जगन्मङ्गलास्तोत्रम्

जगन्मङ्गलास्तोत्रम्

वीणावादनतत्पराङ्गुलि नदल्लोलाञ्चितैः किङ्किणी- जालैः शोभितकङ्कणे शशिमुखे बालेन्दुचूडामणे । हेलाराजितचारुनेत्रयुगले ग्रैवेयशोभाञ्चिते बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ १॥ कुक्षौ ते बहुजीवलोकसमितेः कोचिं चिरं बिभ्रती कल्पादौ त्रिपुरे सृजस्यवसि तान् सर्वास्ववस्थास्वहो । अन्ते तानखिलान्विनाशयसि सर्वं भो विलासस्तव बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ २॥ लोके नीरधराग्निवायुगगनाः सर्वे भवल्लीलया मातः सञ्चलिता हि तारकगणाः सूर्यादिसर्वे ग्रहाः । सर्वं खल्विह ते स्वरूपमपि च त्वं चोदयित्री सदा बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ३॥ मायामेयविकासमात्रविभवा मातस्तवेयं कृति- र्गेया सर्वगुणान्विता च बहुधा मेयापि वेद्या नहि । ध्येया ज्ञानविशारदैश्च विविधैः शास्त्रैर्विलोक्यापि वै बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ४॥ नेत्रैः श्वेतविनीलशोणरुचिभिः पूर्णानुकम्पान्वितैः पापानां मम भञ्जनाय गिरिजे पूरत्रयाणामिव । तीर्थानामुपसङ्गमस्य नयसीत्येतद्ध्रुवं मां तथा बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ५॥ मातस्ते दरलोलशीतविमलैर्नेत्रैः शिवे पश्य मां दुःखात्यन्तविपाकदीनवदनं शीघ्रं दयार्द्रैर्यतः । ग्रामे वा विपिनेऽपि वा हिमकरो ज्योत्स्नानिपातैः समं बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ६॥ वेदानां शिखराणि पादयुगली धत्ते तवाम्बान्वहं पाद्यं तद्धरमौलिजूटतटिनीलाक्षाङ्कितो रागिमा । श्रीविष्णोर्हि किरीटरत्नसुषमा यस्यास्तु वन्देतरां बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ७॥ या शम्भोश्चरितामृतेन चलिता रोषा च गङ्गाहृदे या सख्यां परमादरा शिवगले या सङ्गता सर्वदा । दृष्ट्या ते शशिशीतया च दिशती सन्मङ्गलं सन्ततं बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ८॥ वाग्देवीं चतुराननस्य गृहिणीमाहुर्विधिज्ञा नराः श्रीविष्णोर्गृहिणीं सुधाब्धितनयां श्रीकण्ठपत्नीमुमाम् । मातः का भवती विलासचतुरा माया परा देवता बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ९॥ इति श्रीजगन्मङ्गलास्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Ramgopal Bhimavarapu bhimavarapu2014 at gmail.com and Sunder Hattangadi
% Text title            : jaganmangalastotram
% File name             : jaganmangalastotram.itx
% itxtitle              : jaganmaNgalastotram
% engtitle              : jaganmangalastotram
% Category              : devii, devI, mangala
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ramgopal Bhimavarapu bhimavarapu2014 at gmail.com. Sunder Hattangadi
% Proofread by          : Sunder HattangadiRamgopal Bhimavarapu
% Latest update         : July 19, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org