विद्यादानवाक्सरस्वतीहृदयस्तोत्रम्

विद्यादानवाक्सरस्वतीहृदयस्तोत्रम्

ॐ अस्य श्री वाग्वादिनी शारदामन्त्रस्य मार्कण्डेयाश्वलायनौ ऋषी, स्रग्धरा अनुष्टुभौ छन्दसी, श्रीसरस्वती देवता । श्रीसरस्वतीप्रसादसिद्ध्यर्थे विनियोगः ॥ ध्यानम् ॥ शुक्लां ब्रह्मविचारसारपरमां आद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेष्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ १॥ ब्रह्मोवाच । ह्रीं ह्रीं हृद्यैकविद्ये शशिरुचिकमलाकल्पविस्पष्टशोभे भव्ये भव्यानुकूले कुमतिवनदहे विश्ववन्द्याङ्घ्रिपद्मे । पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयित्रि प्रोत्प्लुष्टा ज्ञानकूटे हरिनिजदयिते देवि संसारसारे ॥ २॥ ऐं ऐं ऐं इष्टमन्त्रे कमलभवमुखाम्भोजरूपे स्वरूपे रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे । न स्थूले नैव सूक्ष्मेऽप्यविदितविषये नापि विज्ञानतत्त्वे विश्वे विश्वान्तराळे सुरवरनमिते निष्कळे नित्यशुद्धे ॥ ३॥ ह्रीं ह्रीं ह्रीं जापतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् । विद्ये वेदान्तगीते श्रुतिपरिपठिते मोक्षदे मुक्तिमार्गे मार्गातीतप्रभावे भव मम वरदा शारदे शुभ्रहारे ॥ ४॥ ध्रीं ध्रीं ध्रीं धारणाख्ये धृतिमतिनुतिभिः नामभिः कीर्तनीये नित्ये नित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे । पुण्ये पुण्यप्रभावे हरिहरनमिते वर्णशुद्धे सुवर्णे मन्त्रे मन्त्रार्थतत्त्वे मतिमतिमतिदे माधवप्रीतिनादे ॥ ५॥ ह्रीं क्षीं धीं ह्रीं स्वरूपे दह दह रुदितं पुस्तकव्यग्रहस्ते सन्तुष्टाचारचित्ते स्मितमुखि सुभगे जंभनिस्तंभविद्ये । मोहे मुग्द्धप्रबोधे मम कुरु सुमतिं ध्वान्तविध्वंसनित्ये गीर्वाग् गौर्भारती त्वं कविवररसनासिद्धिदा सिद्धिसाद्ध्या ॥ ६॥ सौं सौं सौं शक्तिबीजे कमलभवमुखांभोजभूतस्वरूपे रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे । न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे जाप्यविज्ञानतत्त्वे विश्वे विश्वान्तराळे सुरगणनमिते निष्कळे नित्यशुद्धे ॥ ७॥ स्तौमि त्वां त्वां च वन्दे भज मम रसनां मा कदाचित् त्यजेथा मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे जातु पापम् । मा मे दुःखं कदाचिद्विपदि च समयेऽप्यस्तु मेऽनाकुलत्वम् शास्त्रे वादे कवित्वे प्रसरतु मम धिः माऽस्तु कुण्ठा कदाचित् ॥ ८॥ इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रः देवीं वाचस्पतेरप्यतिमतिविभवो वाक्पटुर्नष्टपङ्कः । सः स्यादिष्टार्थलाभः सुतमिव सततं पाति तं सा च देवि सौभाग्यं तस्य लोके प्रभवति कविताविघ्नमस्तं प्रयाति ॥ ९॥ ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः । सारस्वतो नरः पाठात् स स्यादिष्टार्थलाभवान् ॥ १०॥ पक्षद्वयेऽपि यो भक्त्या त्रयोदश्येकविंशतिम् । अविच्छेदं पठेद्धीमान् ध्यात्वा देवीं सरस्वतीम् ॥ ११॥ शुक्लाम्बरधरां देवीं शुक्लाभरणभूषिताम् । वाञ्छितं फलमाप्नोति स लोके नात्र संशयः ॥ १२॥ इति ब्रह्मा स्वयं प्राह सरस्वत्याः स्तवं शुभम् । प्रयत्नेन पठेन्नित्यं सोऽमृतत्वं प्रयच्छति ॥ १३॥ इति श्रीब्रह्माण्डपुराणे नारदनन्दिकेश्वरसंवादे ब्रह्मप्रोक्ते विद्यादानवाक्सरस्वतीहृदयस्तोत्रं सम्पूर्णम् ॥ एवं रुद्रयामले तन्त्रे दशविद्यारहस्ये सरस्वतीस्तोत्रम् । Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : vidyAdAnavAksarasvatIhRidayastotra
% File name             : vidyAdAnavAksarasvatIhRidayastotra.itx
% itxtitle              : vidyAdAnavAksarasvatIhRidayastotram mahAsarasvatIstotram
% engtitle              : vidyAdAnavAksarasvatIhRidayastotram
% Category              : hRidaya, devii, sarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran psaeaswaran at gmail.com
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Latest update         : February 2, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org