श्रीदक्षिणामूर्त्यष्टोत्तरशतनामावलिः
ॐ विद्यारूपिणे नमः ।
ॐ महायोगिने नमः ।
ॐ शुद्धज्ञानिने नमः ।
ॐ पिनाकधृते नमः ।
ॐ रत्नालङ्कृतसर्वाङ्गिने नमः ।
ॐ रत्नमौलये नमः ।
ॐ जटाधराय नमः ।
ॐ गङ्गाधारिणे नमः ।
ॐ अचलवासिने नमः ।
ॐ महाज्ञानिने नमः ॥ १०॥
ॐ समाधिकृते नमः ।
ॐ अप्रमेयाय नमः ।
ॐ योगनिधये नमः ।
ॐ तारकाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ ब्रह्मरूपिणे नमः ।
ॐ जगद्व्यापिने नमः ।
ॐ विष्णुमूर्तये नमः ।
ॐ पुरातनाय नमः ।
ॐ उक्षवाहाय नमः ॥ २०॥
ॐ चर्मवाससे नमः ।
ॐ पीताम्बरविभूषणाय नमः ।
ॐ मोक्षदायिने नमः ।
ॐ मोक्षनिधये नमः ।
ॐ अन्धकारये नमः ।
ॐ जगत्पतये नमः ।
ॐ विद्याधारिणे नमः ।
ॐ शुक्लतनवे नमः ।
ॐ विद्यादायिने नमः ।
ॐ गणाधिपाय नमः ॥ ३०॥
ॐ प्रौढापस्मृति संहर्त्रे नमः ।
ॐ शशिमौलये नमः ।
ॐ महास्वनाय नमः ।
ॐ सामप्रियाय नमः ।
ॐ अव्ययाय नमः ।
ॐ साधवे नमः ।
ॐ सर्ववेदैरलङ्कृताय नमः ।
ॐ हस्ते वह्निधराय नमः ।
ॐ श्रीमते मृगधारिणे नमः ।
ॐ वशङ्कराय नमः ॥ ४०॥
ॐ यज्ञनाथाय नमः ।
ॐ क्रतुध्वंसिने नमः ।
ॐ यज्ञभोक्त्रे नमः ।
ॐ यमान्तकाय नमः ।
ॐ भक्तानुग्रहमूर्तये नमः ।
ॐ भक्तसेव्याय नमः ।
ॐ वृषध्वजाय नमः ।
ॐ भस्मोद्धूलितसर्वाङ्गाय नमः ।
ॐ अक्षमालाधराय नमः ।
ॐ महते नमः ॥ ५०॥
ॐ त्रयीमूर्तये नमः ।
ॐ परब्रह्मणे नमः ।
ॐ नागराजैरलङ्कृताय नमः ।
ॐ शान्तरूपायमहाज्ञानिने नमः ।
ॐ सर्वलोकविभूषणाय नमः ।
ॐ अर्धनारीश्वराय नमः ।
ॐ देवाय नमः ।
ॐ मुनिसेव्याय नमः ।
ॐ सुरोत्तमाय नमः ।
ॐ व्याख्यानदेवाय नमः ॥ ६०॥
ॐ भगवते नमः ।
ॐ रविचन्द्राग्निलोचनाय नमः ।
ॐ जगद्गुरवे नमः ।
ॐ महादेवाय नमः ।
ॐ महानन्दपरायणाय नमः ।
ॐ जटाधारिणे नमः ।
ॐ महायोगिने नमः ।
ॐ ज्ञानमालैरलङ्कृताय नमः ।
ॐ व्योमगङ्गाजलस्थानाय नमः ।
ॐ विशुद्धाय नमः ॥ ७०॥
ॐ यतये नमः ।
ॐ ऊर्जिताय नमः ।
ॐ तत्त्वमूर्तये नमः ।
ॐ महायोगिने नमः ।
ॐ महासारस्वतप्रदाय नमः ।
ॐ व्योममूर्तये नमः ।
ॐ भक्तानामिष्टाय नमः ।
ॐ कामफलप्रदाय नमः ।
ॐ परमूर्तये नमः ।
ॐ चित्स्वरूपिणे नमः ॥ ८०॥
ॐ तेजोमूर्तये नमः ।
ॐ अनामयाय नमः ।
ॐ वेदवेदाङ्गतत्त्वज्ञाय नमः ।
ॐ चतुःषष्टिकलानिधये नमः ।
ॐ भवरोगभयध्वंसिने नमः ।
ॐ भक्तनामभयप्रदाय नमः ।
ॐ नीलग्रीवाय नमः ।
ॐ ललाटाक्षाय नमः ।
ॐ गजचर्मणे नमः ।
ॐ गतिप्रदाय नमः ॥ ९०॥
ॐ अरागिणे नमः ।
ॐ कामदाय नमः ।
ॐ तपस्विने नमः ।
ॐ विष्णुवल्लभाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ संन्यासिने नमः ।
ॐ गृहस्थाश्रमकारणाय नमः ।
ॐ दान्ताय नमः ।
ॐ शमवतां श्रेष्ठाय नमः ।
ॐ सत्यरूपाय नमः ॥ १००॥
ॐ दयापराय नमः ।
ॐ योगपट्टाभिरामाय नमः ।
ॐ वीणाधारिणे नमः ।
ॐ विचेतनाय नमः ।
ॐ मतिप्रज्ञासुधाधारिणे नमः ।
ॐ मुद्रापुस्तकधारणाय नमः ।
ॐ वेतालादि पिशाचौघ राक्षसौघ विनाशनाय नमः ।
ॐ रोगाणां विनिहन्त्रे नमः ।
ॐ सुरेश्वराय नमः ॥ १०९॥
॥ इति श्रीदक्षिणामूर्त्यष्टोत्तरशतनामावलिः समाप्ता ॥
Encoded and proofread by Arun Shantharam shantharam.arun at gmail.com