श्रीविष्णुकवचं अथवा ब्रह्माण्डपावनकवचं ब्रह्मवैवर्त पुराणान्तर्गतम्

{॥ श्रीविष्णुकवचं अथवा ब्रह्माण्डपावनकवचं ब्रह्मवैवर्त पुराणान्तर्गतम् ॥}
शौनक उवाच ।
किं स्तोत्रं कवचं विष्णोर्मन्त्रपूजाविधिः पुरा ।
दत्तो वसिष्ठैस्ताभ्यां च तं भवान् वक्तुमर्हति ॥ ८॥

द्वादशाक्षरमन्त्रं च शूलिनः कवचादिकम् ।
दत्तं गन्धर्वराजाय वसिष्ठेन च किं पुरा ॥ ९॥

तदपि ब्रूहि हे सौते श्रोतुं कौतूहलं मम ।
शङ्करस्तोत्रकवचं मन्त्रं दुर्गविनाशनम् ॥ १०॥

सौतिरुवाच ।
तुष्टाव येन स्तोत्रेण मालती परमेश्वरम् ।
तदेव स्तोत्रं दत्तं च मन्त्रं च कवचं शृणु ॥ ११॥

ओं नमो भगवते रासमण्डलेशाय स्वाहा ।
इमं मन्त्रं कल्पतरुं प्रदद्यौ षोडशाक्षरम् ॥ १२॥

पुरा दत्तं कुमाराय ब्रह्मणा पुष्करे हरेः ।
पुरा दत्तं च कृष्णेन गोलोके शङ्कराय च ॥ १३॥

ध्यानं च विष्णोर्वेदोक्तं शाश्वतं सर्वदुर्लभम् ।
मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ॥ १४॥

अतीवगुप्तकवचं पितुर्वक्त्रान्मया श्रुतम् ।
पित्रे दत्तं पुरा विप्र गङ्गायां शूलिना ध्रुवम् ॥ १५॥

शूलिने ब्रह्मणे दत्तं गोलोके रासमण्डले ।
धर्माय गोपीकान्तेन कृपया परमाद्भुतम् ॥ १६॥

ब्रह्मोवाच ।
राधाकान्त महाभाग कवचं यं प्रकाशितम् ।
ब्रह्माण्डपावनं नाम कृपया कथय प्रभो ॥ १७॥

मां महेशं च धर्मं च भक्तं च भक्तवत्सल ।
त्वं प्रसादेन पुत्रेभ्यो दास्यामि भक्तिसंयुतः ॥ १८॥

श्रीकृष्ण उवाच ।
शृणु वक्ष्यामि ब्रह्मेश धर्मदं कवचं परम् ।
अहं दास्यामि युष्मभ्यः गोपनीयं सुदुर्लभम् ॥ १९॥

यस्मै कस्मै न दातव्यं प्राणतुल्यं ममैव हि ।
यत्तेजो मम देहेऽस्ति तत्तेजः कवचेऽपि च ॥ २०॥

कुरु सृष्टिमिदं धृत्वा धाता त्रिजगतां भव ।
संहर्ता भव हे शम्भो मम तुल्यो भवे भव ॥ २१॥

हे धर्म त्वमिमं धृत्वा भव साक्षी च कर्मणाम् ।
तपसां फलदाता च यूयं भवत मद्वरात् ॥ २२॥

ब्रह्माण्डपावनस्यास्य कवचस्य हरिः स्वयम् ।
ऋषिश्च्छन्दश्च गायत्री देवोऽहं जगदीश्वरः ॥ २३॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
त्रिलक्षवारपठनात् सिद्धिदं कवचं विधे ॥ २४॥

यो भवेत् सिद्धकवचो मम तुल्यो भवेत्तु सः ।
तेजसा सिद्धियोगेन ज्ञानेन विक्रमेण च ॥ २५॥

प्रणवो मे शिरः पातु नमो रासेश्वराय च ।
भालं पायान्नेत्रयुग्मं नमो राधेश्वराय च ॥ २६॥

कृष्णः पायात् श्रोत्रयुग्मं हे हरे घ्राणमेव च ।
जिह्विकां वह्निजाया तु कृष्णायेति च सर्वतः ॥ २७॥

श्रीकृष्णाय स्वाहेति च कण्ठं पातु षडक्षरः ।
ह्रीं कृष्णाय नमो वक्त्रं क्लीं पूर्वश्च भुजद्वयम् ॥ २८॥

नमो गोपाङ्गनेशाय स्कन्धावष्टाक्षरोऽवतु ।
दन्तपंक्तिमोष्ठयुग्मं नमो गोपीश्वराय च ॥ २९॥

ओं नमो भगवते रासमण्डलेशाय स्वाहा ।
स्वयं वक्षस्थलं पातु मन्त्रोऽयं षोडशाक्षरः ॥ ३०॥

ऐं कृष्णाय स्वाहेति च कर्णयुग्मं सदावतु ।
ओं विष्णवे स्वाहेति च कङ्कालं सर्वतोऽवतु ॥ ३१॥

ओं हरये नम इति पृष्ठं पादं सदावतु ।
ओं गोवर्धनधारिणे स्वाहा सर्वशरीरकम् ॥ ३२॥

प्राच्यां मां पातु श्रीकृष्णः आग्नेय्यां पातु माधवः ।
दक्षिणे पातु गोपीशो नैरृत्यां नन्दनन्दनः ॥ ३३॥

वारुण्यां पातु गोविन्दो वायव्यां राधिकेश्वरः ।
उत्तरे पातु रासेश ऐशान्यामच्युतः स्वयम् ॥ ३४॥

सन्ततं सर्वतः पातु परो नारायणः स्वयम् ।
इति ते कथितं ब्रह्मन् कवचं परमाद्भुतम् ॥ ३५॥

मम जीवनतुल्यं च युष्मभ्यं दत्तमेव च ।
अश्वमेधसहस्राणि वाजपेयशतानि च ।
कलां नार्हन्ति तान्येव कवचस्यैव धारणात् ॥ ३६॥

गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ।
स्नात्वा तं च नमस्कृत्य कवचं धारयेत् सुधीः ॥ ३७॥

कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
यदि स्यात् सिद्धकवचो विष्णुरेव भवेत् द्विज ॥ ३८॥

इति श्रीब्रह्मवैवर्ते महापुरुषब्रह्माण्डपावनं कवचं समाप्तम् ॥


brahmavaivartapurANa brahmakhaNDaM adhyAya 19 shloka 8-38
Encoded and proofread by
PSA Easwaran psaeaswaran at gmail.com

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Vishnu Kavacham ( Brahmanda Pavana Kavacham ) Lyrics in Devanagari PDF
% File name : viShNukavachaBVP.itx
% Category : kavacha
% Location : doc\_vishhnu
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : PSA Easwaran psaeaswaran at gmail.com
% Proofread by : PSA Easwaran psaeaswaran at gmail.com
% Description-comments : brahmavaivartapurANa brahmakhaNDaM adhyAya 19 shloka 39-54
% Latest update : January 25, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website