श्रीसमस्तपापनाशन श्रीविष्णुस्तोत्र

श्रीसमस्तपापनाशन श्रीविष्णुस्तोत्र

पुष्कर उवाच परदारपरद्रव्यजीवहिंसादिके यदा । प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥ १॥ विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः । नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिम् ॥ २॥ चित्तस्थमीशमव्यक्तमनन्तमपराजितम् । विष्णुमीड्यमशेषेण अनादिनिधनं विभुम् ॥ ३॥ विष्णुश्चित्तगतो यन्मेविष्णुर्बुद्धिगतश्च यत् । यच्चाहङ्कारगो विष्णुर्यव्दिष्णुर्मयिसंस्थितः ॥ ४॥ करोति कर्मभूतोऽसौ स्थावरस्य चरस्य च । तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥ ५॥ ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् । तमुपेन्द्रमहं विष्णुं प्रणतार्त्तिहरं हरिम् ॥ ६॥ var प्रणतार्तिहरं जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः । हस्तावलम्बनं विष्णुं प्रणमामि परात्परम् ॥ ७॥ सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज । हृषीकेश हृषीकेश हृषीकेश नमोऽस्तुते ॥ ८॥ नृसिंहानन्त गोविन्द भूतभावन केशव । दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोऽस्तुते ॥ ९॥ यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्त्तिना । अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥ १०॥ ब्रह्मण्यदेव गोविन्द परमार्थपरायण । जगन्नाथ जगद्ध्यातः पापं प्रशमयाच्युत ॥ ११॥ यथापराह्ने सायाह्ने मध्याह्ने च तथा निशि । कायेन मनसा वाचा कृतं पापमजानता ॥ १२॥ जानता च हृषीकेश पुण्डरीकाक्ष माधव । नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयम् ॥ १३॥ var पापं यातु शरीरं मे हृषीकेश पुण्डरीकाक्ष माधव । पापं प्रशमयाद्यत्वं वाक्कृतं मम माधव ॥ १४॥ यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद् यदास्थितः । कृतवान् पापमद्याहं कायेन मनसागिरा ॥ १५॥ यत् स्वल्पमपि यत् स्थूलं कुयोनिनरकावहम् । तद्यातु प्रशमंसर्व वासुदेवानुकीर्तनात् ॥ १६॥ परं ब्रह्म परं धाम पवित्रं परमञ्च यत् । तस्मिन् प्रकीर्तिते विष्णौ यत् पापं तत् प्रणश्यतु ॥ १७॥ यत् प्राप्य न निवर्तन्ते गन्धस्पर्शादि वर्जितम् । सूरयस्तत् पदं विष्णोस्तत् सर्वं शमयत्वधम् ॥ १८॥ माहात्म्यं पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि । शारीरैर्मानसैर्वाग्जैः कृतैः पापैः प्रमुच्यते ॥ १९॥ सर्वपापग्रहादिभ्यो यातिविष्णोः परं पदम् । तस्मात्पापे कृते जप्यंस्तोत्रंसर्वाघमर्दनम् ॥ २०॥ प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरम् । प्रायश्चित्तैः स्तोत्रजपैर्व्रतैर्नश्यति पातकम् ॥ २१॥ ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥ २२॥ इत्याग्नेये महापुराणे सर्वपापप्रायश्चित्त पापनाशनस्तोत्रं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥ Agni Purana adhyAya 172 Proofread NA
% Text title            : samastapApanAshana viShNustotra puShkarikta agnipurANe
% File name             : samastapApanAshanaviShNustotrapuShkara.itx
% itxtitle              : viShNustotram samastapApanAshanam (puShkarokta agnipurANe)
% engtitle              : samastapApanAshana shrIviShNustotra
% Category              : vishhnu, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : Agni Purana adhyAya 172 1-22
% Indexextra            : (Scan)
% Latest update         : February 18, 2013
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org