देवी केशादिपादवर्णनम्
सिन्दूरारुणमुज्ज्वलं नयनयोरानन्दसन्दोहनं
विश्वंव्यापिमनोरमं कलयतां सन्तापविध्वंसनम् ।
तेजोमण्डलमात्मनि स्फुरतु मे भूयस्तदन्तर्गतं
लावण्यायतनं स्वरूपमपि ते मुक्तिस्थलस्थे शिवे ॥ १॥
उद्यद्भास्करकोटिसुप्रभमनर्घानेकरत्नावली-
राजच्चन्द्रकलाविराजिमुकुटं हैमं निसर्गोज्ज्वलम् ।
आनीलं पृथुकुञ्चिताग्रममलं कल्पप्रसूनाञ्चितं
स्निग्धं ते कबरीभरं च कलये मुक्तिस्थलस्थे शिवे ॥ २॥
अर्धेन्दुप्रतिमे ललाटफलके नीलालकालङ्कृते
कस्तूरीतिलकं विलासचतुरं चानङ्गचापोपमम् ।
भ्रूवल्लीयुगलं समुन्नतमतिस्वच्छं च नासापुटं
राजन्मौक्तिकरत्नमम्ब कलये मुक्तिस्थलस्थे शिवे ॥ ३॥
लीलाचञ्चलमञ्जनाञ्चितमतीतालोकलीलालव-
प्रध्वस्तानतभूरितापनिकरं विस्तीर्णमत्यायतम् ।
स्निग्धश्यामलपक्ष्मपङ्क्तिनयनद्वन्द्वं दयावारिधे
दीने पातय मय्यनन्यशरणे मुक्तिस्थलस्थे शिवे ॥ ४॥
गण्डौ विद्रुमदर्पणातिविमलौ गोरोचनालङ्कृतौ
कर्णोद्भासितरत्नकुण्डलरुचा विभ्राजितौ कोमलौ ।
बन्धूकप्रसवारुणाधरपुटं कुन्दाभदन्तावली-
बिभ्राजच्चिबुकं च देवि कलये मुक्तिस्थलस्थे शिवे ॥ ५॥
भास्वद्रत्नकिरीटकुण्डलयुगग्रैवेयकोद्भासिते
वक्त्रेन्दौ निजकान्तिरूषितपरिष्कारे मनोनन्दने ।
राजन्तीं स्मितचन्द्रिकां नतजनान्तस्तापनिर्मूलिनीं
नित्यं चेतसि भावयामि वरदे मुक्तिस्थलस्थे शिवे ॥ ६॥
कस्तूरीघनसारकुङ्कुममुखैरालेपनैरञ्चितं
ग्रैवेयैश्च निरन्तरं मणिमयैर्माङ्गल्यसूत्रोज्ज्वलम् ।
रेखाभिस्तिसृभिस्तथा विलसितं चारुस्वरं बन्धुरं
कण्ठं ते कलयामि गीतिनिपुणे मुक्तिस्थलस्थे शिवे ॥ ७॥
केयूरादिविचित्रभूषणतरान् रत्नाङ्गुलीयप्रभा-
राजत्पाणितलान् धृतैक्षवधनुःपुष्पेषु पाशाङ्कुशान् ।
आनम्राभयदान् शिरीषमृदुलानालेपनैरञ्चितान्
बाहून् मूर्धनि मे निधेहि सदयं मुक्तिस्थलस्थे शिवे ॥ ८॥
निष्कं बाहुलतान्तरे मणिगणैराकीर्णमत्यद्भुतं
हारं चापि मनोहरं मणिमयीं मालां तथा काञ्चनीम् ।
राजीवोत्पलचम्पकादिकुसुमैः क्लृप्तामहीनश्रियं
मालां सौरभशालिनीं च कलये मुक्तिस्थलस्थे शिवे ॥ ९॥
वृत्तौ कुङ्कुमरूषितौ निरुपमौ पीनौ स्तनौ संहतौ
तुङ्गौ कोमलसूक्ष्मपाटलपटप्रच्छादितावुज्ज्वलौ ।
मध्यं चापि कृशं वलित्रययुतं वक्षोजभारानतं
तन्वीं रोमलतां च देवि कलये मुक्तिस्थलस्थे शिवे ॥ १०॥
आवर्तोपममन्दशोभममलं निम्नं च नाभीबिलं
काञ्चीदामनिबद्धरत्नविलसत्सिन्दूरवर्णांशुकम् ।
विस्तीर्णं रशनापदं कनकसद्रम्भानिभौ कोमलौ
ऊरू चारुतरौ च देवि कलये मुक्तिस्थलस्थे शिवे ॥ ११॥
जानुद्वन्द्वमिभेन्द्रकुम्भसुषमाचोरं च जङ्घायुगं
चेतोजन्मनिषङ्गसौरभहरं वृत्तं च नात्यायतम् ।
मञ्जीरं च मनोऽभिरामनिनदं रत्नप्रभाभासुरं
कूर्माभं प्रपदं च देवि कलये मुक्तिस्थलस्थे शिवे ॥ १२॥
स्निग्धस्वच्छतराङ्गुलीदलततिच्छायं विराजन्नख-
प्रालेयांशुमरीचिधूतविनमत्तापान्धकारोत्करम् ।
कान्तं कल्पलताप्रवालसुभगं लाक्षारसारञ्जितं
पादाब्जं तव भावयामि वरदे मुक्तिस्थलस्थे शिवे ॥ १३॥
भक्तानां हृदयेषु भूरिकृपया न्यस्तं तदन्तर्गतं
गाढं तापतमो निरस्य शिशिरीकुर्वन्प्रकाशाधिकम् ।
आनन्दामृतवर्षिकं च वरदं यत्सेव्यमानं बुधै-
स्तत्ते पादसरोजमम्ब कलये मुक्तिस्थलस्थे शिवे ॥ १४॥
यत्पांसुं कमलासनप्रभृतयो देवा मुनीन्द्रास्तथा
वोढुं मूर्ध्नि न कुर्वते यतधियः किं किं तपो दुष्करम् ।
तत्पादाम्बुजमानतस्य सततं दीनस्य मे मस्तके
कूजन्नूपुरमर्पयाम्ब सदयं मुक्तिस्थलस्थे शिवे ॥ १५॥
राजा चैत्रकुलोद्भवस्य सुरथो यत्सेवयाऽभून्मनुः
वैश्यः सोऽपि समाधिराप मतिमान् ज्ञानं परैर्दुर्लभम् ।
योषामूर्तिरमूमुहत्स्मररिपुं देवोऽपि नारायण-
स्तत्ते पादसरोजमम्ब कलये मुक्तिस्थलस्थे शिवे ॥ १६॥
नित्यं येन शिवाङ्गवर्णनमिदं स्तोत्रं द्वयोस्सन्ध्ययोः
पद्यैः षोडशभिः कृतं कृतधिया मर्त्येन सङ्कीर्त्यते ।
तस्य प्रीतमनाः परेशमहिषी त्वं देवि तापत्रयं
निर्धूयाशु विधेहि भक्तिमचलां मुक्तिस्थलस्थे शिवे ॥ १७॥
प्रागन्तेवसता चिरं श्रुतिगिरस्सारावदातात्मना
नेयत्ता निरणायि यस्य भगवच्छ्रीशङ्करस्वामिना ।
ब्राह्मं वैष्णवमैश्वरं च किमपि प्रागल्भ्यमुद्भासयत्
सायुज्यं मम सन्दधातु तदिदं मुक्तिस्थलस्थं महः ॥ १८॥
ॐ तत्सत् ।
॥ इति श्रीनारायणभट्टतिरिविरचितं मुक्तिस्थलषोडशस्तोत्रं सम्पूर्णम् ॥
The varNanam is attributed to Melpathur Narayana Bhattathiri, the composer of the Narayaneeyam.
The last shloka (18) is generally considered part of this mukthisthala Shodasha stotra. Legend is that Shrimad Shankaracharya worshipped here and realized the greatness of the presiding Deity.
Encoded by Sunder Hattangadi
Proofread by Sunder Hattangadi, PSA Easwaran, T B Lakshman Rao