भृङ्गीकृतशिवक्षमास्तोत्रम्
(शिवरहस्यान्तर्गते)
स्कन्दः –
हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् ।
तुष्टाव देव्या देवेशं स भृङ्गी विनयात् सदा ॥ १॥
भृङ्गी –
- -
क्रूरं दुष्टतमं विनष्टमनसं भ्रष्टं शठं निष्ठुरं
निर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशनं हिंसकम् ।
आशापाशशतप्रबन्धमनसं दुष्कीर्तिभाजं जडं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २॥
क्षुद्रं दुर्भगमल्पसत्वमलसं भग्नव्रतं रागिणं
भीरुं डाम्भिकपक्षमं व्यसनिनं पापात्मकं सूचकम् ।
आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३॥
मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं
कामान्धं क्षणिकं तदर्थनपरं दौःशील्यजन्मस्थलम् ।
सर्वलुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४॥
आकाङ्क्षाशयमार्यवृत्तिविमुखं क्षीणं गुरुद्वेषिणं
धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम् ।
दीनं पापरतं समस्तविषयेष्वासक्तमन्यायिनं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ५॥
स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं
धयानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् ।
दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्यास्पदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ६॥
मायाग्रस्तसमस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं
दुःसङ्गप्रियमप्रतिष्ठवचनं कामातुरं तस्करम् ।
शैवज्ञानपराङ्गमुखं खलजनव्यापारपारं गतं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ७॥
दुर्मर्यादमतिप्रवृद्धजरसं (रजसं) सद्वृत्तिसेवारिपुं
सद्धर्मादिसमुत्सुके गुरुजने मान्येषु चात्युद्धतम् ।
शिष्टानिष्टकरं क्रियापरिचितं दुष्टप्रतुष्टिपदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ८॥
कर्मादिस्तुतिकारणं परमहानिन्दाकरं निन्दितं लुण्टाकं
पतितं विपर्ययगतस्वान्तं सदा याचकम् ।
वैकल्यापगतं सुकार्यनिचयं सर्वापदां सञ्चयं
(वैकल्यापगताशुकार्यनिचयं सर्वापदां सञ्चयं)
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ९॥
कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महाकातरं
दुर्बुद्धिं मदपानमत्सरधियं दुर्वृत्तवृत्त्याश्रयम् ।
मिथ्याज्ञानिनमात्मात्मकण्टकमलं लोकत्रये निन्दितं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १०॥
दुष्कर्मप्रचयप्रभिन्नहृदयं क्लेशैश्च सम्पिडितं
चार्वाकं कुमतिं कुशीलमनसं कार्पण्यजन्मस्थलम् ।
भार्यापुत्रगृहादिसक्तमनसं गाम्भीर्यधैर्यद्विषं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ११॥
आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं
संकल्पैर्बहुभिर्विभिन्नहृदयं द्वैतप्रसक्तं सदा ।
मर्मच्छिद्वचनं कठोरहृदयं मित्रद्रुहं क्षुद्रकं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १२॥
चित्तक्षोभकरं कलत्रहृदयं शङ्कापदं लोलुपं
सारासारविचारहीनमनसं नीचक्रियं नीरसम् ।
मत्तोन्मत्तनिकृष्टदुष्टचरितं शोच्यं वृथालापिनं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १३॥
सत्यत्यागदयाक्षमाशमदमाद्यर्थानभिज्ञानकं
देवब्राह्मणगोत्रजातितिथिपितृज्ञानात्मकापूजनम् ।
विश्वस्तेष्वपकारवञ्चनपरैर्मैत्रीपरं दुर्जयं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १४॥
मत्वाऽधर्ममतिं कदर्थनपरं को मत्समोऽस्मिन्
भवेदित्येवं बहुजल्पिनं कुवपुषं पापाश्रितं राक्षसम् ।
दृष्ट्वा दृष्टसुखेषणं तव मदात्त्यक्त्वा शिवाराधनं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १५॥
दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं
दासीमेपखरस्वभावमपटुं सम्माननाभाजनम् ।
रिक्तं बालमदीर्घसुत्रिणमलं हृच्छल्यभूतं सतां
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १६॥
मार्जाराखुवृकश्वकुक्कुटकपिक्रोडाभिवृत्तिं सदा
तीर्थध्वांक्षमनर्थकम्पिनि हिते सन्तापिनं दुःसहम् ।
त्यक्तोपायमपायकाङ्क्षिणमहोऽशुद्धप्रियं चापलं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १७॥
अस्पृश्यं विकलं कर्दयमखिलैः दोषैः स्वकीर्यैतं
पापिष्ठं विषयेषु सक्तमनसं त्याज्यं विवादास्पदम् ।
चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १८॥
अत्यावेशनमुत्तमस्थितिमतां सत्याग्निनां नास्तिकं
रन्ध्रान्वेषणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः ।
माहात्म्यश्रवणस्तुतिक्षणविधौ माहेश्वरावत्सलं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १९॥
भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं सम्भ्रान्तं
चपलं विचारविहितव्यापारविद्वेषणम् ।
शम्भो त्वत्पदभक्तिहीनमनसं मूढं समात्मद्विषं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २०॥
दोषावासमतिं प्रमादितमतिं क्षुत्तृड्ज्वराभ्यर्दितं
स्वप्नेऽप्यत्र परोपकाररहितं सर्वाहितं दुर्बलम् ।
लोके सत्परिहार्यनिन्दितमहादुःखप्रदैकेन्द्रियं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २१॥
किं वाचा बहुविस्तरेण भगवन् मत्सन्निभो भूतले
भूतो नास्ति विभो भविष्यति पुमान्निर्भाग्यचूडामणिः ।
तस्मादीदृशमात्मवञ्चनपरं त्रैलोक्यरक्षामणे
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २२॥
सर्वश्रेष्ठगुणैकभाजनमहो सर्वोत्तमेषूत्तमं
सङ्ख्येयार्थगुणैकभाजनमलं कष्टातिकष्टप्रियम् ।
श्रीकाश्रीकमतेन्द्रियस्य वशगं निःसंशयं सङ्गिनं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २३॥
विण्मूत्रक्रिमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं
दुर्गन्धैकनिधिं जरापरिगतं वातादिदोषास्पदम् ।
दृष्ट्वाऽपि स्वकलेवरं कृशमयं तवारिक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २४॥
विष्ठाविष्टकुजन्तुनिष्ठमशुचिं स्वाभाव्यतो नश्वरं
कुष्ठक्षौण्यविषूचिकाज्वरशिरः शूलादिवेगास्पदम् ।
ज्ञात्वाऽपि स्वशरीरमत्र तु सदा सम्प्रीतियुक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २५॥
स्वात्माधारतया स्थितां निजतनुं बाल्ये तथा यौवने
वृद्धत्वेऽपि बहुप्रकारविकृतिं प्राप्तां समीक्ष्यापि च ।
तत्रात्मन्यतिरागिणं त्वयि कृते स्वान्यानुरक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २६॥
देहं क्षालनलेपनादिविधिना संस्पृश्य योग्यार्थवत्
छिन्नं क्लिन्नमहाव्रणं नवमुखं नित्यं स्रवन्तं मलम् ।
तं दृष्ट्वाऽप्यतिरागिणं च नरके नूनं सरागं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २७॥
लोकेऽत्यन्तपवित्रतामुपगतं यत्पञ्चगव्यादिकं
तद्देहोत्थकफास्थिरोमरुधिरस्नाय्वादिसंस्पर्शतः ।
स्यादेवाशुचि तद्विबुध्य च सदा तद्देहसक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २८॥
स्वस्यार्युनिचयस्य मध्यत इमौ नित्यं निशावासरौ
जाग्रत्स्वप्नसुषुप्तिषु स्थितिमतः स्वल्पायुषः खण्डकम् ।
गच्छत्तावदबुद्धय च स्वहितसत्कर्मण्यरक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २९॥
सर्पिःखण्डपयोमधुप्रभृतिकं त्यक्तवा तृणान्यपि गौः
यद्वच्शाश्वतशाम्भवोक्तमहिमानन्दानपेक्षं सदा ।
शम्भो वैषयिके सुखेऽतिविरसे तुच्छेऽतिसक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३०॥
धूमे कुङ्कुमगन्धकाङ्क्षिणमहो तोयार्थिनं वा मरौ
तैलान्वेषिणमश्वचूत्णनिचये मैत्र्यर्थिनं दुर्जने ।
दुर्बुद्धिं त्रिगुणात्मके मलनिधौ क्षेत्रे सुखेप्सुं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३१॥
देवानामपि मारुतस्य च विभो गम्यं न यत्तत्र तु
स्वैरं गच्छति मे मनो नहि तदा चित्तं तवाङ्घ्रिद्वये ।
धर्तुस्तच्च नियन्तुमुच्चसुखदो नैवासमर्थं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३२॥
वेदैरप्यखिलैर्महेश बहुशो वेदान्तशास्त्रादिभिः
व्यापि चिन्मय एक ईश्वर इति प्रोक्ते त्वयि त्वत्पदे ।
चित्तं धर्तुमशक्तमात्मवचनैः व्यापारहीनं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३३॥
ज्ञानाज्ञानदयादयाशमदमासंमोहमोहानतिख्यात्यख्याति
भयाभयासुखसुखाहिंसामनस्तुष्टयः ।
भूतनां भवदाज्ञयैव विधिना नित्यं भवन्ति ध्रुवं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३४॥
भावाभावभवाभवामृतविषासत्सत्समस्ता क्रिया
दिव्यत्वं च निरामयत्वनिखिलाभीष्टार्थसम्पत्तयः ।
भूतानां भवदिच्छयैव भगवन् जायन्त एवानिशं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३५॥
योगैश्वर्यसमस्तदानपरता श्रद्धात्मभक्तिर्दृढा
वैराग्यं परमं महेश परमे धर्मे मतिश्चारुता ।
भूतानां भवतः प्रसादत इमे जायन्त एव ध्रुवं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३६॥
नालं चालयितुं तृणं च पवनः शम्भो त्वदाज्ञां विना
दग्धुं तं न समर्थ एव हुतभुक्शक्रोऽपि नो व्रजतः ।
शक्तः छेत्तुमपि प्रभो जगदिदं सर्वं त्वदाज्ञावशं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३७॥
चित्तं चेतयते मनश्च सकलं सङ्कल्पयत्याज्ञया
सर्वार्थानभिमन्यते ननु महादेवाज्ञयाऽहङ्कृतिः ।
स्वे स्वे त्विन्द्रियवर्ग एव विषयेच्छास्ते तवैवाज्ञया
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३८॥
ब्रह्मा सृष्टिकरो हरिः स्थितिकरो रुद्रस्तु कालात्मकः
संहर्ता जगतं श्रियं जनयति श्रीयुग्मविद्यां पुमान् ।
गायत्री च तवाज्ञयैव नरकात्सन्तारयत्याश्रितान्
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३९॥
वायुर्वाति तवाज्ञया शशिरवी नित्यं जगद्भासकौ
आहारं पचते च कुक्षिसदने वह्निः सद प्राणिनाम् ।
देवानां वहतीव हव्यमऽपि यः पाकं करोत्यत्ति यः
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४०॥
भूतान्याप इहाज्ञयैव भवतः सञ्जीवयन्ति प्रभो वाचा
वाग्विपुलं ददाति जगतां यत्तेखिलं पुन्नभः ।
भूतानामवकाशदं त्रिजगतां शीतोष्णशङ्कास्पदः
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४१॥
सेन्द्राः सर्वसुरासुरादय इह त्वच्छासने संस्थिताः
ब्रह्माण्डानि इहात्मवस्तुनि परे सन्धारकाः सन्ततम् ।
त्रैलोक्यानुगतानपीह सुबहून्याज्ञावशादेव ते
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४२॥
हर्तासौ महदादिकं प्रकृतिरप्याज्ञावशा ते विभो
कालश्च प्रकृतिः पुरुः पुरुष इत्येतत्त्रयं सर्वदा ।
शम्भो देव भव त्वमेव च तथा भूतं भविष्यद्भवं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४३॥
त्वयोपरि तमो घृतं तव महाब्धिलीलार्थमेव
त्वयोन्नतिप्रेरणयैव ते तच्च विषयेष्वत्र प्रवृतं जगत् ।
तापश्चापि रवेः समस्तजगतां दुःखार्तिहारिन प्रभो
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४४॥
बन्धच्छेदविधौ त्वमेव भुवनेष्वेकः समर्थो भवेः
त्वं पाशैर्भवबन्धमेतदखिलं कर्मच्छलेनापि च ।
शम्भो त्वां शरणागतं करुणया त्वं शङ्करो येन वा
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४५॥
महामुर्ते महादेव त्वन्मूर्तौ सर्वदेवताः ।
यथा बीजाङ्कुरोत्पत्तिः तथेदं त्वय्यवस्थितम् ॥ ४६॥
जगज्जालमिदं शम्भो ससुरासुरमानुषम् ।
नित्य निर्माय नीरूप धुरन्धर सुनिर्मलम् ॥ ४७॥
मनोवाचां सुदूरात्मन् परमेश नमोऽस्तु ते ।
त्वत्तः सर्वं त्वया सर्वं त्वं सर्वं सर्वगोऽसि च ॥ ४८॥
नमस्ते देवदेवेश सर्वकारणकारण ।
कर्तव्य च दया दिने करुणाकर शङ्कर ॥ ४९॥
सर्वापराधं मे देव क्षमस्व जगतां पते ।
तव रूपं जगच्छम्भो अष्टमूर्तिरनीश्वरः ॥ ५०॥
पिता त्वमेव भगवन् माता साक्षादुमा यतः ।
क्षमस्वागो ममेद नीं बहुनोक्तेन किं प्रभो ॥ ५१ ॥
त्वयि भक्तिं महादेव दृढां देहि मृडाव्यय ॥ ५२॥
- -
स्कन्दः –
इत्युक्तां मुनिवचनस्तुतिं महेशः
श्रुत्वा चागकुमारिकायुतो हरस्तम् ।
दत्वा रूपमपारदिव्यगणपस्येन्द्राधिपत्यं ददौ
तेनैवोत्तमसद्द्विजेन विहरत्कैलासमौलौ शिवः ॥ ५३॥
यस्त्त्वेतच्छृणुयात पठेन शम्भोः
स्तव्यानां परमः स्तवोऽयमीशतुष्ट्यै ।
सोऽन्ते चाप्यचिरेण भृङ्गितुल्यः
पादाब्जे परमेश्वरस्य युक्तभृङ्गः ॥ ५४॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये भृङ्गीकृतशिवक्षमास्तोत्रं सपूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः १० । १-५४ ॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 10 . 1-54 ..
Notes:
Mahāmuni Bhṛṅgī महामुनि भृङ्गी (who had avoided circumambulation of Devī देवी in favour of Śiva शिव) on being advised by Devī देवी about the oneness of Śiva शिव and Herself; expresses his remorsefulness. He beseeches Śiva Paśupati शिव पशुपति to show compassion as a Father, and pardon him for his misconduct that arose due to his ignorance.
Encoded by DPD
Proofread by DPD, Ruma Dewan