$1
श्रीहरिशरणाष्टकम्
$1

श्रीहरिशरणाष्टकम्

श्रीगणेशाय नमः ॥ (वसन्ततिलकावृत्तम् -) ध्येयं वदन्ति शिवमेव ही केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै । रूपैस्तु तैरपि विभासि यतस्त्वमेकस्- तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ १॥ नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा । संदृष्यते न किल कोऽपि सहायको मे तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ २॥ नोपासिता मदमपास्य मया महान्तस्- तीर्थानि चास्तिकधिया नहि सेवितानि । देवार्चनं च विधिवन्न कृतं कदापि तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ३॥ दुर्वासना मम सदा परिकर्षयन्ति चित्तं शरीरमपि रोगगणा दहन्ति । सञ्जीवनं च परहस्तगतं सदैव तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ४॥ पूर्वं कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि हृदयं परिकम्पते मे । ख्याता च ते पतितपावनता तु यस्मात् तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ५॥ दुःखं जराजननजं विविधाश्च रोगाः काकश्वसूकरजनिर्निरये च पातः । त्वद्विस्मॄतेः फलमिदं विततं हि लोके तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ६॥ नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम् । तं यच्छसीश निजलोकमिति व्रतं ते तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ७॥ वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदम्बके वा । सर्वत्र सर्वविधिना गदितस्त्वमेव तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ८॥ ॥ इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम् ॥
Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com, NA
$1
% Text title            : harisharaNAShTakam
% File name             : harisharaNAShTakam.itx
% itxtitle              : harisharaNAShTakam (brahmAnandavirachitam)
% engtitle              : harisharaNAShTakam
% Category              : aShTaka, vishhnu, hari, brahmAnanda, vishnu, vedanta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu
% Subcategory           : hari
% Author                : Swami Brahmananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Proofread by          : Dinesh Agarwal  dinesh.garghouse at gmail.com, NA
% Indexextra            : (Hindi)
% Latest update         : July 22, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org