श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

श्रीगणेशाय नमः । ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषिः, अनुष्टुप्-छन्दः, श्रीकृष्णो देवता, श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः । श्रीशेष उवाच । ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः । वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १॥ श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः ॥ २॥ देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः । यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३॥ पूतनाजीवितहरः शकटासुरभञ्जनः । नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ ४॥ नवनीतनवाहारी मुचुकुन्दप्रसादकः । षोडशस्त्रीसहस्रेशस्त्रिभङ्गो मधुराकृतिः ॥ ५॥ शुकवागमृताब्धीन्दुर्गोविन्दो गोविदाम्पतिः । वत्सपालनसञ्चारी धेनुकासुरभञ्जनः ॥ ६॥ तृणीकृततृणावर्तो यमलार्जुनभञ्जनः । उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥ ७॥ गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः । इलापतिः परंज्योतिर्यादवेन्द्रो यदूद्वहः ॥ ८॥ वनमाली पीतवासाः पारिजातापहारकः । गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ॥ ९॥ अजो निरञ्जनः कामजनकः कञ्जलोचनः । मधुहा मथुरानाथो द्वारकानायको बली ॥ १०॥ वृन्दावनान्तसञ्चारी तुलसीदामभूषणः । स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ॥ ११॥ कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः । मुष्टिकासुरचाणूरमहायुद्धविशारदः ॥ १२॥ संसारवैरी कंसारिर्मुरारिर्नरकान्तकः । अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ १३॥ शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकृत् । विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ १४॥ सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी । सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ १५॥ जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः । वेणुनादविशारदः वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत् ॥ १६॥ var बाणासुरबलान्तकृत् ॥ युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः । पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ १७॥ कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः । दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ॥ १८॥ नारायणः परम्ब्रह्म पन्नगाशनवाहनः । जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥ १९॥ पुण्यश्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः । सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ॥ २०॥ इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् । कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २१॥ स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा । कृष्णनामामृतं नाम परमानन्ददायकम् ॥ २२॥ अनुपद्रवदुःखघ्नं परमायुष्यवर्धनम् दानं श्रुतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ २३॥ पठतां श‍ृण्वतां चैव कोटिकोटिगुणं भवेत् । पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥ २४॥ धनावहं दरिद्राणां जयेच्छूनां जयावहम् । शिशूनां गोकुलानां च पुष्टिदं पुष्टिवर्धनम् ॥ २५॥ वातग्रहज्वरादीनां शमनं शान्तिमुक्तिदम् । समस्तकामदं सद्यः कोटिजन्माघनाशनम् ॥ २६॥ अन्ते कृष्णस्मरणदं भवतापभयापहम् । कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने । नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ॥ २७॥ इमं मन्त्रं महादेवि जपन्नेव दिवानिशम् । सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ २८॥ पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् । निर्विश्य भोगानन्तेऽपि कृष्णसायुज्यमाप्युनात् ॥ २९॥ ॥ इति श्रीनारदपञ्चरात्रे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com, PSA Easwaran
% Text title            : kRiShNAShTottarashatanAmastotram
% File name             : krishna108a.itx
% itxtitle              : kRiShNAShTottarashatanAmastotram (nAradapancharAtrAntargatam)
% engtitle              : kRiShNAShTottarashatanAmastotram
% Category              : aShTottarashatanAma, vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : WebD
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : nAradapa.ncharAtra.  Also same from Brahmandapurana.
% Indexextra            : (meaning)
% Latest update         : October 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org