महागणपतिस्तोत्रं श्रीराघवचैतन्यविरचितम्
तच्छिष्यकृतया टिप्पण्या समेतम् ।
योगं योगविदां विधूतविविधव्यासङ्गशुद्धाशय-
प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् ।
आनन्दप्लवमानबोधमधुरामोदच्छटामेदुरं
तं भूमानमुपास्महे परिणतं दन्तावलस्यात्मना ॥ १॥
दन्तावलो गजस्तस्येवास्यं मुखं यस्य स गजाननस्तदात्मना तद्रूपेण
परिणतं तं भूमानं परं ब्रह्मोपास्महे । कीदृशं तम् । आनन्दो
ब्रह्मानन्दस्तेन प्लवमानः । लक्षणया पूर्णानन्दाभिन्न इत्यर्थः ।
ईदृशो यो बोधस्तेन चिदानन्दमयं स्वरूपमुक्तम् । तद्विवर्तरूपः
प्रपञ्च एव मधुरामोदच्छटात्वेन रूपितस्तेन मेदुरम् । पुनः कीदृशम् ।
योगविदां योगम् । कीदृशां योगविदाम् । विधूतो विविधो व्यासङ्गो यैरत
एव शुद्धो य आशयस्तस्मिन्प्रादुर्भूतः सुधारसः शान्तिसुखं येषां ते
च ते प्रसृमरं प्रसारि ध्यानं यस्मिन्नीदृशं यदास्पदं कंदरादि
तदध्यासिनश्च तेषाम् ॥
तारश्रीपरशक्तिकामवसुधारूपानुगां यं विदु-
स्तस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाभ्यर्थ्यते ।
आमन्त्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं
स्वामिन्मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥ २॥
महागणपतिमन्त्रमुद्धरति - तारः प्रणवः, श्रीर्लक्ष्मीबीजम्,
परशक्तिर्मायाबीजम्, कामः कामबीजम्, वसुधा भूमिबीजम्, इति पञ्चरूपाणां
बीजानामनु गमित्यक्षरमेतादृशं यं साधका विदुस्तस्मै गणाधिपतये
प्रणतिः स्तादिति योजना । यः सततं स्वाहास्वधादिभिः शक्तिभिः
पूजितः । आर्तेन रागिणा प्रथमं वरेति ततो वरदेत्यामन्त्र्याभ्यर्थ्यते ।
अभ्यर्थनामेवाह - सर्वं जनं स्वामिन्मे वशमानयेति । स्वाहादिभिरित्यनेन
स्वाहान्तो मन्त्रः । अत्राधिपदं सर्वमिति च पदं छन्दोनुरोधादुक्तम् ।
मन्त्रे तु गणपतये तथा सर्वजनमित्येकमेव पदम् । स्वामिन्निति च
मन्त्राद्बहिर्भूतम् ॥
कल्लोलाञ्चलचुम्बिताम्बुदतताविक्षुद्रवाम्भोनिधौ
द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि ।
मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरुहे
षट्कोणाकलितत्रिकोणरचनसत्कर्णिकेऽमुं भजे ॥ ३॥
कल्लोलानां महोर्मीणामञ्चलाः प्रान्तास्तैराश्लिष्टा मेघततिर्येनैतादृश
इक्षुरससमुद्रे सुरद्रुमाणां पारिजातादीनां वनं तदामोदेन परिपुष्टे ।
रत्नमयं द्वीपं वारिमध्यस्थलं तद्गतस्य कल्पतरोर्मूले महामणिमयं
पीठं तत्र षट्कोणयुक्तत्रिकोणकर्णीकायुक्तेऽक्षराम्भोरुहे तन्त्रप्रसिद्धे
मातृकाकमलेऽमुं महागणपतिं भजे ॥
चक्रप्रासरसालकार्मुकगदासद्बीजपूरद्विज-
व्रीह्यग्रोत्पलपाशपङ्कजकरं शुण्डाग्रजाग्रद्घटम् ।
आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद्भूषया
माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४॥
चक्रं प्रसिद्धम्, प्रासस्त्रिशूलः, रसालकार्मुकमिक्षुधनुः, गदा प्रसिद्धा,
बीजपूरो मातुलिङ्गम्, द्विजः स्वकीयो दन्तः, व्रीह्यग्रं शालिमञ्जरी,
उत्पलं प्रसिद्धम्, पाशपङ्कजे च प्रसिद्धे, एवं दशायुधानि करेषु
यस्य । शुण्डाग्रे पुष्करे जाग्रत्स्थितो घटो रत्नपूर्णो हेमकुम्भो यस्य ।
कमलहस्तया प्रियया दक्षिणहस्तेनालिङ्गितं माणिक्यप्रतिमं शोणच्छविं
सर्वेश्वरं महागणपतिमाशास्महे ॥
दानाम्भःपरिमेदुरप्रसृमरव्यालम्बिरोलम्बभृ-
त्सिन्दूरारुणगण्डमण्डलयुगव्याजात्प्रशस्तिद्वयम् ।
त्रैलोक्येष्टाविधानवर्णसुभगं यः पद्मरागोपमं
धत्ते स श्रियमातनोतु सततं देवो गणानां पतिः ॥ ५॥
दानाम्भसा मदाम्बुना परिमेदुरं व्याप्तं प्रसृमरान्व्यालम्बिनो
रोलम्बान्भ्रमरान्बिभर्तीति प्रसृमरव्यालम्बिरोलम्बभृत् ।
सिन्दूरेणारुणमेतादृशं कुम्भप्रदेशद्वयं तस्य
मिषात्त्रैलोक्येष्टविधान्वर्णसुभगं त्रिभुवनशुभविध्यक्षरमनोज्ञम् ।
पद्मरागोपमं पद्मरागो लोहितकस्तदुपमं प्रशस्तिद्वयं यो धत्ते स
गणानां पतिर्देवः सततं श्रियमातनोतु । यथा मृदम्बुलिप्ते दारुफलके
रक्तचूर्णं दत्त्वाक्षराणि, तथा दानाम्बुलिप्ते सिन्दूरवति कुम्भस्थले
भ्रमरा इत्युक्तं भवति ॥
भ्राम्यन्मन्दरघूर्णनापरवशक्षीराब्धिवीचिच्छटा-
सच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वंकृषाः ।
दिक्कान्ताघनसारचन्दनरसासाराः श्रयन्तां मनः
स्वच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः ॥ ६॥
हेरम्बदन्तत्विषो मनः श्रयन्ताम् । किंभूताः । भ्राम्यतो
मन्दरस्य घूर्णनावृत्तयस्तदायत्तस्य क्षीराब्धेर्वीचयो
लहर्यस्तासां छटा अग्रभागास्तैः सदृशाः । पुनः कीदृशाः ।
चलचामरव्यतिकरश्रीगर्वसर्वंककृषाः । व्यतिकरो
व्यतिषङ्गः । दिक्कान्तेत्यादिरूपकम् । घनसारः कर्पूरः । तथा
स्वच्छन्दप्रसरप्रलिप्तवियतोऽनल्पसंचाराकीर्णाकाशाः । एतेन त्विषां
बहुत्वं व्यज्यते ॥
मुक्ताजालकरम्बितप्रविकसन्माणिक्यपुञ्जच्छटा-
कान्ताः कम्बुकदम्बचुम्बितघनाभोगप्रवालोपमाः ।
ज्योत्स्नापूरतरङ्गमन्थरतरत्संध्यावयस्याश्चिरं
हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥ ७॥
मौक्तिकसमूहमिश्रितप्रदीप्तमाणिक्यसमूहच्छटावत्कान्ता मनोहराः ।
शङ्खसमूहसंगतविस्तीर्णविद्रुमसमाः । ज्योत्स्नापूरतरङ्गे मन्थरं
तरन्ती चासौ संध्या च तस्या वयस्याः साम्यात्सख्यः । एतादृशा हेरम्बस्य
दन्तकिरणैर्व्याप्ताः शरीरत्विषश्चिरं जयन्ति ॥
शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षर-
न्नानारत्नचयेन साधकजनान्संभावयन्कोटिशः ।
दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भव-
त्कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥ ८॥
शुण्डाप्रधृतसुवर्णकलशसंगृहीतेन क्षरता
बहुत्वाद्बहिरपि निर्गच्छता मुक्तामाणिक्यादिरत्नसमूहेन कोटिशः
साधकजनान्संभावयन्नसंख्यातानुपासकान्सम्पदा वर्धयन् ।
दानेत्यादि । आमोदो गन्धहर्षयोः । प्रोत्सारणमुच्चाटनं
तदर्थमाविर्भवत्कर्णान्दोलनक्रीडः । गणानामीश्वरो देवो विजयते ॥
हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया
बिभ्रत्याम्बुरुहे समं मधुरिपुस्ते शङ्खचक्रे वहन् ।
न्यग्रोधस्य तले सहाद्रिसुतया शंभुस्तया दक्षिणे
बिभ्राणः परशुं त्रिशूलमितया पाशाङ्कुशाभ्यां शुभम् ॥ ९॥
शाण्डिल्यमूले बिल्ववृक्षस्याधो यस्य महागणपतेः पुरतोऽग्रभागे पद्मे
बिभ्रत्या श्रिया समं ते प्रसिद्धे शङ्खचक्रे वहन्मधुरिपुर्विष्णुरस्ति ।
तथा यस्य दक्षिणे न्यग्रोधस्य तले वटवृक्षाधः पाशाङ्कुशाभ्यामितया
सहितयाद्रिसुतया पार्वत्या सह परशुं त्रिशूलं च बिभ्राणः शंभुः
शिवोऽस्ति ॥
पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले
बिभ्रत्या सममैक्षवं धनुरिषून्पौष्पान्वहन्पञ्च च ।
वामे चक्रगदाधरः स भगवान्क्रोडः प्रियंगोस्तले
हस्तोद्यच्छुकशालिमञ्जरिकया देव्या धरण्या सह ॥ १०॥
देवस्य पश्चिमे पिप्पलवृक्षस्याध उत्पले बिभ्रत्या रत्या सममैक्षवं
धनुः पञ्च पौष्पानिषूंश्च वहन् रतिपतिः कामदेवोऽस्ति । अस्य च वामे
प्रियंगुवृक्षाधो हस्तोद्यच्छुकशालिमञ्जरिकयैकस्मिन्करे कीरमन्यत्र
कलमकणिशं बिभ्रत्या धरण्या सह स प्रसिद्धो भगवान्क्रोडो वराहोऽस्ति
तं हेरम्बं प्रणमामीति पूर्वेणान्वयः ॥
षट्कोणाश्रिषु षट्सु षड् गजमुखाः पाशाङ्कुशाभीवरा-
न्बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्मपुञ्जत्विषः ।
आमोदः पुरतः प्रमोदसुमुखौ तं चाभितो दुर्मुखः
पश्चात्पार्श्वगतोऽस्य विघ्न इति यो विघ्नकर्तेति च ॥ ११॥
षट्कोणस्य पीठस्य षट्स्वश्रिषु पालीषु षड् गजमुखा ध्येयाः ।
कीदृशास्ते । पाशाङ्कुशाभयवरान्हस्तेषु बिभ्राणाः । प्रमदानां सखाय
इति प्रमदासखाः । भार्यासहिता इत्यर्थः । पृथुश्चासौ महाशोणाश्मनां
पद्मरागाणां पुञ्जस्तद्वत्त्विट् कान्तिर्येषां ते । यदि 'पृथुमहाः'
इति विसर्गान्तः पाठस्तदा भिन्नं पदम् । पृथुर्महो येषां ते ।
अकारान्तोऽपि महशब्दोऽस्ति । तेषां नामान्याह - पुरतोऽग्रकोण आमोदः ।
तं चामोदमभितः प्रमोदसुमुखौ । पुरः कल्पितपूर्वदिगपेक्षयाग्निकोणे
प्रमोदः, एवमीशानकोणे सुमुख इत्यर्थः । पश्चात्पश्चिमकोणे दुर्मुखः ।
अस्य दुर्मुखस्य विघ्न इति यस्य नाम स एकस्मिन्पार्श्वे विघ्नकर्तेति
यस्य नाम स द्वितीयपार्श्वेऽस्ति । अर्थादेको नैरृत्यकोणे, अपरो वायव्ये
वर्तते ॥
आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिताः
कान्ताश्लेषरसज्ञमन्थरदृशः सिद्धिः समृद्धिस्ततः ।
कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते
सान्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः ॥ १२॥
कान्तस्य स्वस्वभर्तुरालिङ्गनरसं जानन्त्यत एव मन्थरा रागिणी दृग्यासां
ताः । आमोदादीनां पूर्वश्लोकोक्तानां षण्णां भार्यास्तेषां समीपे स्थिता ध्येयाः ।
तासां नामानि च - सिद्धिः, समृद्धिः, कान्तिः, मदनावती, मदद्रवा,
द्राविणी चेति ॥
आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ
वर्षन्तौ वसु पार्श्वयोर्विलसतस्तौ शङ्खपद्मौ निधी ।
अङ्गान्यन्वथ मातरश्च परितः शक्रादयोऽब्जाश्रया-
स्तद्बाह्ये कुलिशादयः परिपतत्कालानलज्योतिषः ॥ १३॥
वसुधया वसुमत्या च क्रमेणालिङ्गितौ शुक्लरक्तवर्णौ धनं वर्षन्तौ
तौ शङ्खपद्मसंज्ञौ प्रसिद्धौ निधी षट्कोणपार्श्वयोर्विलसतः ।
तयोर्ध्यानं कुर्यादित्यर्थह । अनु निधिध्यानानन्तरं हृदयानि
षडङ्गानि ध्यायेत् । परितो ब्राह्म्याद्या अष्ट मातरो ध्येयाः ।
षट्कोणाद्बहिःस्थितेऽष्टदलकमल इन्द्रादयो दिक्पालास्तद्बाह्ये तेषां समीप
एव परिपतत्कालानलज्योतिषः प्रदीप्तस्वरूपा इन्द्रादीनां हेतयो वज्राद्या
ध्येयाः ॥
इथं विष्णुशिवादितत्त्वतनवे श्रीवक्रतुण्डाय हुं-
काराक्षिप्तसमस्तदैत्यपृतनाव्राताय दीप्तत्विषे ।
आनन्दैकरसावबोधलहरीविध्वस्तसर्वोर्मये
सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नमः ॥ १४॥
'हेरम्बं प्रणमामि' (९।१०) इति श्लोकाभ्यां
विष्णुशिवादिस्वरूपैस्तनुर्मूर्तिर्यस्य स तस्मै । आदिपदात्स्मरक्रोडौ ।
हुंकारमात्रेण निरस्तसमस्तासुरसैन्यसमूहाय दीप्तकान्तये । आनन्देति ।
निरतिशयसुखस्फुरणतरङ्गैर्दूरीकृतसम्पूर्णोर्मये । ऊर्मयः
षड्भावविकाराः । ते च - जायते, अस्ति, वर्धते, विपरिणमते,
अपक्षीयते, नश्यतीति च । आनन्दैकरसावयोधलहरीभिर्विध्वस्ताः
सर्वेषां साधकानामूर्मयः षडिन्द्रियजन्या वृत्तयो यस्मादित्येके ।
ऊर्मिशब्देनाविद्यादयो योगशास्त्रप्रसिद्धाः क्लेशाः । सर्वत्र प्रथमानं
मुग्धं सुन्दरं महो यस्य तस्मै परस्मै जगतोऽन्यस्मै नमः ॥
सेवाहेवाकिदेवासुरनरनिकरस्फारकोटीरकोटी-
कोटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम् ।
राजन्नीराजनश्रीसखचरणनखद्योतविद्योतमानः
श्रेयः स्थेयः स देयान्मम विमलदृशो बन्धुरं सिन्धुरास्यः ॥ १५॥
सेवायां हेवाकोऽभिलाषो येषाम् । अहमग्रेऽहमग्रे भवामीतीच्छा ।
अहंपूर्विकेति यावत् । ते च ते देवासुरनराणां समूहास्तेषां
देदीप्यमानमुकुटाग्राणां या कोटिः संख्याविशेषस्तत्र व्याटीकमानाः सुसंगताः
सूर्यतुल्यरत्नपङ्क्तिकान्तिप्रवाहास्तेषाम् । राजन्ती नीराजनश्रीरारात्रिकशोभा
तस्याः सखायस्ते च ते चरणनखाश्च तेषां द्योतेन प्रकाशेन
विद्योतमानः स प्रसिद्धः सिन्धुरास्यो गजमुखः । हे विमलदृशः
पण्डिताः । मम बन्धुरं रम्यं स्थेयः स्थिरतरं श्रेयः कल्याणं देयात् ।
ममेत्यस्य वा विमलदृश इति विशेषणम् । 'विमलदृशा' इति पाठे तु
सौम्यावलोकनेन श्रेयो दद्यादित्यर्थः ॥
एतेन प्रकटरहस्यमन्त्रमालागर्भेण स्फुटतरसंविदा स्तवेन ।
यः स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वशंवदा त्रिलोकी
॥ १६॥
स्फुटतरसंविदेत्यनेन स्तोत्रे प्रसादगुणः सूचितः । प्रचुरतरः
मुहुर्मुहुः । अन्यत्स्पष्टम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीराघवचैतन्यविरचितं
महागणपतिस्तोत्रं तच्छिष्यकृतया टिप्पण्या समेतं समाप्तम् ।
Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com