सन्तानगोपालस्तोत्रम्

सन्तानगोपालस्तोत्रम्

श्रीगणेशाय नमः । अस्य श्रीसन्तानगोपालमन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप् छन्दः, श्रीकृष्णो देवता, ग्लौं बीजम्, नमः शक्तिः, पुत्रार्थे जपे विनियोगः । अङ्गन्यासः । देवकीसुत गोविन्द'' हृदयाय नमः । वासुदेव जगत्पते शिरसे स्वाहा । देहि मे तनयं कृष्ण'' शिखायै वषट् । त्वामहं शरणं गतः - ॐ नमः'' अस्त्राय फट् । ध्यानं - वैकुण्ठादागतं कृष्णं रथस्थं करुणानिधिम् । किरीटिसारथिं पुत्रमानयन्तं परात्परम् ॥ १॥ आदाय तं जलस्थं च गुरवे वैदिकाय च । अर्पयन्तं महाभागं ध्यायेत् पुत्रार्थमच्युतम् ॥ २॥ मूल मन्त्रं - ॐ श्रीं ह्रीं क्लीं ग्लौं देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ( २) सन्तानगोपालमन्त्रः विनियोगः - अस्य श्रीसन्तानगोपालमन्त्रस्य ब्रह्मा ऋषिर्गायत्रीच्छन्दः, श्रीकृष्णो देवता, क्लीं बीजम्, नमः शक्तिः पुत्रार्थे जपे विनियोगः । अङ्गन्यासः ग्लौं हृदयाय नमः । क्लीं शिरसे स्वाहा । ह्रीं शिखायै वषट् । श्रीं कवचाय हुम् । ॐ अस्त्राय फट् - इति दिग्बन्धः ध्यानं -- शङ्खचक्रगदापद्मं दधानं सूतिकागृहे । अङ्के शयानं देवक्याः कृष्णं वन्दे विमुक्तये ॥ मूलमन्त्रं -- ॐ नमो भगवते जगदात्मसूतये नमः'' । विनियोगः -- ॐ अस्य श्रीसन्तानगोपालमन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप् छन्दः, श्रीकृष्णो देवता, ग्लौं बीजम्, नमः शक्तिः।, पुत्रार्थे जपे विनियोगः । अङ्गन्यासः देवकीसुत गोविन्द हृदयाय नमः । वासुदेव जगत्पते'' शिरसे स्वाहा । ``देहि मे तनयं कृष्ण शिखायै वषट् । त्वामहं शरणं गतः'' कवचाय हुम् । ``देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ``अस्त्राय फट् । ध्यानं -- शङ्खचक्रगदापद्मं धारयन्तं जनार्दनम् । अङ्के शयानं देवक्याः सूतिकामन्दिरे शुभे ॥ एवं रूपं सदा कृष्णं सुतार्थं भावयेत् सुधीः ॥ सन्तानगोपाल मूल मन्त्रं -- ॐ श्रीं ह्रीं क्लीं ग्लौं देवकीसुत गोविन्द वासुदेव जगत्पते । ॐ देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ॐ नमो भगवते वासुदेवाय । अथ सन्तानगोपालस्तोत्रम् । श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् । सुतसम्प्राप्तये कृष्णं नमामि मधुसूदनम् ॥ १॥ नमाम्यहं वासुदेवं सुतसम्प्राप्तये हरिम् । यशोदाङ्कगतं बालं गोपालं नन्दनन्दनम् ॥ २॥ अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम् । नमाम्यहं वासुदेवं देवकीनन्दनं सदा ॥ ३। ॥ गोपालं डिम्भकं वन्दे कमलापतिमच्युतम् । पुत्रसम्प्राप्तये कृष्णं नमामि यदुपुङ्गवम् ॥ ४॥ पुत्रकामेष्टिफलदं कञ्जाक्षं कमलापतिम् । देवकीनन्दनं वन्दे सुतसम्प्राप्तये मम ॥ ५॥ पद्मापते पद्मनेत्र पद्मनाभ जनार्दन । देहि मे तनयं श्रीश वासुदेव जगत्पते ॥ ६॥ यशोदाङ्कगतं बालं गोविन्दं मुनिवन्दितम् । अस्माकं पुत्रलाभाय नमामि श्रीशमच्युतम् ॥ ७॥ श्रीपते देवदेवेश दीनार्तिहरणाच्युत । गोविन्द मे सुतं देहि नमामि त्वां जनार्दन ॥ ८॥ भक्तकामद गोविन्द भक्तं रक्ष शुभप्रदम् । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ९॥ रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा । भक्तमन्दार पद्माक्ष त्वामहं शरणं गतः ॥ १०॥ देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ११॥ वासुदेव जगद्वन्द्य श्रीपते पुरुषोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १२॥ कञ्जाक्ष कमलानाथ परकारुणिकोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १३॥ लक्ष्मीपते पद्मनाभ मुकुन्द मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १४॥ कार्यकारणरूपाय वासुदेवाय ते सदा । नमामि पुत्रलाभार्थं सुखदाय बुधाय ते ॥ १५॥ राजीवनेत्र श्रीराम रावणारे हरे कवे । तुभ्यं नमामि देवेश तनयं देहि मे हरे ॥ १६॥ अस्माकं पुत्रलाभाय भजामि त्वां जगत्पते । देहि मे तनयं कृष्ण वासुदेव रमापते ॥ १७॥ श्रीमानिनीमानचोर गोपीवस्त्रापहारक । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ १८। अस्माकं पुत्रसम्प्राप्तिं कुरुष्व यदुनन्दन । रमापते वासुदेव मुकुन्द मुनिवन्दित ॥ १९॥ वासुदेव सुतं देहि तनयं देहि माधव । पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो ॥ २०॥ डिम्भकं देहि श्रीकृष्ण आत्मजं देहि राघव । भक्तमन्दार मे देहि तनयं नन्दनन्दन ॥ २१॥ नन्दनं देहि मे कृष्ण वासुदेव जगत्पते । कमलानाथ गोविन्द मुकुन्द मुनिवन्दित ॥ २२॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे ॥ २३॥ यशोदास्तन्यपानज्ञं पिबन्तं यदुनन्दनम् । वन्देऽहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा ॥ २४॥ नन्दनन्दन देवेश नन्दनं देहि मे प्रभो । रमापते वासुदेव श्रियं पुत्रं जगत्पते ॥ २५॥ पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव । अस्माकं दीनवाक्यस्य अवधारय श्रीपते ॥ २६॥ गोपालडिम्भ गोविन्द वासुदेव रमापते । अस्माकं डिम्भकं देहि श्रियं देहि जगत्पते ॥ २७॥ मद्वाञ्छितफलं देहि देवकीनन्दनाच्युत । मम पुत्रार्थितं धन्यं कुरुष्व यदुनन्दन ॥ २८॥ याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसम्पदम् । भक्तचिन्तामणे राम कल्पवृक्ष महाप्रभो ॥ २९॥ आत्मजं नन्दनं पुत्रं कुमारं डिम्भकं सुतम् । अर्भकं तनयं देहि सदा मे रघुनन्दन ॥ ३०॥ वन्दे सन्तानगोपालं माधवं भक्तकामदम् । अस्माकं पुत्रसम्प्राप्त्यै सदा गोविन्दमच्युतम् ॥ ३१॥ ॐकारयुक्तं गोपालं श्रीयुक्तं यदुनन्दनम् । क्लींयुक्तं देवकीपुत्रं नमामि यदुनायकम् ॥ ३२॥ वासुदेव मुकुन्देश गोविन्द माधवाच्युत । देहि मे तनयं कृष्ण रमानाथ महाप्रभो ॥ ३३॥ राजीवनेत्र गोविन्द कपिलाक्ष हरे प्रभो । समस्तकाम्यवरद देहि मे तनयं सदा ॥ ३४॥ अब्जपद्मनिभं पद्मवृन्दरूप जगत्पते । देहि मे वरसत्पुत्रं रमानायक माधव ॥ ३५॥ नन्दपाल धरापाल गोविन्द यदुनन्दन । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ३६॥ दासमन्दार गोविन्द मुकुन्द माधवाच्युत । गोपाल पुण्डरीकाक्ष देहि मे तनयं श्रियम् ॥ ३७॥ यदुनायक पद्मेश नन्दगोपवधूसुत । देहि मे तनयं कृष्ण श्रीधरः प्राणनायक ॥ ३८॥ अस्माकं वाञ्छितं देहि देहि पुत्रं रमापते । भगवन् कृष्ण सर्वेश वासुदेव जगत्पते ॥ ३९॥ रमाहृदयसम्भार सत्यभामामनःप्रिय । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ४०॥ चन्द्रसूर्याक्ष गोविन्द पुण्डरीकाक्ष माधव । अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते ॥ ४१॥ कारुण्यरूप पद्माक्ष पद्मनाभसमर्चित । देहि मे तनयं कृष्ण देवकीनन्दनन्दन ॥ ४२॥ देवकीसुत श्रीनाथ वासुदेव जगत्पते । समस्तकामफलद देहि मे तनयं सदा ॥ ४३॥ भक्तमन्दार गम्भीर शङ्कराच्युत माधव । देहि मे तनयं गोपबालवत्सल श्रीपते ॥ ४४॥ श्रीपते वासुदेवेश देवकीप्रियनन्दन । भक्तमन्दार मे देहि तनयं जगतां प्रभो ॥ ४५॥ जगन्नाथ रमानाथ भूमिनाथ दयानिधे । वासुदेवेश सर्वेश देहि मे तनयं प्रभो ॥ ४६॥ श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४७॥ दासमन्दार गोविन्द भक्तचिन्तामणे प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४८॥ गोविन्द पुण्डरीकाक्ष रमानाथ महाप्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४९॥ श्रीनाथ कमलपत्राक्ष गोविन्द मधुसूदन । मत्पुत्रफलसिद्ध्यर्थं भजामि त्वां जनार्दन ॥ ५०॥ स्तन्यं पिबन्तं जननीमुखाम्बुजं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम् । स्पृशन्तमन्यस्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् ॥ ५१॥ याचेऽहं पुत्रसन्तानं भवन्तं पद्मलोचन । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ५२॥ अस्माकं पुत्रसम्पत्तेश्चिन्तयामि जगत्पते । शीघ्रं मे देहि दातव्यं भवता मुनिवन्दित ॥ ५३॥ वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम । कुरु मां पुत्रदत्तं च कृष्ण देवेन्द्रपूजित ॥ ५४॥ कुरु मां पुत्रदत्तं च यशोदाप्रियनन्दन । मह्यं च पुत्रसन्तानं दातव्यं भवता हरे ॥ ५५॥ वासुदेव जगन्नाथ गोविन्द देवकीसुत । देहि मे तनयं राम कौसल्याप्रियनन्दन ॥ ५६॥ पद्मपत्राक्ष गोविन्द विष्णो वामन माधव । देहि मे तनयं सीताप्राणनायक राघव ॥ ५७॥ कञ्जाक्ष कृष्ण देवेन्द्रमण्डित मुनिवन्दित । लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा ॥ ५८॥ देहि मे तनयं राम दशरथप्रियनन्दन । सीतानायक कञ्जाक्ष मुचुकुन्दवरप्रद ॥ ५९॥ विभीषणस्य या लङ्का प्रदत्ता भवता पुरा । अस्माकं तत्प्रकारेण तनयं देहि माधव ॥ ६०॥ भवदीयपदाम्भोजे चिन्तयामि निरन्तरम् । देहि मे तनयं सीताप्राणवल्लभ राघव ॥ ६१॥ राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद । देहि मे तनयं श्रीश कमलासनवन्दित ॥ ६२॥ राम राघव सीतेश लक्ष्मणानुज देहि मे । भाग्यवत्पुत्रसन्तानं दशरथात्मज श्रीपते ॥ ६३॥ देवकीगर्भसञ्जात यशोदाप्रियनन्दन । देहि मे तनयं राम कृष्ण गोपाल माधव ॥ ६४॥ कृष्ण माधव गोविन्द वामनाच्युत शङ्कर । देहि मे तनयं श्रीश गोपबालकनायक ॥ ६५॥ गोपबाल महाधन्य गोविन्दाच्युत माधव । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ ६६॥ दिशतु दिशतु पुत्रं देवकीनन्दनोऽयं दिशतु दिशतु शीघ्रं भाग्यवत्पुत्रलाभम् । दिशतु दिशतु श्रीशो राघवो रामचन्द्रो दिशतु दिशतु पुत्रं वंशविस्तारहेतोः ॥ ६७॥ दीयतां वासुदेवेन तनयो मत्प्रियः सुतः । कुमारो नन्दनः सीतानायकेन सदा मम ॥ ६८॥ राम राघव गोविन्द देवकीसुत माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥ ६९॥ राघव! गोविन्द! देवकीपुत्र! माधव! श्रीपते! (गोपबालकनायक श्रीकृष्ण! मुझे पुत्र दीजिये) ॥ ६९॥ वंशविस्तारकं पुत्रं देहि मे मधुसूदन । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७०॥ म्नार्दनाख्य विप्रस्य भगवद्दर्शनविषयक उत्कण्ठा । अमाभीष्टसुतं देहि कंसारे माधवाच्युत । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७१॥ चन्द्रार्ककल्पपर्यन्तं तनयं देहि माधव । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७२॥ विद्यावन्तं बुद्धिमन्तं श्रीमन्तं तनयं सदा । देहि मे तनयं कृष्ण देवकीनन्दन प्रभो ॥ ७३॥ नमामि त्वां पद्मनेत्र सुतलाभाय कामदम् । मुकुन्दं पुण्डरीकाक्षं गोविन्दं मधुसूदनम् ॥ ७४॥ भगवन् कृष्ण गोविन्द सर्वकामफलप्रद । देहि मे तनयं स्वामिंस्त्वामहं शरणं गतः ॥ ७५॥ स्वामिंस्त्वं भगवन् राम कृष्ण माधव कामद । देहि मे तनयं नित्यं त्वामहं शरणं गतः ॥ ७६॥ तनयं देहि गोविन्द कञ्जाक्ष कमलापते । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७७॥ पद्मापते पद्मनेत्र प्रद्युम्नजनक प्रभो । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७८॥ शङ्खचक्रगदाखड्गशार्ङ्गपाणे रमापते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ७९॥ नारायण रमानाथ राजीवपत्रलोचन । सुतं मे देहि देवेश पद्मपद्मानुवन्दित ॥ ८०॥ राम राघव गोविन्द देवकीवरनन्दन । रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित ॥ ८१॥ देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं श्रीश गोपबालकनायक ॥ ८२॥ मुनिवन्दित गोविन्द रुक्मिणीवल्लभ प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८३॥ गोपिकार्जितपङ्केजमकरन्दासक्तमानस । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८४॥ रमाहृदयपङ्केजलोल माधव कामद । ममाभीष्टसुतं देहि त्वामहं शरणं गतः ॥ ८५॥ वासुदेव रमानाथ दासानां मङ्गलप्रद । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८६॥ कल्याणप्रद गोविन्द मुरारे मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८७॥ पुत्रप्रद मुकुन्देश रुक्मिणीवल्लभ प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८८॥ पुण्डरीकाक्ष गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८९॥ दयानिधे वासुदेव मुकुन्द मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९०॥ पुत्रसम्पत्प्रदातारं गोविन्दं देवपूजितम् । वन्दामहे सदा कृष्णं पुत्रलाभप्रदायिनम् ॥ ९१॥ कारुण्यनिधये गोपीवल्लभाय मुरारये । नमस्ते पुत्रलाभार्थं देहि मे तनयं विभो ॥ ९२॥ नमस्तस्मै रमेशाय रुक्मिणीवल्लभाय ते । देहि मे तनयं श्रीश गोपबालकनायक ॥ ९३॥ नमस्ते वासुदेवाय नित्यश्रीकामुकाय च । पुत्रदाय च सर्पेन्द्रशायिने रङ्गशायिने ॥ ९४॥ रङ्गशायिन् रमानाथ मङ्गलप्रद माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥ ९५॥ दासस्य मे सुतं देहि दीनमन्दार राघव । सुतं देहि सुतं देहि पुत्रं देहि रमापते ॥ ९६॥ यशोदातनयाभीष्टपुत्रदानरतः सदा । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९७॥ मदिष्टदेव गोविन्द वासुदेव जनार्दन । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९८ नीतिमान् धनवान् पुत्रो विद्यावांश्च प्रजायते । भगवंस्त्वत्कृपायाश्च वासुदेवेन्द्रपूजित ॥ ९९॥ यः पठेत् पुत्रशतकं सोऽपि सत्पुत्रवान् भवेत् । श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च ॥ १००॥ जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम् । ऐश्वर्यं राजसम्मानं सद्यो याति न संशयः ॥ १०१॥ इति श्रीमहाभारते खिलभागे हरिवंशे श्रीलक्ष्मीकेशवसंवादे श्रीसन्तानगोपालस्तोत्रं सम्पूर्णम् । (This stotra is given at the end of the Purana, after the Harivamsha Maahaatmyam) Encoded by Anuradha Proofread by PSA Easwaran
% Text title            : Santanagopala stotram with Mantravidhi
% File name             : santaanagopaala.itx
% itxtitle              : santAnagopAlastotram (mahAbhArate khilabhAge harivaMshe)
% engtitle              : santAnagopAla stotra
% Category              : vishhnu, krishna, stotra, vishnu, shataka, harivaMsha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anuradha
% Proofread by          : Anuradha, PSA Easwaran
% Indexextra            : (Scan, Hindi, vidhi)
% Latest update         : January 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org