श्रीसुब्रह्मण्यकवचस्तोत्रम्
अस्य श्री सुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य ब्रह्म ऋषिः,
अनुष्टुप्छन्दः, श्री सुब्रह्मण्यो देवता । ॐ नम इति बीजम् ।
भगवत इति शक्तिः । सुब्रह्मण्यायेति कीलकम् ।
सुब्रह्मण्यप्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः ॥
सां अंगुष्ठाभ्यां नमः
सीं तर्जनीभ्यां नमः
सूं मध्यमाभ्यां नमः
सैं अनामिकाभ्यां नमः
सौं कनिष्ठिकाभ्यां नमः
सः करतलकरपृष्ठाभ्यां नमः ॥
अङ्ग न्यासः ॥
सां हृदयाय नमः
सीं शिरसे स्वाहा
सूं शिखायै वषट्
सैं कवचाय हुं
सौं नेत्रत्रयाय वौषट्
सः अस्त्राय फट्
भूर्भुवःसुवरोमिति दिग्बन्धः ॥
ध्यानम् ॥
सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिः
दिव्यैराभरणेर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् ।
अंभोजाभयशक्तिकुक्कुटधरं रक्तांगरागोज्वलं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥
सुब्रह्मण्योग्रतः पातु सेनानीः पातु पृष्ठतः ।
गुहो मां दक्षिणे पातु वह्निजं पातु वामतः ॥ १॥
शिरः पातु महासेनः स्कन्दो रक्षेल्ललाटकम् ।
नेत्रो मे द्वादशाक्षश्च श्रोत्रे रक्षतु विश्वभृत् ॥ २॥
मुखं मे षण्मुखः पातु नासिकां शङ्करात्मजः ।
ओष्ठौ वल्लीपतिः पातु जिह्वां पातु षडाननः ॥ ३॥
देवसेनापतिर्दन्तान् चुबुकं बहुलात्मजः । var बहूलोद्भवः
कण्ठं नारकजित् पातु बाहु द्वादशबाहुमान् ॥ ४॥
var तारकजित्पातु बाहुद्वादश बाहुकः
हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः ।
हृदयं वह्निभूः पातु कुक्षिं पात्वम्बिकासुतः ॥ ५॥
नाभिं शंभुसुतः पातु कटिं पातु हरात्मजः ।
ऊरु पातु गजारूढो जानू मे जाह्नवीसुतः ॥ ६॥
जङ्घे विशाखो मे पातु पादौ मे शिखिवाहनः ।
सर्वाण्यङ्गानिभूतेशः सर्वधातुंश्चपावकिः ॥ ७॥
var सर्वधातंश्च तावकिः
सन्ध्याकाले निशीथिन्यां दिवाप्रातर्जलेग्निषु ।
दुर्गमे च महारण्ये राजद्वारे महाभये ॥ ८॥
तुमुलेरण्यमध्ये च सर्वदुष्टमृगादिषु ।
चोरादिसाध्वसेभेद्ये ज्वरादिव्याधि पीडने ॥ ९॥
दुष्टग्रहादिभीतौ च दुर्निमित्तादि भीषणे ।
अस्त्रशस्त्रनिपाते च पातु मां क्रौञ्चरन्धकृत् ॥ १०॥
यः सुब्रह्मण्यकवचं इष्टसिद्धिप्रदं पठेत् ।
तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम् ॥ ११॥
धर्माथी लभते धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामार्थि लभते कामं मोक्षार्थीमोक्षमाप्नुयात् ॥ १२॥
यत्र यत्र जपेद्भक्त्या तत्र सन्निहितो गुहः ।
पूजाप्रतिष्ठाकाले च जपकाले पठेदिदम् ॥ १३॥
तेषामेवफलावाप्तिः महापातकनाशनम् ।
यः पठेच्छृणुयाद्भक्त्या नित्यंदेवस्य सन्निधौ ॥ १४॥
॥ इति कुमारतन्त्रे कौशिकप्रश्ने महा संहितायां
सुब्रह्मण्यकवचं समाप्तः ॥
Encoded and proofread by antaratma at Safe-mail.net
Corrected by Vinayak Nagaraj vinayak at econ.lse.ac.uk