श्रीविष्णुस्तुती कण्डुमुनिप्रोक्त ब्रह्मपुराणे
{॥ श्रीविष्णुस्तुती कण्डुमुनिप्रोक्त ब्रह्मपुराणे ॥}
कण्डुरुवाच
नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते ।
जगद्बीज जगद्धाम जगत्साक्षिन्नमोऽस्तु ते ॥ १७८.१२९॥
अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम ।
पुण्डरीकाक्ष गोविन्द लोकनाथ नमोऽस्तु ते ॥ १७८.१३०॥
हिरण्यगर्भ श्रीनाथ पद्मनाभ सनातन । var shrIdhAma
भूगर्भ ध्रुव ईशान हृषीकेश नमोऽस्तु ते ॥ १७८.१३१॥
अनाद्यन्तामृताजेय जय त्वं जयतां वर ।
अजिताखण्ड श्रीकृष्ण श्रीनिवास नमोऽस्तु ते ॥ १७८.१३२॥ var खण्डल कृष्ण
pAThabehda
योगात्मन्नंप्रमेयात्मँल्लोकात्मंस्त्वं सनातनः ।
कूटस्थाचलदुर्ज्ञेय कुशेशाय नमोऽस्तु ते ॥ ६९.१३२॥
वरेण्य वरदानन्त ब्रह्मयोने गुणाकर ।
प्रलयोत्पत्तियोगेश वासुदेव नमोऽस्तुते ते ॥ ६९.१३३॥
पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित ।
दुःखार्तिनाशन हरे जलशायिन्नमोऽस्तु ते ॥ १७८.१३३॥
भूतपाव्यक्त भूतेश भूततत्त्वैरनाकुल ।
भूताधिवास भूतात्मन्भूतगर्भ नमोऽस्तु ते ॥ १७८.१३४॥
यज्ञ यज्वन्यज्ञधर यज्ञधाताऽभयप्रद ।
यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमोऽस्तु ते ॥ १७८.१३५॥
क्षेत्रज्ञ क्षेत्रभृत्क्षेत्री क्षेत्रहा क्षेत्रकृद्वशी ।
क्षेत्रात्मन्क्षेत्ररहित क्षेत्रस्रष्ट्रे नमोऽस्तु ते ॥ १७८.१३६॥
गुणालय गुणावास गुणाश्रय गुणावह ।
गुणभोक्तृ गुणाराम गुणत्यागिन्नमोऽस्तु ते ॥ १७८.१३७॥
त्वं विष्णुस्त्वं हरिश्चक्री त्वं जिष्णुस्त्वं जनार्दनः ।
त्वं भूतस्त्वं वषट्कारस्त्वं भव्यस्त्वं भवत्प्रभुः ॥ १७८.१३८॥
त्वं भूतकृत्त्वमव्यक्तस्त्वं भवो भूतभृद्भवान् ।
त्वं भूतभावनो देवस्त्वामाहुरजमीश्वरम् ॥ १७८.१३९॥
त्वमनन्तः कृतज्ञस्त्वं प्रकृतिस्त्वं वृषाकपिः ।
त्वं रुद्रस्त्वं दुराधर्षस्त्वममोघस्त्वमीश्वरः ॥ १७८.१४०॥
त्वं विश्वकर्मा जिष्णुस्त्वं त्वं शंभुस्त्वं वृषाकृतिः ।
त्वं शंकरस्त्वमुशना त्वं सत्यं त्वं तपो जनः ॥ १७८.१४१॥
त्वमादित्यस्त्वमोंकारस्त्वं प्राणस्त्वं तमिस्रहा ।
त्वं पर्जन्यस्त्वं प्रथितस्त्वं त्वं ज्येष्ठस्त्वं परायणः ॥ १७८.१४२॥

त्वं पर्जन्यस्त्वं प्रथितस्त्वं वेधास्त्वं सुरेश्वरः ॥ १७८.१४३॥
त्वमृग्यजुः सामचैव त्वमात्मा संमतो भवान् ।
त्वमग्निस्त्वं च पवनस्त्वमापो वसुधा भवान् ॥ १७८.१४४॥
त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः ।
त्वं प्रभुस्त्वं विभुः श्रेष्ठस्त्वं लोकपतिरच्युतः ॥ १७८.१४५॥
त्वं सर्वदर्शनः श्रीमांस्त्वं सर्वदमनोऽरिहा ।
त्वमहस्त्वं तथारात्रिस्त्वामाहुर्वत्सरं बुधाः ॥ १७८.१४६॥
त्वं कालस्त्वं कला काष्ठा त्वं मुहूर्तः क्षणालवाः ।
त्वं बालस्त्वं तथा वृद्धस्त्वं पुमान्स्त्री नपुंसकः ॥ १७८.१४७॥
pAThabehda
त्वं विश्वयोनिस्त्वं चक्षुस्त्वं स्थाणूस्त्वं शुचिश्रवाः ।
त्वं शाश्वतस्त्वमजितस्त्वमुपेन्द्रस्त्वमुत्तमः ॥ ६९.१४९॥
त्वं सर्वविश्वसुखदस्त्वं वेदाङ्गं त्वमव्ययः ।
त्वं वेदवेदस्त्वं धाता विधाता त्वं समाहितः ॥ १७८.१४८॥ ६९.१५०
त्वं जलनिधिरामूलं त्वं धाता त्वं पुनर्वसुः । var अगद्योनिर्मूलस्त्वं
त्वं वैद्यस्त्वं धृतात्मा च त्वमतीन्द्रियगोचरः ॥ १७८.१४९॥
त्वमग्रणीर्ग्रामणीस्त्वं त्वं सुपर्णस्त्वमादिमान् ।
त्वं संग्रहस्त्वं सुमहत्त्वं धृतात्मा त्वमच्युतः ॥ १७८.१५०॥
त्वं यमस्त्वं च नियमस्त्वं प्रांशुस्त्वं चतुर्भुजः ।
त्वमेवान्नान्तरात्मा त्वं परमात्मा त्वमुच्यसे ॥ १७८.१५१॥
त्वं गुरुस्त्वं गुरुतमोस्त्वं वामस्त्वं प्रदक्षिणः ।
त्वं पिप्पलस्त्वमगमस्त्वं व्यक्तस्त्वं प्रजापतिः ॥ १७८.१५२॥
हिरण्यनाभस्त्वं देवस्त्वं शशी त्वं प्रजापतिः ।
अनिर्देश्यवपुस्त्वं वै त्वं यमस्त्वं सुरारिहा ॥ १७८.१५३॥
त्वं च संकर्षणो देवस्त्वं शशी त्वं प्रजापतिः ।
त्वं वासुदेवोऽमेयात्मा त्वमेव गुणवर्जितः ॥ १७८.१५४॥
त्वं ज्येष्ठस्त्वं वरिष्ठस्त्वं त्वं सहिष्णुश्च माधवः ।
सहस्रशीर्षा त्वं देवस्त्वमव्यक्तः सहस्रदृक् ॥ १७८.१५५॥
सहस्रपादस्त्वं देवस्त्वं विराट्त्वं सुरप्रभुः ।
त्वमेव तिष्ठसे भूयो देवदेव दशाङ्गुलः ॥ १७८.१५६॥
यद्भूतं तत्त्वमेवोक्तः पुरुषः शक्त उत्तमः ।
यद्भव्यं तत्त्वमीशानस्त्वमृतस्त्वं तथाऽमृतः ॥ १७८.१५७॥
त्वत्तो रोहत्ययं लोको महीयांस्त्वमनुत्तमः ।
त्वं ज्यायान्पुरुषस्त्वं च त्वं देव दशधा स्थितः ॥ १७८.१५८॥
विश्वभूतश्चतुर्भागो नवभागोऽमृतो दिवि ।
नवभागोऽन्तरिक्षस्थः पौरुषेयः सनातनः ॥ १७८.१५९॥
भागद्वयं य भूसंस्थं चतुर्भागोऽप्यभूदिह ।
त्वत्तो यज्ञाः संभवन्ति जगतो वृष्टिकारणम् ॥ १७८.१६०॥
त्वत्तो विराट्समुत्पन्नो जगतो हृदि यः पुमान् ।
सोऽतिरिच्यत भूतेभ्यस्तेजसा यशसा श्रिया ॥ १७८.१६१॥
त्वत्तः सुराणामाहारः पृषदाज्यमजायत ।
ग्राम्यारण्याश्चौषधयस्त्वत्तः पशुमृगादयः ॥ १७८.१६२॥
ध्येयध्यानपरस्त्वं च कृतवानसि चौषधीः ।
त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः ॥ १७८.१६३॥
जङ्गमाजङ्गमं सर्वं जगदेतच्चराचरम् ।
त्वत्तः सर्वमिदं जातं त्वयि सर्वं प्रतिष्ठितम् ॥ १७८.१६४॥
अनिरुद्धस्त्वं माधवस्त्वं प्रद्युम्नः सुरारिहा ।
देव सर्वसुरश्रेष्ठ सर्वलोकपरायण ॥ १७८.१६५॥
त्राहि मामरविन्दाक्ष नारायण नमोऽस्तु ते ।
नमस्ते भगवन्विष्णो नमस्ते पुरुषोत्तम ॥ १७८.१६६॥
नमस्ते सर्वलोकेश नमस्ते कमलालय ।
गुणालय नमस्तेऽस्तु नमस्तेऽस्तु गुणाकर ॥ १७८.१६७॥
वासुदेव नमस्तेऽस्तु नमस्तेऽस्तु सुरोत्तम ।
जनार्दन नमस्तेऽस्तु नमस्तेऽस्तु सनातन ॥ १७८.१६८॥
नमस्ते योगिनां गम्य योगावास नमोऽस्तु ते ।
गोपते श्रीपते विष्णो नमस्तेऽस्तु मरुत्पते ॥ १७८.१६९॥
जगत्पते जगत्सूते नमस्ते ज्ञानिनां पते ।
दिवस्पते नमस्तेऽस्तु नमस्तेऽस्तु महीपते ॥ १७८.१७०॥
नमस्ते मधुहन्त्रे च नमस्ते पुष्करेक्षण ।
कैटभघ्न नमस्तेऽस्तु सुब्रह्मण्य नमोऽस्तु ते ॥ १७८.१७१॥
नमोऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत ।
समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे ॥ १७८.१७२॥
अश्वशीर्ष महाघोण महापुरुषविग्रह ।
मधुकैटभहन्त्रे च नमस्ते तुरगानन ॥ १७८.१७३॥
महाकमठभोगाय पृथिव्युद्धरणाय च ।
विधृताद्रिस्वरूपाय महाकूर्माय ते नमः ॥ १७८.१७४॥
नमो महावराहाय पृथिव्युद्धारकारिणे ।
नमश्चाऽऽदिवराहाय विश्वरूपाय वेधसे ॥ १७८.१७५॥
नमोऽनन्ताय सूक्ष्माय मुख्याय च वराय च ।
परमाणुस्वरूपाय योगिगम्याय ते नमः ॥ १७८.१७६॥
तस्मै नमः परम कारणकारणाय
योगीन्द्रवृत्तनिलयाय सुदुर्विदाय ।
क्षीरार्णवाश्रितमहाहिसुतल्पगाय
तुभ्यं नमः कनकरत्नसुकुण्डलाय ॥ १७८.१७७ ॥
इति ।
ब्रह्मपुराण अध्याय १७८, १२९-१७७, अध्याय श्लोक सङ्ख्या १९४
Brahmapurana Adhyaya 178, verses 129-177
In http://archive.org/details/BrahmaPurana, the adhyAya is 69
PDF pages 204-215. Verses 128-179
Proofread by Singanallur Ganesan singanallur at gmail.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Vishnu Stuti ( By Kandu Rishi ) Lyrics in Devanagari PDF
% File name : viShNustutikaNDuproktabrahmapurANa.itx
% Location : doc\_vishhnu
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : sa.wikisource.org
% Proofread by : Singanallur Ganesan singanallur at gmail.com
% Translated by : http://www.astrojyoti.com/brahmapurana-11.htm
% Description-comments : Brahmapurana Adhyaya 178, verses 129-177
% Latest update : July 2, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website