गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् । मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥ ४॥ कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस- त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम् । मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् ॥ ५॥ भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् । वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकां चारुचन्द्ररविलोचनां मनसि भावयामि परदेवताम् ॥ ६॥ वारणाननमयूरवाहमुखदाहवारणपयोधरां चारणादिसुरसुन्दरीचिकुरशेकरीकृतपदाम्बुजाम् । कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां वारणान्तमुखपारणां मनसि भावयामि परदेवताम् ॥ ७॥ आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् । मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ॥ ८॥ पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् । पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् ॥ ९॥ माणिक्यकुण्डलितमौक्तिकवालिकेन मन्दस्मितेन वदनारुणपङ्कजेन । कालान्तदीर्घमणिमङ्गलसूत्रकण्ठी माता विशालनयना मम सन्निधत्ताम् ॥ १०॥ नित्यमेव नियमेन जल्पतां भुक्तिमुक्तिफलदामभीष्टदाम् । शंकरेण रचितां सदा जपे- न्नामरत्ननवरत्नमालिकाम् ॥ ११॥ इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ नवरत्नमालिका संपूर्णा ॥ Encoded by Kapila Shankaran and Aravind. Proofread by Sridhar Seshagiri sridhar.seshagiri@gmail.com
% Text title            : navaratnamaalikaa stotram.h
% File name             : devii_navaratna.itx
% itxtitle              : navaratnamAlikA (shaNkarAchAryavirachitam)
% engtitle              : navaratnamAlikA
% Category              : devii, dashamahAvidyA, stotra, nava, devI, shankarAchArya
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Kapila Shankaran(achintya at ican.net) and Aravind
% Proofread by          : Sridhar - Seshagiri sridhar.seshagiri at gmail.com
% Description-comments  : There are variations
% Indexextra            : (Scan
% Latest update         : September 3, 2002, March 24, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org