श्रीलक्ष्मीस्तोत्रं इन्द्ररचितम्

श्रीलक्ष्मीस्तोत्रं इन्द्ररचितम्

श्रीसम्पदालक्ष्मीस्तोत्रम् (ब्रह्मवैवर्त्ते इन्द्रप्रोक्तं देवीभागवते च पुरन्दरप्रोक्तम्) श्रीगणेशाय नमः । ध्यानम् - सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् । शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम् ॥ १॥ स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् । प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम् ॥ २॥ रत्नभूषणभूषाढ्यां शोभितां पीतवाससा । ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् । सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ॥ ३॥ इन्द्र उवाच - ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ १॥ पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ २॥ सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः । सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ ३॥ हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः । कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ ४॥ कृष्णशोभास्वरूपायै रत्नपद्मे च शोभने । सम्पत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ ५॥ शन्याधिष्ठादेव्यै च शस्यायै च नमो नमः । नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ ६॥ वैकुण्ठे या महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे । स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नपालये ॥ ७॥ गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता । सुरभि सा गवां माता दक्षिणा यज्ञकामनी ॥ ८॥ अदितिर्देवमाता त्वं कमला कमलालये । स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ ९॥ त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा । शुद्धसत्वस्वरूपा त्वं नारायणपरायाणा ॥ १०॥ क्रोधहिंसावर्जिता च वरदा च शुभानना । परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ ११॥ यया विना जगत् सर्वे भस्मीभूतमसारकम् । जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ १२॥ सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी । यया विना न सम्भाप्यो बाध्ववैर्बान्धवः सदा ॥ १३॥ त्वया हीनो बन्धुहीनस्वत्वया युक्तः सबान्धवः । धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ १४॥ यथा माता स्तनान्धानां शिशूनां शैशवे सदा । तथा त्वं सर्वदा माता सर्वेषां सर्वरूपताः ॥ १५॥ मातृहीन स्ननान्धस्तु स चेज्जीवति दैवतः । त्वया हीनो जनःकोऽपि न जीवत्येव निश्चितम् ॥ १६॥ सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके । वैरिग्रस्तं च विषयं देहि मह्मं सनातनि ॥ १७॥ वयं यावत् त्वया हीना बन्धुहीनश्च भिक्षुकाः । सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये ॥ १८॥ राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि । कीर्ति देहि धनं देहि यशो मह्मं च देहि वै ॥ १९॥ कामं देहि मतिं देहि भोगान देहि हरिप्रिये । ज्ञानं देहि च धर्मे च सर्वसौभाग्यमीप्सितम् ॥ २०॥ प्रभावां च प्रतापं च सर्वाधिकारमेव च । जयं पराक्रमं युद्धे परमैश्वर्यमैव च ॥ २१॥ इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह । प्रणमाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ॥ २२॥ ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः । सर्वेचक्रुः परिहारं सुरार्थे च पुनः पुनः ॥ २३॥ देवेभ्यश्च वरं दत्वा पुष्पमालां मनोहराम् । केशवाय ददा लक्ष्मीः सन्तुष्टा सुरसंसदि ॥ २४॥ ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानञ्च नारद । देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ॥ २५॥ (हरेः क्रोडं) ययतुश्चैय स्वगृहं ब्रह्मेशानौ च नारद । दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥ २६॥ इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः । (च पठेन्नरः) कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् ॥ २७॥ सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरूर्नरः । पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ २८॥ सिद्धस्तोत्रं यदि पठेन्मासमेकं च संयतः । महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ २९॥ इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे लक्ष्मीपूजनविधाननामैकोनचत्वारिंशत्तमोऽध्याये लक्ष्मीउपाख्याने इन्द्रकृतं लक्ष्मीस्तोत्रं सम्पूर्णम् । २(प्रकृति खण्ड).३९.५२-७२ देवीभागवतपुराणे नवमस्कन्धे अध्याय ४२ The Brahmavaivarta 2(Prakriti Khanda).39.52-72 and Devibhagavata versions differ quite a bit. Proofread by Ravin Bhalekar ravibhalekar@hotmail.com, Tanvir Chowdhury
% Text title            : indra rachita lakShmIstotram
% File name             : indralaxmistotra.itx
% itxtitle              : lakShmIstotram sampadAlakShmIstotram cha (indrarachitam purandarakRitam devIbhAgavatapurANAntargatam)
% engtitle              : indra rachita lakShmIstotram
% Category              : devii, lakShmI, stotra, vyAsa, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Texttype              : stotra
% Author                : Indra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com.com, Tanvir Chowdhury
% Description-comments  : DevibhagavatapurAna (9.42.8-11, 51-75), Brahmavaivarta 2(Prakriti Khanda).39.52-72
% Indexextra            : (Text, Scans 1, 2 Hindi, 3, 4, 5 English, 6 Hindi)
% Latest update         : December 21, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org