$1
माङ्गल्यस्तवः
$1

माङ्गल्यस्तवः

This stotram consists of fifty verses and forms the 43rd chapter of Sri Vishnudharmottara samhita. This is structured in the form of the answer given by sage Pulastya in reply to a question by sage Dhalbya. The first two verses form Dhalbya's question and what follows form Pulastya's answer. Verses 3 and 4 state the benefits of thinking about the Lord and glory of this stotra. The next eight verses sing the glory of the Lord.They say that He is the creator of the universe: He gives liberation to His devotees and there is none to equal or excel Him. The next eight verses (No.13 to 20) praise the Lord who took the form of a boar. Verses No.21 to 28 are in praise of Lord Narasimha.Verses No.29 to 35 are in praise of Lord Vamana - in His dwarfish form and are followed by one verse each about Hayagriva, Parasurama, Rama and Krishna. Then follow a verse on the fom of the Lord to be meditated upon in the morning hours, a verse on His form for meditation during the noon, a verse for meditation in the afternoon and one verse for meditation at all times.These are followed by two verses that give the palasruti or benefit of reciting this stotra . The next two verses contain an assurance that by worshipping the Lord one can get all his wishes fulfilled. The next verse No.47 cites some instances from the puranas to substantiate the statement. The last three verses mention the greatness of this stotram. Great acharyas like Sri Parasara Bhattar and Sri Vedanta Desika had quoted from this stotram. This fact attests the greatness of the stotram and lends authrity to it. Devotees may, therefore include this stotram along with other verses in their daily prayer. दाल्भ्यः - कार्यारंभेषु सर्वेषु दुःस्वप्नेषु च सत्तम । अमाङ्गल्येषु दृष्टेषु यज्जप्तव्यं तदुच्यताम् ॥ १॥ येनारंभाश्च सिद्ध्यन्ति दुःस्वप्नश्चोपशाम्यति । अमङ्गलानां दृष्टानां परिहारश्च जायते ॥ २॥ श्री पुलस्त्यः:- जनार्दनं भूतपतिं जगद्गुरुं स्मरन् मनुष्यः सततं महामुने । दुष्टान्यशेषण्यपहन्ति साधयति अशेषकार्याणि च यान्यभीप्सति ॥ ३॥ श‍ृणुष्व चान्यत् गदतो ममाखिलं वदामि यत् ते द्विजवर्य! मङ्गलम् । सर्वार्थसिद्धिं प्रददाति यत् सदा निहन्त्य्शेषाणि च पातकानि ॥ ४॥ प्रतिष्टितं यत्र जगच्चराचरं जगत्त्रये यो जगतश्च हेतुः । जगच्च पात्यत्ति च यः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ५॥ व्योमाम्बुवाय्वग्निमहीस्वरूपैः विस्तारवान् योऽणुतरोऽणुभावात् । अस्थूलसूक्ष्मः सततं परेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ६॥ यस्मात् परस्मात् पुरुषादनन्तात् अनादिमध्यादधिकं न किंचित् । स हेतुहेतुः परमेश्वरेश्वरः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ७॥ हिरण्यगर्भाच्युतरुद्ररूपी सृजत्यशेषं परिपाति हन्ति । गुणाग्रणीर्यो भगवान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ८॥ परः सुराणां परमोऽसुराणां परो यतीनां परमो मुनीनाम् । परः समस्तस्य च यः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ९॥ ध्यातो मुनीनामपकल्मषैर्यो ददाति मुक्तिं परमेश्वरेश्वरः । मनोभिरामः पुरुषः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १०॥ सुरेन्द्रवैवस्वतवित्तपाम्बुपस्वरूपरूपी परिपाति यो जगत् । स शुद्धशुद्धः परमेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ११॥ यन्नामसङ्कीर्तनतो विमुच्यते ह्यनेकजन्मार्जितपापसञ्चयात् । पापेन्धनाग्निः स सदैव निर्मलो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १२॥ येनोद्धृतेयं धरणी रसातलात् अशेषसृष्टिस्थितिकारणादिकम् । बिभर्ति विश्वं जगतः स मूलं ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १३॥ पादेषु वेदा जठरे चराचरं रोमस्वशेषा मुनयो मुखे मखाः । यस्येश्वरेशस्य स सर्वदा प्रभुः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १४॥ समस्त यज्ञाङ्गमयं वपुः प्रभोः यस्याङ्गमीशेश्वरसंस्तुतस्य । वराहरूपी भगवान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १५॥ विक्षोभ्य सर्वोदधितोयसंभवं दधार धात्रीं जगतश्च यो भुवम् । यज्ञेश्वरो यज्ञपुमान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १६॥ पातालमूलेश्वरभोगिसंहतो विन्यस्य पादौ पृतिवीं च बिभ्रतः । यस्योपमानं न बभूव सोऽच्युतो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १७॥ सघर्घरं यस्य च बृंहितं मुहुः सनन्दनाद्यैर्जनलोकसंश्रितैः । श्रुतं जयेत्युक्तिपरैः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १८॥ एकार्णवाद् यस्य महीयसौ महीं आदाय वेगेन खमुत्पतिष्यतः । नतं वपुर्योगिवरैः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १९॥ हतो हिरण्याक्षमहासुरः पुरा पुराणपुंसा परमेण येन । वराहरूपः स पतिः प्रजापतिः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २०॥ दंष्ट्राकरालं सुरभीतिनाशकं कृतं वपुर्दिव्यनृसिंहरूपिणा । त्रातुं जगत् येन स सर्वदा प्रभुः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २१॥ दैत्येन्द्रवक्षःस्थलदारदारुणैः करेरुहैर्यः क्रकचानुकारिभिः । विच्छेद लोकस्य भयानि सोऽच्युतो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २२॥ दन्तान्तदीप्तद्युतिनिर्मलानि यः चकार सर्वाणि दिशां मुखानि । निनादवित्रासितदानवो ह्यसौ ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २३॥ यन्नामसंकीर्तनतो महाभयात् विमोक्षमाप्नोति न संशयं नरः । स सर्वलोकार्तिहरो नृकेसरी ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २४॥ सटाकरालभ्रमणानिलाहताः स्फुटन्ति यस्यांबुधराः समन्ततः । स दिव्यसिंहः स्फुरितानलेक्षणो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २५॥ यदीक्षणज्योतिषि रश्मिमण्डलं प्रलीनमीषन्न रराज भास्वतः । कुतः शशाङ्कस्य स दिव्यरूपधृक् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २६॥ अशेषदेवेशनरेश्वरेश्वरैः सदा स्तुतं यच्चरितं महाद्भुतम् । स सर्वलोकार्तिहरो महाहरिः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २७॥ द्रवन्ति दैत्याः प्रणमन्ति देवताः नश्यन्ति रक्षांसि अपयान्ति चारयः । यत्कीर्तनात् सोऽद्भुतरूपकेसरी ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २८॥ ऋक्पावितं यो यजुषा हि श्रीमत् सामध्वनिध्वस्तसमस्तपातकम् । चक्रे जगत् वामनकः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २९॥ यत्पादविन्यासपवित्रतां मही ययौ वियच्चर्ग्यजुषामुदीरणात् । स वामनो दिव्यशरीररूपदृङ् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३०॥ यस्मिन् प्रयातेऽसुरभूभृतोऽध्वरात् ननाम खेदादवनिः ससागरा । स वामनः सर्वजगन्मयः सदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३१॥ महाद्भुते दैत्यपतेर्महाध्वरे यस्मिन् प्रविष्टे क्षुभितं महासुरैः । स वामनोऽन्तस्थितसप्तलोकधृङ् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३२॥ संघैः सुराणां दिवि भूतलस्थितैः तथा मनुष्यैर्गगने च खेचरैः । स्तुतः क्रमाद् यः प्रच्चार सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३३॥ क्रान्त्वा धरित्रीं गगनं तथा दिवं मरुत्पतेर्यः प्रददौ त्रिविष्टपम् । स देवदेवो भुवनेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३४॥ अनुग्रहं चापि बलेरनुत्त्मं चकार यश्चेन्द्रपदोपमं क्षणात् । सुरांश्च यज्ञांशभुजः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३५॥ रसातलाद् येन पुरा समाहृताः समस्तवेदा जलचाररिरूपिणा । स कैटभारिमधुहाऽम्बुशायी ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३६॥ निःक्षत्रियं यश्च चकार मेदिनीं अनेकशो बाहुवनं तथाऽच्छिनत् । यः कार्तवीर्यस्य स भार्गवोत्तमो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३७॥ निहत्य यो वालिनमुग्रविक्रमं निबद्ध्य सेतुं जलधौ दशाननम् । जघान चान्यान् रजनीचरान् असौ ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३८॥ चिक्षेप बालः शकटं, बभञ्ज यो यमार्जुनं, कंसमरिं जघान च । ममर्द चाणूरमुखान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३९॥ प्रातः सहस्रांशुमरीचिनिर्मलं करेण बिभ्रत् भगवान् सुदर्शनम् । कौमोदकी चापि गदामनन्तो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ४०॥ हिमेन्दुकुन्दस्फटिकाभनिर्मलं मुखानिलापूरितमीश्वरेश्वरः । मध्याह्नकालेऽपि स शन्खमुद्वहन् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ४१॥ तथापराह्णे प्रविकासि पङ्कजं वक्षस्थलेन श्रियमुद्वहन् हरिः । विस्तारिपद्मायतपत्रलोचनो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ४२॥ सर्वेषु कालेषु समस्तदेशेषु अशेषकार्येषु तथेश्वरेश्वरः । सर्वैः स्वरूपैर्भगवान् अनादिमान् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ४३॥ एतत् पठन् दाल्भ्य समस्तपापैः विमुच्यते विष्णुपरो मनुष्यः । सिद्ध्यन्ति कार्याणि तथाऽस्य सर्वान् अर्थानवाप्नोति यथेच्छते तान् ॥ ४४॥ दुःस्वप्नः प्रशममुपैति पठ्यमाने स्तोत्रेऽस्मिन् श्रवणविधौ सदोद्यतस्य । प्रारम्भो द्रुतमुपयाति सिद्धिमीशः पापानि क्षपयति चास्य देवदेवः ॥ ४५॥ माङ्गल्यं परमपदं सदाऽर्थसिद्धिं निर्विघ्नामधिकफलां श्रियं ददाति । किं लोके तदिह परत्र चापि पुंसां यद्विष्णुप्रवणधियां न दाल्भ्य! साध्यम् ॥ ४६॥ देवेन्द्रस्त्रिभुवनमर्थमेकपिंगः संसिद्धिं त्रिभुवनगां च कार्तवीर्यः । वैदेहः परमपदं प्रसाद्य विष्णुं संप्राप्ताः सकलफलप्रदो हि विष्णुः ॥ ४७॥ सर्वारम्भेषु दाल्भ्यैतद् दुःस्वप्नेषु च पण्डितः । जपेदेकमना विष्णौ तथाऽमङ्गल्यदर्शने ॥ ४८॥ शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः । कर्मारम्भाश्च सिद्ध्यन्ति पुण्यमाप्नोति चोत्तमम् ॥ ४९॥ हरिर्ददाति भद्राणि मङ्गल्यस्तुतिसंस्तुतः । करोत्यखिलरूपैस्तु रक्षामक्षतशक्तिभृत् ॥ ५०॥ ॥ श्रीविष्णुधर्मोत्तरान्तर्गतः माङ्गल्यस्तवः संपूर्णः ॥ Encoded and proofread by N. Balasubramanian bbalu at satyam.net.in
$1
% Text title            : mAngalyastavaH
% File name             : mAngalyastava.itx
% itxtitle              : mANgalyastavaH
% engtitle              : mANgalyastavaH
% Category              : vishhnu, vishnu_misc, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Translated by         : N.Balasubramanian bbalu@satyam.net.in
% Description-comments  : viShNudharmottarAntargata
% Latest update         : November 27, 2004
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org