नारद उवाच इन्द्रादिदेव वृन्देश तातेश्वर जगत्पते । महाविष्णोर्नृसिंहस्य कवचं ब्रुहि मे प्रभो यस्य प्रपठनाद् विद्वान् त्रैलोक्यविजयी भवेत् ॥ १॥ ब्रह्मोवाच शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोघन(तपोधन) । कवचं नरसिंहस्य त्रैलोक्यविजयाभिधम् ॥ २॥ यस्य प्रपठनाद् वाग्मी त्रैलोक्यविजयी भवेत् । स्रष्ठाऽहं जगतां वत्स पठनाद्धारणाद् यतः ॥ ३॥ लक्ष्मीर्जगत्त्रयम् पाति संहर्ता च महेश्वरः । पठनाद्धारणाद्देवा बभुवुश्च दिगीश्वराः ॥ ४॥ ब्रह्म मन्त्रमयं वक्ष्ये भूतादिविनिवारकम् । यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी मुनिः । पठनाद् धारणाद् यस्य शास्ता च क्रोधभैरवः ॥ ५॥ त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च गायत्री नृसिंह देवता विभुः । चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्त्तितः ॥ ६॥ क्ष्रौं बिजं मे शिरः पातु चन्द्रवर्णो महामनुः । उग्रवीरं महाविष्णुं ज्वलन्तः सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम् ॥ ७॥ द्वात्रिंशादक्षरो मन्त्रः मन्त्रराजः सुरद्रुमः । कण्ठं पातु ध्रुवम् क्ष्रौं हृद्भगवते चक्षुषी मम ॥ ८॥ नरसिंहाय च ज्वालामालिने पातु मस्तकम् । दीप्तदंष्ट्राय च तथाग्निनेत्राय च नासिकाम् ॥ ९॥ सर्वरक्षोघ्नाय देवाय सर्वभूतविनाशाय च । सर्वज्वरविनाशाय दह दह पच द्वयम् ॥ १०॥ रक्ष रक्ष सर्वमन्त्रम् स्वाहा पातु मुखं मम । तारादि रामचन्द्राय नमः पायाद्गूह्यं मम ॥ ११॥ क्लीं पायात्पाणियुग्मंश्च आं ह्रीं क्रौं क्ष्रौं चं हुं फट् ॥ १२॥ षडक्षरः कटिं पातु ॐ नमो भगवते पदम् । वासुदेवाय च पृष्ठं क्लीं कृष्णाय उरुद्वयम् ॥ १३॥ क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः । क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम् ॥ १४॥ क्ष्रौं नरसिंहाय क्ष्रौंश्च सर्वाङ्गं मे सदाऽवतु ॥ १५॥ इति ते कथितं वत्स सर्वमन्त्रौघ विग्रहम् । तवस्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ॥ १६॥ गुरुपूजा विधायाथ गृहणीयात् कवचं ततः । सर्वपुण्ययुतो भूत्वा सर्वसिद्धियुतो भवेत् ॥ १७॥ शतमष्टोत्तरं चैव पुरश्चर्याविधि स्मृतः । हवनादीन् दशांशेन कृत्वा साधकसत्तमः ॥ १८॥ ततस्तु सिद्ध कवचः पुण्यात्मा मदनोपमः । स्पर्द्धामुद्धय भवने लक्ष्मीर्वाणी वसेत् ततः ॥ १९॥ पुष्पाञ्जल्याष्टकम् दत्वामूले नैव पठेत् सकृत् । अपि वर्षसहस्राणाम् पूजायाः फलमाप्नुयात् ॥ २०॥ भूर्जे विलिख्य गुटिकाम् स्वर्णस्थाम् धारयेत् यदि । कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ॥ २१॥ योषिद्वामभुजे चैव पुरुषो दक्षिणे करे । विभृयात् कवचं पुण्यम् सर्वसिद्धियुतो भवेत् ॥ २२॥ काकबन्ध्या च या नारी मृतवत्सा च या भवेत् । जन्मबन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ॥ २३॥ कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः । त्रैलोक्य क्षोभयत्येव त्रैलोक्यं विजयी भवेत् ॥ २४॥ भूतप्रेतपिशाचाश्च राक्षसा दानवश्च ये । तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ॥ २५॥ यस्मिन् गेहे च कवचं ग्रामे वा यदि तिष्ठति । तं देशन्तु परित्यज प्रयान्ति चाति दूरतः ॥ २६॥ ॥ इतिश्रीब्रह्मसंहितायां सप्तदशाध्याये त्रैलोक्यविजयं नाम श्रीश्रीनृसिंहकवचं सम्पूर्णम् ॥ Dinesh Agarwal dinesh.garghouse at gmail.com PSA Easwaran psaeaswaran at gmail.com % File name : nRRisiMhakavacham.itx % Text title : nRRisiMhakavacham brahmasaMhitAyAm % SubDeity : nrisimha % Author : % Subject : philosophy/hinduism/religion % Partial http://archive.org/details/HindiBook-danikPrarthnastrotaKavach % Pages 50-51 % Transliterated by : Dinesh Agarwal % Proofread by : Dinesh Agarwal dinesh.garghouse at gmail.com, PSA Easwaran psaeaswaran at gmail.com % Translated by : % Description/comments : Brahmasamhita % Latest update : July 21, 2013 % Send corrections to : Sanskrit@cheerful.com This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.