श्रीसुब्रह्मण्य मानसपूजा
श्रीमन्मेरुधराधराधिप महासौभाग्यसंशोभिते
मन्दारद्रुमवाटिकापरिवृते श्रीस्कन्दशैलेमले
सौधे हाटकनिर्मिते मणिमये सन्मण्टपाभ्यन्तरे
ब्रह्मानन्दघनं गुहाख्यमनघं सिंहासनं चिन्तये ॥ १॥
मदनायुतलावण्यं नव्यारुणशतारुणं
नीलजीमूतचिकुरं अर्धेन्दु सदृशालिकं ॥ २॥
पुण्डरीकविशालाक्षं पूर्णचन्द्रनिभाननं
चाम्पेय विलसंनासं मन्दहासाञ्चितोरसम् ॥ ३॥
गण्डस्थलचलच्छोत्र कुण्डलं चारुकन्धरं
करासक्तकनः दण्डं रत्नहाराञ्चितोरसम् ॥ ४॥
कटीतटलसद्दिव्यवसनं पीवरोरुकं
सुरासुरादिकोटीर नीराजितपदाम्बुजम् ॥ ५॥
नानारत्न विभूषाढ्यं दिव्यचन्दनचर्चितं
सनकादि महायोगि सेवितं करुणानिधिम् ॥ ६॥
भक्तवाञ्चितदातारं देवसेनासमावृतं
तेजोमयं कार्तिकेयं भावये हृदयांभुजे ॥ ७॥
आवाहयामि विश्वेशं महासेनं महेश्वरं
तेजस्त्रयातमकंपीठं शरजन्मन् गृहाणभोः ॥ ८॥
अनवद्यं गृहाणेश पाद्यमद्यषडानन
पार्वतीनन्दनानर्घ्यं अर्पयाम्यर्घ्यमत्भुतम् ॥ ९॥
आचम्यतामग्निजात स्वर्णपात्रोद्यतैर्जलैः
पञ्चामृतरसैः दिव्यैः सुधासमविभावितैः ॥ १०॥
दधिक्षीराज्यमधुभिः पञ्चगव्यैः फलोदकैः
नानाफलरसैः दिव्यैः नाळिकेरफलोदकैः ॥ ११॥
दिव्यौषधिरसैः स्वर्णरत्नोदककुशोदकैः
हिमांबुचन्दनरसैः घनसारादिवासितैः ॥ १२॥
ब्रह्माण्डोदरमध्यस्थ तीर्थैः परमपावनैः
पवनं परमेशान त्वां तीर्थैः स्नापयाम्यहम् ॥ १३॥
सुधोर्मिक्षीरधवळं भस्मनोधूळ्यतावकं
सौवर्णवाससाकायां वेष्टयेभीष्टसिद्धये ॥ १४॥
यज्ञोपवीतं सुग़्यानदायिने तेर्पयेगुहं
किरीटहारकेयूर भूषणानि समर्पये ॥ १५॥
रोचनागरुकस्तूरी सिताभ्रमसृणान्वितं
गन्धसारं सुरभिलं सुरेशाभ्युपगम्यताम् ॥ १६॥
रचये तिलकं फाले गन्धं मृगमदेनते
अक्षय्यफलदानर्घान् अक्षतानर्पये प्रभो ॥ १७॥
कुमुदोत्पलकल्हारकमलैः शतपत्रकैः
जातीचम्पकपुन्नाग वकुळैः करवीरकैः ॥ १८॥
दूर्वाप्रवाळमालूर माचीमरुवपत्रकैः
अकीटादिहतैर्नव्यैः कोमळैस्तुळसीदळैः ॥ १९॥
पावनैश्चन्द्रकदळी कुसुमैर्नन्दिवर्धनैः
नवमालालिकाभिः मल्लिकातल्ल्जैरपि ॥ २०॥
कुरण्डैरपि शम्याकैः मन्दारैरतिसुन्दरैः
अगर्हितैश्च बर्हिष्ठः पाटीदैः पारिजातकैः ॥ २१॥
आमोदकुसुमैरन्यैः पूजयामि जगत्पतिं
धूपोऽयं गृह्यतां देव घानेन्द्रिय विमोहकम् ॥ २२॥
सर्वान्तरतमोहन्त्रे गुहते दीपमर्पये
सद्यसमाभृतं दिव्यं अमृतं तृप्तिहेतुकम् ॥ २३॥
शाल्यान्नमत्भुतं नव्यं गोघृतं सूपसंगतं
कदळीनाळिकेरामृधान्याद्युर्वारुकादिभिः ॥ २४॥
रचितैर्हरितैर्दिव्य खचरीभिः सुपर्पटैः
सर्वसंस्तारसम्पूर्णैः आज्यपक्वैरतिप्रियैः ॥ २५॥
रंभापनसकूश्माण्डापूपा निष्पकन्तकैः
विदारिका कारवेल्लपटोलीतगरोन्मुखैः ॥ २६॥
शाकैबहुविधैरन्यैः वटकैर्वटुसंस्कृतैः
ससूपसारनिर्गंय सरचीसुरसेनच ॥ २७॥
कूश्माण्डखण्डकलित तप्तक्ररसेनच
सुपक्वचित्रान्नशतैः लड्डुकेड्डुमकादिभिः ॥ २८॥
सुधाफलामृतस्यन्दिमण्डक क्षीरमण्डकैः
माषापूपगुळापूप गोधूमापूप शार्करैः ॥ २९॥
शशांककिरणोत्भासि पोळिका शष्कुळीमुखैः
भक्ष्यैरन्यैसुरुचिरैःपायसैश्चरसायनैः ॥ ३०॥
लेह्यरुच्चावचैः खण्डचर्कराफाणितादिभिः
गुळोदकैनाळिकेररसैरिक्षुरसैरपि ॥ ३१॥
कूर्चिकाभिरनेकाभिः मण्डिकाभिरुपस्कृतं
कदळीचूतपनसगोस्तनी फलराशिभिः ॥ ३२॥
नारंग शृंगगिबेरैल मरीचैर्लिकुचादिभिः
उपदंशैः शरःचन्द्र गौरगोदधिसंगतम् ॥ ३३॥
जंबीररसकैसर्या हिंगुसैन्धवनागरैः
लसताजलतक्रेणपानीयेन समाश्रितम् ॥ ३४॥
हेमपात्रेषु सरसं सांगर्येणचकल्पितं
नित्यतृप्त जगन्नाथ तारकारे सुरेश्वर ॥ ३५॥
नैवेद्यं गृह्यतां देव कृपया भक्तवत्सल
सर्वलोकैक वरद मृत्यो दुर्दैत्यरक्षसाम् ॥ ३६॥
गन्धोदकेन ते हस्तौ क्षाळयामि षडानन
एलालवङ्गकर्पूर जातीफलसुगन्धिलाम् ॥ ३७॥
वीटीं सेवय सर्वेश चेटीकृतजगत्रय
दत्तेर्नीराजयामित्वां कर्पूरप्रभयानय ॥ ३८॥
पुष्पाञ्जलिं प्रदास्यामि स्वर्णपुष्पाक्षतैर्युतं
चत्रेणचामरेणापि नृत्तगीतादिभिर्गुह ॥ ३९॥
राजोपचारैखिलैः सन्तुष्टोभवमत्प्रभो
प्रदक्षिणं करोमित्वां विश्वात्मकनमोऽस्तुते ॥ ४०॥
सहस्रकृत्वो रचये शिरसा तेभिवादनां
अपराधसहस्राणि सहस्व करुणाकर ॥ ४१॥
नमः सर्वान्तरस्थाय नमः कैवल्यहेतवे
श्रुतिशीर्षकगम्याय नमः शक्तिधरायते ॥ ४२॥
मयूरवाहनस्येदं मानसं च प्रपूजनं
यः करोति सकृद्वापि गुहस्तस्य प्रसीदति ॥ ४३॥
॥ इति श्रीसुब्रह्मण्यमानसपूजा समाप्ता ॥
Encoded and proofread by antaratma at Safe-mail.net