श्रीविष्णुस्तोत्रम् ब्रह्मोक्तं नरसिंहपुराणे
{॥ श्रीविष्णुस्तोत्रम् ब्रह्मोक्तं नरसिंहपुराणे ॥}
राजोवाच --
वाक्पुष्पेण कथं ब्रह्मन् ब्रह्माप्यर्चितवान् हरिम् ।
तन्मे कथय विप्रेन्द्र ब्रह्मोक्तं स्तोत्रमुत्तमम् ॥
मार्कण्डेय उवाच --
श्रृणु राजन् प्रवक्ष्यामि स्तोत्रं ब्रह्ममुखेरितम् ।
सर्वपापहरं पुण्यं विष्णुतुष्टिकरं परम् ॥
तमाराध्य जगन्नाथमूर्ध्वबाहुः पितामहः ।
भूत्वैकाग्रमना राजन्निदं स्तोत्रमुदीरयत् ॥
ब्रह्मोवाच --
नमामि देवं नरनाथमच्युतं नारायणं लोकगुरुं सनातनम् ।
अनादिमव्यक्तमचिन्त्यमव्ययं वेदान्तवेद्यं पुरुषोत्तमं हरिम् ॥ १॥
आनन्दरूपं परमं परात्परं चिदात्मकं ज्ञानवतां परां गतिम् ।
सर्वात्मकं सर्वगतैकरूपं ध्येयस्वरूपं प्रणमामि माधवम् ॥ २॥
भक्तप्रियं कान्तमतीव निर्मलं सुराधिपं सूरिजनैरभिष्टुतम् ।
चतुर्भुजं नीरजवर्णमीश्वरं रथाङ्गपाणिं प्रणतोऽस्मि केशवम् ॥ ३॥
गदासिशङ्खाब्जकरं श्रियः पतिं सदाशिवं शार्ङ्गधरं रविप्रभम् ।
पीताम्बरं हारविराजितोदरं नमामि विष्णुं सततं किरीटिनम् ॥ ४॥
गण्डस्थलासक्तसुरक्तकुण्डलं सुदीपिताशेषदिशं निजत्विषा ।
गन्धर्वसिद्धैरुपगीतमृग्ध्वनिं जनार्दनं भूतपतिं नमामि तम् ॥ ५॥
हत्वासुरान् पाति युगे युगे सुरान् स्वधर्मसंस्थान् भुवि संस्थितो हरिः ।
करोति सृष्टिं जगतः क्षयं यस्तं वासुदेवं प्रणतोऽस्मि केशवम् ॥ ६॥
यो मत्स्यरूपेण रसातलस्थितान् वेदान् समाहृत्य मम प्रदत्तवान् ।
निहत्य युद्धे मधुकैटभावुभौ तं वेदवेद्यं प्रणतोऽस्म्यहं सदा ॥ ७॥
देवासुरैः क्षीरसमुद्रमध्यतो न्यस्तो गिरिर्येन धृतः पुरा महान् ।
हिताय कौर्मं वपुरास्थितो यस्तं विष्णुमाद्यं प्रणतोऽस्मि भास्करम् ॥ ८॥
हत्वा हिरण्याक्षमतीव दर्पितं वराहरूपी भगवान् सनातनः ।
यो भूमिमेतां सकलां समुद्धरंस्तं वेदमूर्तिं प्रणमामि सूकरम् ॥ ९॥
कृत्वा नृसिंहं वपुरात्मनः परं हिताय लोकस्य सनातनो हरिः
जघान यस्तीक्ष्णनखैर्दितेः सुतं तं नारसिंहं पुरुषं नमामि ॥ १०॥
यो वामनोऽसौ भगवाञ्जनार्दनो बलिं बबन्ध त्रिभिरूर्जितैः पदैः ।
जगत्रयं क्रम्य ददौ पुरंदरे तदेवमाद्यं प्रणतोऽस्मि वामनम् ॥ ११॥
यः कार्तवीर्यं निजघान रोषात् त्रिस्सप्तकृत्वः क्षितिपात्मजानपि ।
तं जामदग्न्यं क्षितिभारनाशकं नतोऽस्मि विष्णुं पुरुषोत्तमं सदा ॥ १२॥
सेतुं महान्तं जलधौ बबन्ध यः सम्प्राप्य लङ्कां सगणं दशाननम् ।
जघान भृत्यै जगतां सनातनं तं रामदेवं सततं नतोऽस्मि ॥ १३॥
यथा तु वाराहनृसिंहरूपैः कृतं त्वया देव हितं सुराणाम् ।
तथाद्य भूमेः कुरु भारहानिं प्रसीद विष्णो भगवन्नमस्ते ॥ १४॥
इति ब्रह्मोक्तं विष्णुस्तोत्रं ।
श्रीमार्कण्डेय उवाच --
इति स्तुतो जगन्नाथः श्रीधरः पद्मयोनिना ।
आविर्बभूव भगवाञ्शङ्खचक्रगदाधरः ॥
उवाच च हृषीकेशः पद्मयोनिं सुरानपि ।
स्तुत्यानयाहं संतुष्टः पितामह दिवौकसः ॥
पठतां पापनाशाय नृणां भक्तिमतामपि ।
यतोऽस्मि प्रकटीभूतो दुर्लभोऽपि हरिः सुराः ॥
सङ्क्षिप्तं, अध्याये श्लोक संख्या ६८
श्रीनरसिंहपुराणे कृष्णाप्रादुर्भावो नाम त्रिपञ्चाशोऽध्यायः ॥ ५३॥
From Narasimhapurana adhyAya 53 Selected verses.
https://archive.org/details/NarsimhaPuranGitapress
Proofread by Singanallur Ganesan singanallur at gmail.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Vishnu Stotram ( By Brahma ) Lyrics in Devanagari PDF
% File name : viShNustotrabrahmoktanarasimhapurANa.itx
% Location : doc\_vishhnu
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Singanallur Ganesan singanallur at gmail.com
% Translated by : https://archive.org/details/NarsimhaPuranGitapress
% Description-comments : Narasimhapurana adhyAya 53
% Latest update : June 6, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website