नारायणाष्टकम्
{॥ नारायणाष्टकम् ॥}
वात्सल्यादभयप्रदानसमयादार्त्तार्तिनिर्वापणाद्-
औदार्य्यादघशोषणादगणितश्रेयः पदप्रापणात् ।
सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥ १॥
प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय
स्तंभे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमापादयन्-
नार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥
श्रीरामोऽत्र विभीषणोऽयमनघो रक्षोभयादागतः
सुग्रीवानय पालयैनमधुना पौलस्त्यमेवागतम् ।
इत्युक्त्वाऽभयमस्य सर्वविदितं यो राघवो दत्तवान्-
आर्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३॥
नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मादयो भोः सुरा
रक्षन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु यः ।
मा भैषीरिति तस्य नक्रहनने चक्रायुधः श्रीधरो-
ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४॥
भोः कृष्णाच्युतः भोः कृपालय हरे भोः पाण्डवानां सखे
क्वासि क्वासि सुयोधनाध्यपहृतां भो रक्ष मामातुराम् ।
इत्युक्त्तोऽक्षयवस्त्रसंभृततनुर्योऽपालयद्द्रौपदीम्-
आर्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५॥
यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं
यन्नामामृतपूरकं च पिबतां संसारसन्तारकम् ।
पाषाणोऽपि यदङिघ्रपङ्करजसा शापान्मुनेर्मोचितो
ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ६॥
पित्रा भ्रातरमुत्तमासनगतं ह्यौत्तानपादिर्ध्रुवो
दृष्ट्वा तत्सममारुरुक्षुरधिकं मात्राऽवमानं गतः ।
यं गत्वा शरणं यदाप तपसा हेमाद्रिसिंहासनं
ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ७॥
आर्त्ता विषण्णाः शिथिलाश्च भीता घोरेशु च व्याधिशु वर्तमानाः ।
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ८॥
इति श्रीकूरेशस्वामिविरचितं नारायणाष्टकं सम्पूर्णम् ।
Encoded and proofread by Gayathri V vgayu at yahoo.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Narayana Ashtakam Lyrics in Devanagari PDF
% File name : nArAyaNAShTaka.itx
% Category : aShTaka
% Location : doc\_vishhnu
% Author : Kuresha Swami
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Gayathri V vgayu at yahoo.com
% Proofread by : Gayathri V vgayu at yahoo.com
% Latest update : May 31, 2011
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website