श्रीकृष्णस्तोत्रं ब्रह्मवैवर्तपुराणे ब्रह्मकृतम्
ब्रह्मोवाच
कृष्णं वन्दे गुणातीतं गोविन्दमेकमक्षरम्
अव्यक्तमव्ययं व्यक्तं गोपवेषविधायिनम् ॥ १॥
किशोरवयसं शान्तं गोपीकान्तं मनोहरम् ।
नवीननीरदश्यामं कोटिकन्दर्पसुन्दरम् ॥ २॥
वृन्दावनवनाभ्यर्णे रासमण्डलसंस्थितम् ।
रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् ॥ ३॥
इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे ।
नारायणेशौ संभाष्य स उवास तदाज्ञया ॥ ४॥
इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ।
पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् ॥ ५॥
भक्तिभर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी ।
अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् ॥ ६॥
इति ब्रह्मावैवर्ते ब्रह्माकृतं श्रीकृष्णस्तोत्रम् ।
brahmavaivartapurANa brahmakhaNDam adhyAya 3 shloka 35-40
Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com