श्रीशारदा परमेश्वरी सुप्रभातम्
ॐ श्रीशारदे जगन्मातः पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ करुणापाङ्गैः कर्तव्यं विश्वमङ्गलम् ॥
श्रीशृङ्गाद्रिपुरी रत्नसिंहासननिवासिनी ।
उत्तिष्ठ शारदाम्ब श्री शङ्कराचार्य सन्नुते ॥
उत्तिष्ठोत्तिष्ठ भगवत्पादशङ्करमूर्तिभिः ।
जगद्गुरुभिराराध्ये जगज्जननि शारदे ॥
ब्रह्मर्षयोऽम्ब सनकादय एत्य भक्त्या
ब्राह्मीमनन्य मनसो हृदि ब्रह्मविद्याम् ।
त्वामामनन्त्युपनिषत्सरसीज हंसीम्
श्रीशारदाम्ब वरदे तव सुप्रभातम् ॥
फुल्लानि पङ्कजवनानि सतां मनाम्सि
धीवृत्तयश्च सरितश्च दिशः प्रसान्नाः ।
अज्ञानमाशु तिमिरं च विलीयतेऽम्ब
श्री शारदे विजयते तव सुप्रभातम् ॥
हंसः प्रयात्युदयमम्बुज काननेषु
हंसाः प्रसन्नमनसो मुदिता रमन्ते ।
हंसात्मना परमहंसकुलं मुदास्ते
श्री शारदे विजयते तव सुप्रभातम् ॥
श्रद्धाघनाश्शमदमादियुता विनेयाः
शुद्धाशया विदलिताखिलकर्मबन्धाः ।
आज्ञाविमुक्ति पदभाज इमे ब्रुवन्ति
श्री शारदाम्ब विमलं तव सुप्रभातम् ॥
गीर्वाणवृन्दमखिलं पुरतो विधाय
गीर्वाणवन्द्यमुपयात्युचितोपहारैः ।
शर्वादिसन्नुतपदामिह सेवितुं त्वाम्
श्री शारदाम्ब शिवदं तव सुप्रभातम् ॥
सर्वार्तिहारिणि समस्त सुखप्रदात्रि
दुर्वादिगर्वशमयित्रि जगज्जनित्रि ।
निर्वाणदात्रि निगमान्त विबोधयित्रि
श्री शारदे शिवस्वरूपिणि सुप्रभातम् ॥
सद्वेदशास्त्र निगमान्त रहस्य विज्ञाः
प्राज्ञास्त्वदङ्घ्रि सरसीज परागगन्धम् ।
आघ्राय दिव्यमभवन्निखिलाः कृतार्थाः
श्री शारदे सुमनसस्तव सुप्रभातम् ॥
मुक्तिस्थिता करतले हृदये प्रमोदः
जिह्वाग्रगाश्च सहसैव समस्तविद्याः ।
त्वद्दर्शनं भवति यस्य हि तस्य पुंसः
श्री शारदाम्ब शुभदं तव सुप्रभातम् ॥
त्वत्संस्मृतेऽरपि नरं विजहात्यलक्ष्मीः
लक्ष्मीः समाश्रयति नूनमचञ्चलाम्ब ।
श्रद्धावतां त्वयि विमुक्तिरयत्नसिद्धा
श्री शारदे जगदधीश्वरि सुप्रभातम् ॥
ब्रह्मात्मभावमधिगम्य हृदा सदात्मा
रामा अपि त्वदमलाङ्घ्रि सरोजरेणून् ।
वाञ्छत्यमी परमहंसकुलावतंसाः
शी शारदाम्ब हृदये तव सुप्रभातम् ॥
तुङ्गासरिद्विमलवारि तरङ्गरङ्ग
रिङ्गत्सरोजवनदिव्य सुगन्धवाहः ।
अङ्गीकुरुष्व पवनः प्रकरोति सेवाम्
श्री शारदाम्ब कृपया तव सुप्रभातम् ॥
प्राक् सिन्धु पाथसि त्रयीतनुरेषभक्त्या
स्नातस्तथोदय गिरावुदितस्तपस्वी ।
त्वत्पादपद्मभजनाय सहस्रभानुः
श्री शारदाम्ब समुदेति च सुप्रभातम् ॥
ब्रह्माच्युतत्रिनयना विनयेन भक्त्या
सिंहासने स्थितवतीं प्रणवस्वरूपाम् ।
वाचा हृदा च वपुषा च समाश्रयन्ति
श्री शारदाम्ब परमेश्वरि सुप्रभातम् ॥
इन्द्रानलादय इमे दिगधीश्वराश्च
सूर्येन्दुभौमबुधगीष्पति शुक्रमुख्याः ।
सर्वे ग्रहाश्च भयभक्तियुता नमन्ति
श्री शारदे तव महेश्वरि सुप्रभातम् ॥
देवाङ्गनामणिगणश्च शचीमुखोऽयम्
त्वामीश्वरीं त्रिजगदेक समर्चनीयाम् ।
संसेवितुं सुसमये समुपागतेऽस्मिन्
श्री शारदाम्ब विहिते तव सुप्रभातम् ॥
वाचा सुधा मधुरया रमणीय सप्त
तन्त्रीप्रकर्श मधुरस्वनया महत्या ।
देवर्षिवर्य इह गायति भक्तिनम्रः
श्री शारदाम्ब मधुरं तव सुप्रभातम् ॥
त्वत्पादपङ्कज पराग सुगन्धलेशम्
आघ्राय सत्कविमदभ्रमरा प्रहृष्टाः ।
गायन्ति कोमलमनोहरवृत्तपद्यैः
श्री शारदाम्ब ललितैस्तव सुप्रभातम् ॥
श्री व्यासशङ्करसुरेश्वरपद्मपादा
द्याचार्यवर्यपरिपूजित पादपद्मे ।
लीलाशुकाक्षवलयोज्वल पाणिपद्मे
श्री शारदाम्ब परमे तव सुप्रभातम् ॥
पद्माक्षि पद्ममुखि पद्मभवादिवन्द्ये
पद्मालयेऽखिलवराभय पाणिपद्मे ।
हृत्पद्मपीठमधितिष्ठ ममापि मातः
श्री शारदे करुणया तव सुप्रभातम् ॥
यः पुस्तकाक्षवलयाञ्चित पाणिपद्माम्
वागीश्वरीं हृदयपद्मगतां स्मरेत्वाम् ।
वागीशतां समुपयाति स सद्य एव
श्री शारदाम्ब भुवने तव सुप्रभातम् ॥
संसारसागरमपारमनन्तलोल
कल्लोल दुर्ललितमेतमतीत्यतूर्णम् ।
तीर्णः स्वयं स खलु तारयति श्रिताम्श्च
श्री शारदे स्मरति यस्तव सुप्रभातम् ॥
राकाशशाङ्करमणीय मनोज्ञकान्तिम्
सोमावतम्समकुटां सुमकोमलाङ्गीम् ।
त्वां संस्मरामि कृपयैव विलोकयन्तीम्
श्री शारदाम्ब हृदि मां तव सुप्रभातम् ॥
दातुं त्रिवर्गमपवर्गमपि त्रिलोक्याः
नूनं निजस्मरणतोऽपि समेधमाने ।
त्वद्वक्त्र चन्द्रमसि चन्द्रमसापयातम्
श्री शारदाम्ब शशिना तव सुप्रभातम् ॥
पूर्णे कलङ्करहिते भुवनार्तिहारि-
ण्यज्ञानसन्तमसभेदिनि त्वन्मुखेन्दौ ।
नित्योदिते जगति भक्तचकोरलोकः
श्री शारदाम्ब मुदितस्तव सुप्रभातम् ॥
पुण्याः स्त्रियाश्च पुरुषाश्च कलावपि त्वाम्
मातर्यदा कृतयुगे परयाम्ब भक्त्या ।
संसेव्य शृङ्गगिरिपीठगतां कृतार्थाः
श्री शारदे कृतधियस्तव सुप्रभातम् ॥
त्वत्सेवनाय भवबन्धविमुक्तिकामाः
कारुण्यकल्पलतिके कतिचिन्महान्तः ।
आयान्ति शुद्धचरितास्सुधियश्च भक्ताः
श्री शारदे प्रमुदितास्तव सुप्रभातम् ॥
श्री चन्द्रशेखर जगद्गुरु सार्वभौम
श्री पाणि पद्मज जगद्गुरुसार्वभौमैः ।
तत्पाणिपङ्कज समुत्थ गुरूत्तमैश्च
श्री शारदाम्ब विनुते तव सुप्रभातम् ॥
ये सज्जना अनुदिनं मुदिताः प्रभाते
भक्त्या पठन्ति परया भुवि शारदायाः ।
श्रीसुप्रभात विनुतिं सकलैर्विमुक्ताः
क्लेशैः प्रयान्ति पुरुषार्थ चतुष्टयं द्राक् ॥
ये सुप्रभातमिदमाश्रितवत्सलायाः
श्रद्धायुता अनुदिनं हृदि शारदायाः ।
प्रातः पठन्ति मनुजा जगदम्बिकायाः
ते प्राप्नुवन्ति सुजनास्सकालानभीष्टान् ॥
श्री शारदा सुप्रभात स्मरणात्करुणानिधिः ।
पारदा स्यात् क्षणेनैवापारसंसार वारिधेः ॥
Encoded by R. Harshananda harshanand\_16@rediffmail.com