श्रीशिवसहस्रनामस्तोत्रम्

श्रीशिवसहस्रनामस्तोत्रम्

ॐ श्रीगणेशाय नमः । पूर्वपीठिका - ॐ ओंकारनिलयं देवं गजवक्त्रं चतुर्भुजम् । पिचण्डिलमहं वन्दे सर्वविघ्नोपशान्तये ॥ १॥ (स्कन्दपुराणं शङ्करसंहिता शिवरहस्य खण्ड) श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥ २॥ शङ्करं शङ्कराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः ॥ ३॥ (तोटकाष्टकम्) वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनाम्पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ४॥ तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ५॥ (शिवमहिम्नस्तोत्रम्) ऋषय ऊचुः- सूत वेदार्थतत्त्वज्ञ शिवध्यानपरायण । मुक्त्युपायं वदास्मभ्यं कृपालो मुनिसत्तम ॥ १॥ (शिवरहस्य ७.१.१-६.१) कः सेव्यः सर्वदेवेषु को वा जप्यो मनुः सदा । स्थातव्यं कुत्र वा नित्यं किं वा सर्वार्थसाधकम् ॥ २॥ श्रीसूत उवाच- धन्यान्मन्यामहे नूनमनन्यशरणान्मुनीन् । वन्याशिनो वनेवासान् न्यस्तमानुष्यकल्मषान् ॥ ३॥ भवद्भिः सर्ववेदार्थतत्त्वं ज्ञातमतन्द्रितैः । भवद्भिः सर्ववेदार्थो ज्ञात एवास्ति यद्यपि ॥ ४॥ तथापि किञ्चिद्वक्ष्यामि यथा ज्ञातं मया तथा । पुरा कैलासशिखरे सुखासीनं जगत्प्रभुम् ॥ ५॥ वेदान्तवेद्यमीशानं शङ्करं लोकशङ्करम् । (शिवरहस्य ७.१.६.१) विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् ॥ ६॥ (शिवरहस्य ७.१.१३-१७) मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् । पप्रच्छ सर्वलोकानां मुक्त्युपायं कृताञ्जलिः ॥ ७॥ श्रीस्कन्द उवाच- विश्वेश्वर महादेव विष्णुब्रह्मादिवन्दित । देवानां मानवानां च किं मोक्षस्यास्ति साधनम् ॥ ८॥ तव नामान्यनन्तानि सन्ति यद्यपि शङ्कर । तथापि तानि दिव्यानि न ज्ञायन्ते मयाधुना ॥ ९॥ प्रियाणि शिवनामानि सर्वाणि शिव यद्यपि । तथापि कानि रम्याणि तेषु प्रियतमानि ते ॥ तानि सर्वार्थदान्यद्य कृपया वक्तुमर्हसि ॥ १०॥ (शिवरहस्य ७.१.१७) श्रीसूत उवाच- कुमारोदीरितां वाचं सर्वलोकहितावहाम् । श्रुत्वा प्रसन्नवदनस्तमुवाच सदाशिवः ॥ ११॥ (शिवरहस्य ७.१.३२-४६) श्रीसदाशिव उवाच- साधु साधु महाप्राज्ञ सम्यक्पृष्ठं त्वयाधुना । यदिदानीं त्वया पृष्टं तद्वक्ष्ये श‍ृणु सादरम् ॥ १२॥ एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा । समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ १३॥ दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम् । अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ १४॥ एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् । मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ १५॥ तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः । पूजयिष्यति मां भक्त्या यस्त्वेतन्नामसङ्ख्यया ॥ १६॥ स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः । ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ १७॥ एकैकेनैव नाम्ना मामर्चयित्वा दृढव्रताः । स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ १८॥ एतन्नामावलीं यस्तु पठन्मां प्रणमेत्सदा । स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ १९॥ स्पृष्ट्वा मल्लिङ्गममलमेतन्नामानि यः पठेत् । (मां लिङ्ग) स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ २०॥ यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि । मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ २१॥ एतन्नामानुसन्धाननिरतः सर्वदामुना । मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ २२॥ तत्पूजया पूजितोऽहं स एवाहं मतो मम । तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ २३॥ हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः । देवताप्यहमेवात्र शक्तिर्गौरी मम प्रिया ॥ २४॥ महेश एव संसेव्यः सर्वैरिति हि कीलकम् । धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ २५॥ (शिवरहस्य ७.१.४६) ॐ सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् । नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् ॥ ॥ न्यासः ॥ ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः । अनुष्टुप् छन्दः । परमात्मा श्रीसदाशिवो देवता । महेश्वर इति बीजम् । गौरी शक्तिः । महेश एव संसेव्यः सर्वैरिति कीलकम् । श्रीसाम्बसदाशिव प्रीत्यर्थे मुख्यसहस्रनामजपे विनियोगः । ॥ ध्यानम् ॥ शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां वरडमरुयुतं चाङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ ॐ नमो भगवते रुद्राय । ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः । हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः ॥ १॥ (शिवरहस्य ७.१.४७) विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः । सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ २॥ आततावी महारुद्रः संसारास्त्रः सुरेश्वरः । उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ ३॥ रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः । (सूतो वागीशो) वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ ४॥ उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः । ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५॥ सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः । (विव्याधि) आव्याधिनीशः ककुभो निषङ्गी स्तेनरक्षकः ॥ ६॥ (अव्याधि) मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः । अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ ७॥ प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः । (प्रकृतीश्, कुलिञ्चेशो, ग्रहेष्टकः) भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ८॥ व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् । शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ९॥ वामनो व्यापकः शूली वर्षीयानजडोऽनणुः । ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १०॥ (ऊर्म्यः, सूर्म्यप्रियः) आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः । (कुचेरस्तारकस्तारो) द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ११॥ (दीप्यः) पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः । अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः ॥ १२॥ (अपगल्भ्यो मध्यमौर्व्यो जघन्यो) प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः । (प्रतिसूर्यो) खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ १३॥ (खल्योर्वर्यो भवच्छेद्यः) वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः । आशुषेणो महासेनो महावीरो महारथः ॥ १४॥ शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः । श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी ॥ १५॥ (वशकृद्धशी) आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः । धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ १६॥ (श‍ृष्णुः) तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः । (शास्त्रवित्तमः) सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः ॥ १७॥ स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः । (स्तुत्यः) सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ १८॥ सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः । मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ १९॥ दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः । ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः ॥ २०॥ आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः । वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः ॥ २१॥ (रेण्यो) सोमस्ताम्रोऽरुणः शङ्गः रुद्रः सुखकरः सुकृत् । (सोमस्ताम्रोअरुणो शम्भू) उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ २२॥ अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः । शम्भुर्मयोभवो नित्यः शङ्करः कीर्तिसागरः ॥ २३॥ (मयोभुवो) मयस्करः शिवतरः खण्डपर्शुरजः शुचिः । तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ २४॥ (तीर्थः) शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः । (शूलपाणिरलोलुपः) उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः ॥ २५॥ (उत्तरणस्तार्यस्तारज्ञस्तार्यदूरगः) आतार्यः सारभूतात्मा सारग्राही दुरत्ययः । आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसङ्गरः ॥ २६॥ शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः । (शष्पः) इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः ॥ २७॥ (ग्रामणिः) वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः । (वरेण्यो यज्ञरूपश्च) यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ २८॥ यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः । प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः ॥ २९॥ (किंशुको मेद्यो / मेध्यो) पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः । (क्षणयो गेह्यो) हृदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ ३०॥ (हृदद्यो) निवेष्प्यो नियतोऽयन्ता पांसव्यः सम्प्रतापनः । (निवेष्ट्यो, पाँसत्यः) शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः ॥ ३१॥ (हरित्यः पूतात्मा) लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः । (पर्णपूर्णः) भूतो भूतपतिर्भूपो भूधरो भूधरायुधः ॥ ३२॥ (भूतपतिर्भूयो) भूतसङ्घो भूतमूर्तिर्भूतहा भूतिभूषणः । (भूतिहा / भूतिदो) मदनो मादको माद्यो मदहा मधुरप्रियः ॥ ३३॥ मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः । (मदनो मदनान्तकः) निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः ॥ ३४॥ निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः । सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ॥ ३५॥ सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः । समस्तजगदाधारः समस्तगुणसागरः ॥ ३६॥ समस्तदुःखविध्वंसी समस्तानन्दकारणः । रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ ३७॥ रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः । (रुद्राक्षभक्षकः) विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ॥ ३८॥ विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः । भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ ३९॥ भुजङ्गविलसत्कर्णो भुजङ्गवलयावृतः । मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ॥ ४०॥ मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः । मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ॥ ४१॥ मृगेन्द्रचर्मवसनो नरसिंहनिपातनः । मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः ॥ ४२॥ दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः । ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः ॥ ४३॥ (उर्व्यो) यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः । व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ॥ ४४॥ लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः । ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ॥ ४५॥ (ग्रहोऽग्रहो) ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः । कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ॥ ४६॥ कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः । परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ॥ ४७॥ वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः । वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ॥ ४८॥ कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः । भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ॥ ४९॥ पावनः पावको वामो महाकालो मदापहः । घोरपातकदावाग्निर्दवभस्मकणप्रियः ॥ ५०॥ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः । जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ॥ ५१॥ जगदानन्ददो जन्मजरामरणवर्जितः । खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः ॥ ५२॥ (सद्यो) कपालमालाभरणः कपाली विष्णुवल्लभः । कमलासनकालाग्निः कमलासनपूजितः ॥ ५३॥ कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः । नाट्यकर्ता नटपरो महानाट्यविशारदः ॥ ५४॥ विराड्रूपधरो धीरो वीरो वृषभवाहनः । वृषाङ्को वृषभाधीशो वृषात्मा वृषभध्वजः ॥ ५५॥ (वृषभावीशो) महोन्नतो महाकायो महावक्षा महाभुजः । (महावक्ष्यो महावीरो महाभुजः) महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः ॥ ५६॥ (महावक्त्रो महच्छरः) महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः । सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः ॥ ५७॥ सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः । धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः ॥ ५८॥ कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः । कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ॥ ५९॥ व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती । व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः ॥ ६०॥ अतिरागी वीतरागी रागहेतुर्विरागवित् । रागघ्नो रागशमनो रागदो रागिरागवित् ॥ ६१॥ विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः । विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ॥ ६२॥ नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः । विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ ६३॥ क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक् । (क्रोधजित् क्रोधिलः / क्रोधनः क्रोधिजनवित्क्रोधरूपधृक्) सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः ॥ ६४॥ (क्रोधदः क्रोधहा) गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः । (गुणवत्प्रियः) गुणाधारो गुणाकारो गुणकृद्गुणनाशकः ॥ ६५॥ वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः । (वीर्यकश्रेष्ठो) वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ॥ ६६॥ कालवित्कालकृत्कालो बलकृद् बलविद्बली । मनोन्मनो मनोरूपो बलप्रमथनो बलः ॥ ६७॥ विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः । विश्वकारो महाविश्वो विश्वविश्वो विशारदः ॥ ६८॥ variation विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः । विद्याकारो महाविद्यो विद्याविद्यो विशारदः ॥६८॥ वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः । ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः ॥ ६९॥ प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः । प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ॥ ७०॥ शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः । शरन्नाथः शरत्कालनाशकः शरदाश्रयः ॥ ७१॥ हिमस्वरूपो हिमदो हिमहा हिमनायकः । शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ॥ ७२॥ प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः । आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः ॥ ७३॥ ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः । (ऊर्ध्वादन्यदिगाकारो) सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ ७४॥ सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः । जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः ॥ ७५॥ (जीवबन्ध्यो / जीवबन्धुः) जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः । ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः ॥ ७६॥ वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः । (वज्रशो) कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः ॥ ७७॥ पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः । अपायरहितः शान्तो दान्तो दमयिता दमः ॥ ७८॥ ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः । कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः ॥ ७९॥ प्रलयानलकृद् दिव्यः प्रलयानलनाशकः । त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः ॥ ८०॥ अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः । सदम्भो दम्भरहितो दम्भदो दम्भनाशकः ॥ ८१॥ (दम्भो दम्भविनाशकः) कुन्देन्दुशङ्खधवलो भस्मोद्धूलितविग्रहः । भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः ॥ ८२॥ (पुष्टोऽरिसूदनः) स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः । (दोद्यमः) त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ ८३॥ सामप्रियः सामवेत्ता सामगः सामगप्रियः । धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ ८४॥ लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः । तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः ॥ ८५॥ (तुम्बवीणा) शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः । जयप्रदो जयाध्यक्षो जयात्मा जयकारणः ॥ ८६॥ (जयप्रियो) जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः । (जङ्गमाकारी) जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ ८७॥ पूषदन्तभिदुत्कृष्टः पञ्चयज्ञप्रभञ्जकः । अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ ८८॥ कैलासशिखरावासः कैलासशिखरप्रियः । भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः ॥ ८९॥ (वर्मज्ञः) सोमः सोमकलाकारो महातेजा महातपाः । हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक् ॥ ९०॥ ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः । स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ ९१॥ पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः । पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ ९२॥ सारभूतः स्वरमयो रसभूतो रसाश्रयः । (सारमयो) ॐकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ ९३॥ निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः । मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ ९४॥ वृन्दारकप्रियतमो वृन्दारकवरार्चितः । श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ ९५॥ महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः । सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ ९६॥ लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः । ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः ॥ ९७॥ वेदपो देवदेवेशो देवदेवोत्तमोत्तमः । बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ ९८॥ बीजाधारो बीजरूपो निर्बीजो बीजनाशकः । (बीजाधारी) परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ ९९॥ पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः । युगावहो युगाधीशो युगकृद्युगनाशकः ॥ १००॥ कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः । धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ १०१॥ मनोजवो जीवहेतुरन्धकासुरसूदनः । लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ १०२॥ अव्यक्तलक्षणो योगी योगीशो योगपुङ्गवः ।) श्रितावासो जनावासः सुरवासः सुमण्डलः ॥ १०३॥ (सुरावासः) भववैद्यो योगिवैद्यो योगिसिंहहृदासनः । (योगसिद्धो हृदासनः उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः ॥ १०४॥ आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः । भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ १०५॥ अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः । कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १०६॥ अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः । भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः ॥ १०७॥ (भूशयोऽन्नमयो भोक्ता) विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः । सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ १०८॥ अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः । (सर्वधर्मप्रवर्तकः) दयासुधार्द्रनयनो निराशीरपरिग्रहः ॥ १०९॥ परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः । (परार्थवृद्धिर्मधुरो) मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ ११०॥ सुखप्रदः सुखाकारः सुखदुःखविवर्जितः । विश‍ृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥ १११॥ अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः । (सुरुप्यो) अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ ११२॥ अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः । महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ ११३॥ गौरीविलाससदनो नानागानविशारदः । (नागाननविशारदः / नगराजो विशारदः) विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥ ११४॥ विष्णुब्रह्मादिवन्द्याङ्घ्रिः सुरासुरनमस्कृतः । किरीटलेढिफालेन्दुर्मणिकङ्कणभूषितः ॥ ११५॥ (भालेन्दु) रत्नाङ्गदाङ्गो रत्नेशो रत्नरञ्जितपादुकः । नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः ॥ ११६॥ (किरीटो) नानाविधानेकरत्नलसत्कुण्डलमण्डितः । दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ ११७॥ गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः । रत्नाङ्गुलीयविलसत्करशाखानखप्रभः ॥ ११८॥ रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः । वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः ॥ ११९॥ लीलावलम्बितवपुर्भक्तमानसमन्दिरः । मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १२०॥ कस्तूरीविलसत्फालो दिव्यवेषविराजितः । (भालो) दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १२१॥ देवासुरगुरुस्तव्यो देवासुरनमस्कृतः । हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ १२२॥ सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः । सर्वेष्टदाता सर्वेष्टः स्फुरन्मङ्गलविग्रहः ॥ १२३॥ अविद्यालेशरहितो नानाविद्यैकसंश्रयः । मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः ॥ १२४॥ (मूर्तिभवत् सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः । हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ १२५॥ शरणागतदीनार्तपरित्राणपरायणः । जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ १२६॥ भोक्ता भोजयिता जेता जितारिर्जितमानसः । अक्षरः कारणं क्रुद्धसमरः शारदप्लवः ॥ १२७॥ आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः । (आज्ञापरेप्सो) पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ १२८॥ व्योमकेशो भीमवेषो गौरीपतिरनामयः । भवाब्धितरणोपायो भगवान् भक्तवत्सलः ॥ १२९॥ वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः । यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः ॥ १३०॥ (क्षोदिष्ठो यविष्ठो) हिरण्यगर्भो हेमाङ्गो हेमरूपो हिरण्यदः । ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः ॥ १३१॥ (ब्रह्मज्योतिरता मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः । (मोक्षार्थी जनसंसेव्यो) महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः ॥ १३२॥ मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः । (मृगव्याघ्रो) सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ १३३॥ महेश्वरो महादेवः परब्रह्म सदाशिवः ॥ १३४॥ श्रीपरब्रह्म सदाशिव ॐ नम इति । उत्तर पीठिका (Assorted verses from shivarahasya) एवमेतानि नामानि मुख्यानि मम षण्मुख । (शङ्करी शाङ्करे) शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ॥ १॥ एतन्नामजपे योग्यः विप्रा देवा मुनीश्वराः । (योग्याः) शुचिर्भूताः शिवपरा नान्ये रागादिमोहिताः ॥ २॥ (शुचिभूताः) विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः । शिवलिङ्गसमीपस्थो निस्सङ्गो निर्जितासनः ॥ ३॥ एकाग्रचित्तो नियतो वशी भूतहिते रतः । शिवलिङ्गार्चको नित्यं शिवैकशरणः सदा ॥ ४॥ मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् । एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ॥ ५॥ संसारपाशसंबद्धजनमोक्षैकसाधनम् । मन्नामस्मरणं नूनं तदेव सकलार्थदम् ॥ ६॥ मन्नामैव परं जप्यमहमेवाक्षयार्थदः । अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात् ॥ ७॥ विभूतिवज्रकवचैर्मन्नामशरपाणिभिः । (मन्नामस्मरणार्थिभिः) विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ ८॥ (शिवरहस्य ७.१.१८८) न तेषां दृश्यते भयम् ॐ नम इति । श्रीसूत उवाच- इत्युदीरितमाकर्ण्य महादेवेन तद्वचः । सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः ॥ ९॥ (शिवरहस्य ७.१.२०३) श्रीस्कन्द उवाच- नमस्ते नमस्ते महादेव शम्भो नमस्ते नमस्ते प्रपन्नैकबन्धो । नमस्ते नमस्ते दयासारसिन्धो नमस्ते नमस्ते नमस्ते महेश ॥ १०॥ (शिवरहस्य ७.१.२२२-२२४) नमस्ते नमस्ते महामृत्युहारिन् नमस्ते नमस्ते महादुःखहारिन् । नमस्ते नमस्ते महापापहारिन् नमस्ते नमस्ते नमस्ते महेश ॥ ११॥ नमस्ते नमस्ते सदा चन्द्रमौले नमस्ते नमस्ते सदा शूलपाणे । नमस्ते नमस्ते सदोमैकजाने नमस्ते नमस्ते नमस्ते महेश ॥ १२॥ वेदान्तवेद्याय महादयाय कैलासवासाय शिवाधवाय । शिवस्वरूपाय सदाशिवाय शिवासमेताय नमःशिवाय ॥ १३॥ ॐ नमःशिवाय इति श्रीसूत उवाच- इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् । पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः ॥ १४॥ (शिवरहस्य ७.१.२३५) भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः । शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा ॥ १५॥ (शिवरहस्य ७.१.२४८-२५०) शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः । शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ १६॥ महेशान्नाधिको देवः स एव सुरसत्तमः । स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ १७॥ जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा । तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम् ॥ १८॥ (शिवरहस्य ७.१.२५२) सुभगा जननी तस्य तस्यैव कुलमुन्नतम् । तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ १९॥ (शिवरहस्य ७.१.२५४) ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं शैलाधीशसुतासमेतममलं सम्पूजयन्त्यादरात् । ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ २०॥ (शिवरहस्य ७.१.२५५) सत्यं पुनः सर्वथा ॐ नम इति । नमः शिवाय साम्बाय सगणाय ससूनवे । प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ २१॥ नमस्ते गिरिजानाथ भक्तानामिष्टदायक । देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे ॥ २२॥ साम्ब शम्भो महादेव दयासागर शङ्कर । मच्चित्तभ्रमरो नित्यं तवास्तु पदपङ्कजे ॥ २३॥ सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर । तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु ॥ २४॥ यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत् । तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ २५॥ करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत् क्षमस्व जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ २६॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत् सकलं परस्मै सदाशिवायेति समर्पयामि ॥ २७॥ ॥ ॐ तत्सत् इति श्रीमुख्यशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ The sahasranAma verses (1-134) are also found in shivarahasya saptamAMsha adhyAya 1 with some differences. The variations are given on the right side of each line it occurs. There are some selected verses from shivarahasya Adhyaya 1 in the uttara pIThikA as well. Proofread by KS Ramachandran, Avinash Sathaye, Sivakumar Thyagarajan, DPD
% Text title            : shivasahasranAma
% File name             : shivasahasrarudrayAmala.itx
% itxtitle              : shivasahasranAmastotram (shivarahasyAntargatam hiraNyabAhuH senAnIH)
% engtitle              : ShrI  ShivasahasranAma Stotram
% Category              : sahasranAma, shiva, stotra, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Ravi Chander r_ravi_c at hotmail.com
% Proofread by          : KS Ramachandran, Avinash Sathaye, Sivakumar Thyagarajan, DPD
% Description-comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 1 | 33-188 and assorted for pUrva-uttarapIThikA ||
% Indexextra            : extended (Scans 1, 2 shivarahasya, (thesis rudrayamala)
% Latest update         : December 23, 2007, March 7, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org