$1
श्रीनन्दकुमाराष्टकम्
$1

श्रीनन्दकुमाराष्टकम्

सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् । वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ १॥ सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् । वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ २॥ शोभितमुखधुलं यमुनाकूलं निपटअतूलं सुखदतरं मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् । वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ३॥ शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरं मायाकृतमनुजं हलधरअनुजं प्रतिहतदनुजं भारहरम् । वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ४॥ इन्दीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरं हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् । वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ५॥ अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् । वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ६॥ जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतरङ्गं रसिकवरं गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् । वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ७॥ वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् । वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ८॥ ॥ इति श्रीमहाप्रभुवल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकं सम्पूर्णम् ॥
$1
% Text title            : nandkumaaraashhTakam
% File name             : nandakumara8.itx
% itxtitle              : nandakumArAShTakam (vallabhAchAryavirachitam)
% engtitle              : Hymn to Krishna as Nandakumar
% Category              : aShTaka, vishhnu, krishna, vallabhaachaarya, vishnu, puShTimArgIya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : vallabhAchArya
% Language              : Sanskrit
% Subject               : kaavya/religion
% Transliterated by     : N
% Proofread by          : N
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : October 11, 2001, August 4, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org