श्रीलक्ष्मीलहरी
श्रीगणेशाय नमः ।
समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचाम्-
अपाङ्गानां भङ्गैरमृतलहरीश्रेणिमसृणैः ।
ह्रिया हीनं दीनं भृशमुदरलीनं करुणया
हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १॥
समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः
करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि ।
यमासाद्योन्माद्यद्द्विपनियुतगण्डस्थलगलन्-
मदक्लिन्नद्वारो भवति सुखसारो नरपतिः ॥ २॥
उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनसः
पतन्ति स्वर्बालाः स्मरशरपराधीनमनसः ।
सुरास्तं गायन्ति स्फुरिततनुगङ्गाधरमुखास्-
तवायं दृक्पातो यदुपरि कृपातो विलसति ॥ ३॥
समीपे सङ्गीतस्वरमधुरभङ्गी मृगदृशां
विदूरे दानान्धद्विरदकलभोद्दामनिनदः ।
बहिर्द्वारे तेषां भवति हयहेषाकलकलो
दृगेषा ते येषामुपरि कमले देवि सदया ॥ ४॥
अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो
जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः ।
उदञ्चत्पीयूषाम्बुधिलहरिलीलामनुहरन्-
नपाङ्गस्तेऽमन्दं मम कलुषवृन्दं दलयतु ॥ ५॥
नमन्मौलिश्रेणित्रिपुरपरिपन्थिप्रतिलसत्-
कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकितः ।
लसत्फुल्लाम्भोजम्रदिमहरणः कोऽपि चरणश्-
चिरं चेतश्चारी मम भवतु वारीशदुहितुः ॥ ६॥
प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां
नियन्त्री बन्धूकद्युतिनिकरबन्धूकृतिपटुः ।
नृणामन्तर्ध्वान्तं निबिडमपहर्तुं तव किल
प्रभातश्रीरेषा चरणरुचिवेषा विजयते ॥ ७॥
प्रभातप्रोन्मीलत्कमलवनसञ्चारसमये
शिखाः किञ्जल्कानां विदधति रुजं यत्र मृदुलाः ।
तदेतन्मातस्ते चरणमरुणश्लाघ्यकरुणं
कठोरा मद्वाणी कथमियमिदानीं प्रविशतु ॥ ८॥
स्मितज्योत्स्नामज्जद्द्विजमणिमयूखामृतझरैर्-
निषिञ्चन्तीं विश्वं तव विमलमूर्तिं स्मरति यः ।
अमन्दं स्यन्दन्ते वदनकमलादत्य कृतिनो
विविक्तौ वै कल्पाः सततमविकल्पा नवगिरः ॥ ९॥
शरौ मायाबीजौ हिमकरकलाक्रान्तशिरसौ
विधायोर्ध्वं बिन्दुं स्फुरितमिति बीजं जलधिजे ।
जपेद्यः स्वच्छन्दं स हि पुनरमन्दं गजघटाम्-
अदभ्राम्यद्भृङ्गैर्मुखरयति वेश्मानि विदुषाम् ॥ १०॥
स्मरो नामं नामं त्रिजगदभिरामं तव पदं
प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु ।
यया पातं पातं पदकमलयोः पर्वतचरो
हरो हा रोषार्द्रामनुनयति शैलेन्द्रतनयाम् ॥ ११॥
हरन्तो निःशङ्कं हिमकरकलानां रुचिरतां
किरन्तः स्वच्छन्दं किरणमयपीयूषनिकरम् ।
विलुम्पन्तु प्रौढा हरिहृदयहाराः प्रियतमा
ममान्तःसन्तापं तव चरणशोणाम्बुजनखाः ॥ १२॥
मिषान्माणिक्यानां विगलितनिमेषं निमिषताम्-
अमन्दं सौन्दर्य तव चरणयोरम्बुधिसुते ।
पदालङ्काराणां जयति कलनिक्वाणनपटुर्-
उदञ्चन्नुद्दामः स्तुतिवचनलीलाकलकलः ॥ १३॥
मणिज्योत्स्नाजालैर्निजतनुरुचां मांसलतया
जटालं ते जङ्घायुगलमघभङ्गाय भवतु ।
भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचां
दृशां माला नीराजनमिव विधत्ते मुररिपोः ॥ १४॥
हरद्गर्वं सर्वं करिपतिकराणां मृदुतया
भृशं भाभिर्दम्भं कनकमयरम्भावनिरुहाम् ।
लसज्जानुज्योत्स्ना तरणिपरिणद्धं जलधिजे
तवोरुद्वन्द्वं नः श्लथयतु भवोरुज्वरभयम् ॥ १५॥
कलक्वाणां काञ्चीं मणिगणजटालामधिवहन्-
वसानः कौसुम्भं वसनमसनं कौस्तुभरुचाम् ।
मुनिव्रातैः प्रातः शुचिवचनजातैरतिनुतं
नितम्बस्ते बिम्बं हसति नवमम्बाम्बरमणेः ॥ १६॥
जगन्मिथ्याभूतं मम निगदतां वेदवचसाम्-
अभिप्रायो नाद्यावधि हृदयमध्याविशदयम् ।
इदानीं विश्वेषां जनकमुदरं ते विमृशतो
विसन्देहं चेतोऽजनि गरुडकेतोः प्रियतमे ॥ १७॥
अनल्पैर्वादीन्द्रैरगणितमहायुक्तिनिवहैर्-
निरस्ता विस्तारं क्वचिदकलयन्ती तनुमपि ।
असत्ख्यातिव्याख्याधिकचतुरिमाख्यातमहिमा
वलग्ने लग्नेयं सुगतमतसिद्धान्तसरणिः ॥ १८॥
निदानं शृङ्गांरप्रकरमकरन्दस्य कमले
महानेवालम्बो हरिनयनरोलम्बवरयोः ।
निधानं शोभानां निधनमनुतापस्य जगतो
जवेनाभीतिं मे दिशतु तव नाभीसरसिजम् ॥ १९॥
गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां
विगाढुं ते नाभीविमलसरसीं गौर्मम मनाक् ।
पदं यावन्नयस्यत्यहह विनिमग्नैव सहसा
नहि क्षेमं सूते गुरुमहिमभूतेष्वविनयः ॥ २०॥
कुचौ ते दुग्धाम्भोनिधिकुलशिखामण्डनमणे
हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम् ।
त्रिलोकीलावण्याहरणनवलीलानिपुणयोर्-
ययोर्दत्ते भूयः करमखिलनाथो मधुरिपुः ॥ २१॥
हरक्रोधत्रस्यन्मदननवदुर्गद्वयतुलां
दधत्कोकद्वन्द्वद्युतिदमनदीक्षाधिगुरुताम् ।
तवैतद्वक्षोजद्वितयमरविन्दाक्षमहिले
मम स्वान्तध्वान्तं किमपि च नितान्तं गमयतु ॥ २२॥
अनेकब्रह्माण्डस्थितिनियमलीलाविलसिते
दयापीयूषाम्भोनिधिसहजसंवासभवने ।
विधोश्चित्तायामे हृदयकमले ते तु कमले
मनाङ्ग मन्निस्तारस्मृतिरपि च कोणे निवसतु ॥ २३॥
मृणालीनां लीलाः सहजलवणिम्ना लघयतां
चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु कः ।
लुठन्ति स्वच्छन्दं मरकतशिलामांसलरुचः
श्रुतीनां स्पर्धां ये दधत इव कण्ठे मधुरिपोः ॥ २४॥
अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता
तथापि त्वद्धस्ते निवसदरविन्दं विकसितम् ।
कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ
गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ॥ २५॥
अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुलां
रसज्ञामज्ञानां क इव कमले मंथरयतु ।
त्रपन्तु श्रीभिक्षावितरणवशीभूतजगतां
कराणां सौभाग्यं तव तुलयितुं तुङ्गरसनाः ॥ २६॥
समाहारः श्रीणां विरचितविहारो हरिदृशां
परीहारो भक्तप्रभवभवसन्तापसरणेः ।
प्रहारः सर्वासामपि च विपदां विष्णुदयिते
ममोद्धारोपायं तव सपदि हारो विमृशतु ॥ २७॥
अलङ्कुर्वाणानां मणिगणघृणीनां लवणिमा
यदीयाभिर्भाभिर्भजति महिमानं लघुरपि ।
सुपर्वश्रेणीनां जनितपरसौभाग्यविभवास्-
तवाङ्गुल्यस्ता मे ददतु हरिवामेऽभिलषितम् ॥ २८॥
तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं
तव ग्रीवालक्ष्मीलवपरिचयादाप्तविभवम् ।
हरिः कम्बुं चुम्बत्यथ वहति पाणौ किमधिकं
वदामस्तत्रायं प्रणयवशतोऽस्यै स्पृहयति ॥ २९॥
अभूदप्रत्यूहः सकलहरिदुल्लासनविधिर्-
विलीनो लोकानां स हि नयनतापोऽपि कमले ।
तवास्मिन्पीयूषं किरति वदने रम्यवदने
कुतो हेतोश्चेतोविधुरयमुदेति स्म जलधेः ॥ ३०॥
मुखाम्भोजे मन्दस्मितमधुरकान्त्या विकसतां
द्विजानां ते हीरावलिविहितनीराजनरुचाम् ।
इयं ज्योत्स्ना कापि स्रवदमृतसंदोहसरसा
ममोद्यद्दारिद्र्यज्वरतरुणतापं तिरयतु ॥ ३१॥
कुलैः कस्तूरीणां भृशमनिशमाशास्यमपि
च प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् ।
वहन्तः सौरभ्यं मृदुगतिविलासा मम शिवं
तव श्वासा नासापुटविहितवासा विदधताम् ॥ ३२॥
कपोले ते दोलायितललितलोलालकवृते
विमुक्ता धम्मिल्लादभिलसति मुक्तावलिरियम् ।
स्वकीयानां बन्दीकृतमसहमानैरिव बलान्-
निबध्योर्ध्वं कृष्टा तिमिरनिकुरम्बैर्विधुकला ॥ ३३॥
प्रसादो यस्यायं नमदमितगीर्वाणमुकुट-
प्रसर्पज्जोत्स्नाभिश्चरणतलपीठार्चितविधिः ।
दृगम्भोजं तत्ते गतिहसितमत्तेभगमने
वने लीनैर्दीनैः कथय कथमीयादिह तुलाम् ॥ ३४॥
दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा
दयार्द्रा दीनानामुपरि दलदिन्दीवरनिभा ।
दहन्ती दारिद्र्यद्रुमकुलमुदारद्रविणदा
त्वदीया दृष्टिर्मे जननि दुरदृष्टं दलयतु ॥ ३५॥
तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी
सदैव श्रीनारायणगुणगणौघप्रणयिनी ।
रवैर्दीनां लीनामनिशमवधानातिशयिनी
ममाप्येतां वाचं जलधितनये गोचरयताम् ॥ ३६॥
प्रभाजालैः प्राभातिकदिनकराभापनयनं
तवेदं खेदं मे विघटयतु ताटङ्कयुगलम् ।
महिम्ना यस्यायं प्रलयसमयेऽपि क्रतुभुजां
जगत्पायं पायं स्वपिति निरपायं तव पतिः ॥ ३७॥
निवासो मुक्तानां निबिडतरनीलाम्बुदनिभस्-
तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् ।
भृशं यस्मिन्कालागरुबहुलसौरभ्यनिवहैः
पतन्ति श्रीभिक्षार्थिन इव मदान्धा मधुलिहः ॥ ३८॥
विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ
करोन्नीतैरञ्चन्मणिकलशमुग्धास्यगलितैः ।
निषिञ्चन्तौ मुक्तामणिगणजयैस्त्वां जलकणैर्-
नमस्यामो दामोदरगृहिणी दारिद्र्यदलिताः ॥ ३९॥
अये मातर्लक्ष्मि त्वदरुणपदाम्भोजनिकटे
लुठन्तं बालं मामविरलगलद्बाष्पजटिलम् ।
सुधासेकस्निग्धैरतिमसृणमुग्धैः करतलैः
स्पृशन्ती मा रोदीरिति वद समाश्वास्यसि कदा ॥ ४०॥
रमे पद्मे लक्ष्मि प्रणतजनकल्पद्रुमलते
सुधाम्भोधेः पुत्रि त्रिदशनिकरोपास्तचरणे ।
परे नित्यं मातर्गुणमयि परब्रह्ममहिले
जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥ ४१॥
॥ इति पण्डितराजश्रीजगन्नाथविरचिता लक्ष्मीलहरी समाप्ता ॥
Proofread by Ravin Bhalekar ravibhalekar@hotmail.com