श्रीविष्णुपदी अथवा गङ्गास्तोत्रम् ब्रह्मवैवर्तपुराणान्तर्गतम्
{॥ श्रीविष्णुपदी अथवा गङ्गास्तोत्रम् ब्रह्मवैवर्तपुराणान्तर्गतम् ॥}
ॐ नमो गङ्गायै ।
श्रीब्रह्मोवाच ।
श्रोतुमिच्छामि देवेश लक्ष्मीकान्त नमः प्रभो ।
विष्णो विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारणम् ॥ ११३॥
श्री नारायण उवाच ।
शिवसङ्गीतसंमुग्धश्रीकृष्णाङ्गद्रवोद्भवाम् ।
राधाङ्गद्रवसम्भूतां तां गङ्गां प्रणमाम्यहम् ॥ ११४॥
या जन्मसृष्टेरादौ च गोलोके रासमण्डले ।
संनिधाने शंकरस्य तां गङ्गां प्रणमाम्यहम् ॥ ११५॥
गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे ।
कार्तिकीपूर्णिमाजातां तां गङ्गां प्रणमाम्यहम् ॥ ११६॥
कोटियोजनविस्तीर्णा दैर्घ्ये लक्षगुणा ततः ।
समावृता या गोलोकं तां गङ्गां प्रणमाम्यहम् ॥ ११७॥
षष्टिलक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा ।
समावृता या वैकुण्ठं तां गङ्गां प्रणमाम्यहम् ॥ ११८॥
विंशल्लक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा ।
समावृता ब्रह्मलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ११९॥
त्रिंशल्लक्षैर्योजनैर्या दैर्घ्ये पञ्चगुणा ततः ।
आवृता शिवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२०॥
षड्योजनसुविस्तीर्णा दैर्घ्ये वशगुणा ततः ।
मन्दाकिनी येन्द्रलोके तां गङ्गां प्रणमाम्यहम् ॥ १२१॥
लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः ।
आवृता ध्रुवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२२॥
लक्षयोजनविस्तीर्णा दैर्घ्ये षड्गुणिता ततः ।
आवृता चन्द्रलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२३॥
योजनैः षष्टिसाहस्रैर्दैर्घ्ये दशगुणा ततः ।
आवृता सूर्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२४॥

आवृता सत्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२५॥
दशलक्षैर्योजनैर्या दैर्घ्ये पञ्चगुणा ततः ।
आवृता या तपोलोकं तां गङ्गां प्रणमाम्यहम् ॥ १२६॥
सहस्रयोजना या च दैर्घ्ये सप्तगुणा ततः ।
आवृता जनलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२७॥
सहस्रयोजनयामा दैर्घ्ये सप्तगुणा ततः ।
आवृता या च कैलासं तां गङ्गां प्रणमाम्यहम् ॥ १२८॥
पाताले या भोगवती विस्तीर्णा दशयोजना ।
ततो दशगुणा दैर्घ्ये तां गङ्गां प्रणमाम्यहम् ॥ १२९॥
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा न कुत्रचित् ।
क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम् ॥ १३०॥
सत्ये य क्षीरवर्णा च त्रेतायामिन्दुसंनिभा ।
द्वापरे चन्दनाभा च तां गङ्गां प्रणमाम्यहम् ॥ १३१॥
जलप्रभा कलौ या च नान्यत्र पृथिवीतले ।
स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ॥ १३२॥
यस्याः प्रभाव अतुलः पुराणे च श्रुतौ श्रुतः ।
या पुण्यदा पापहर्त्री तां गङ्गां प्रणमाम्यहम् ॥ १३३॥
यत्तोयकणिकास्पर्शः पापिनां च पितामह ।
ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ १३४॥
इत्येवं कथितं ब्रह्मन्गङ्गापद्यैकविंशतिम् ।
स्तोत्ररूपं च परमं पापघ्नं पुण्यबीजकम् ॥ १३५॥
नित्यं यो हि पठेद्भक्त्या सम्पूज्य च सुरेश्वरीम् ।
अश्वमेधफलं नित्यं लभते नात्र संशयः ॥ १३६॥
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् ।
रोगान्मुच्येत रोगी च बद्धो मुच्येत बन्धनात् ॥ १३७॥
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।
यः पठेत्प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ॥ १३८॥
शुभं भवेत्तु दुस्स्वप्नं गङ्गास्नानफलं भवेत् ॥ १३९॥
इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
गङ्गोपाख्याने दशमोऽध्यायान्तर्गतं गङ्गास्तोत्रं सम्पूर्णम् ॥
brahmavaivartapurANa prakRitikhaNDa adhyAya 10
Encoded and proofread by
Singanallur Ganesan singanallur at gmail.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Ganga Stotram (From Brahma Vaivarta Puranam ) Lyrics in Devanagari PDF
% File name : viShNupadIgangAstotramBVP.itx
% Location : doc\_vishhnu
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Singanallur Ganesan singanallur at gmail.com, PSA Easwaran psaeaswaran at gmail.com
% Proofread by : Singanallur Ganesan singanallur at gmail.com, PSA Easwaran psaeaswaran at gmail.com
% Description-comments : brahmavaivartapurANa prakRitikhaNDa adhyAya 10
% Latest update : January 31, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website