ऊर्ध्वाम्नायोक्त सिद्ध वीरौघगुरुकवचम्
॥ गुरु ध्यानम् ॥
ध्यायेच्छिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् ।
श्वेताम्बरपरीधानं श्वेतमाल्यानुलेपनम् ॥ २॥
वराभयकरं शान्तं करुणामयविग्रहम् ।
वामेनोत्पलधारिण्या शक्त्यालिङ्गितविग्रहम् ॥
स्मेराननं सुप्रसन्नं साधकाभीष्टसिद्धिदम् ।
॥ कवचस्तोत्रम् ॥
परनाथादिनाथश्च ब्रह्मरन्ध्रे सहस्रके ।
दिव्यचक्रे च मे पातु सर्वविश्वेश्वरेश्वरः ॥ १॥
श्रीनाथः पातु शिरसि सिद्धिदले तु श्रीपतिः ।
वाग्देवी दुर्गनाथश्च दुर्गा दुर्गतिनाशिनी ॥ २॥
षोडशारे सदा पातु कण्ठदेशे स्वरे तथा ।
ईश्वरो भैरवीनाथो कालमीशानभैरवः ॥ ३॥
द्वादशारे च मे पातु वीरभद्रो कालान्तकृत् ।
दशारे नाभिदेशे च रुरुनाथश्च भैरवः ॥ ४॥
परात्परगुरुर्देवो चक्रनाथो सदाऽवतु ।
षड्दले कामनेत्रे च कामदेवो सदाऽवतु ॥ ५॥
मत्स्येन्द्रो मत्स्यनाथश्च रक्षतु चाण्डकोषके ।
गोरक्षश्च वेदपद्मे आधारे पातु मे सदा ॥ ६। var गोरक्षनाथः
चतुरारे भर्तृहरिः गुरुर्मे सर्वचक्रके ।
शीर्षादौ गुदपर्यन्तं पातु नाथो गुरुश्च मे ॥ ७॥
पादादिशीर्षपर्यन्तं विश्वनाथो विभुर्गुरुः ।
इष्टो इष्टपतिर्नाथो विश्वसृक् पातु मे सदा ॥ ८॥
॥ इति ऊर्ध्वाम्नायोक्त सिद्ध वीरौघगुरुकवचं सम्पूर्णम् ॥
Encoded and proofread by Puneet Joshi puneetrph at yahoo, NA