श्रीरामकृष्णस्तोत्र २
आचण्डालाप्रतिहतरयो यस्य प्रेमप्रवाहः
लोकातीतोऽप्यहह न जहौ लोककल्याणमार्गम् ।
त्रैलोक्येऽप्यप्रतिममहिमा जानकीप्राणबन्धो
भक्त्या ज्ञानं वृतवरवपुः सीतया यो हि रामः ॥ १॥
नरदेव देव, जय जय नरदेव
स्तब्धीकृत्य प्रलयकलितं वाहवोत्थं महांतम्
हित्वा रात्रिं प्रकृतिसहजामन्धतामिस्रमिश्राम्
गीतं शांतं मधुरमपि यः सिंहनादं जगर्ज
सोऽयं जातः प्रथितपुरुषो रामकृष्णस्त्विदानीम् ॥ २॥
नरदेव देव, जय जय नरदेव
शक्तिसमुद्रसमुत्थतरङ्गं
दर्शितप्रेमविजृम्भितरङ्गम् ।
संशयराक्षसनाशमहास्त्रं
यामि गुरुं शरणं भववैद्यम् ॥ ३॥
नरदेव देव, जय जय नरदेव
अद्वयतत्त्वसमाहितचित्तं
प्रोज्ज्वलभक्तिपटावृतवृत्तम् ।
कर्मकलेवरमद्भुतचेष्टं
यामि गुरुं शरणं भववैद्यम् ॥ ४॥
नरदेव देव, जय जय नरदेव
-- स्वामी विवेकानन्द
Encoded and proofread by Sunder Hattangadi
Corrections by Swami Mahayogananda.