श्रीदुर्गा नक्षत्रमालिकास्तुती
{॥ श्रीदुर्गा नक्षत्रमालिकास्तुती ॥}
INTRODUCTION:- The Pandava king Yudhishtira, with his wife Panchali
and brothers had to spend twelve years in the forests and an year
incognito as he forfeited his kingdom consequent to his defeat in
the game of chess with his brother Duryodhana. They suffered many
hardships during the year they spent in the kingdom of Virata in
disguise. Some sages advised them to pray to Sri Durga Devi to be
free from the hardships that assailed them. They taught the Pandavas this
hymn consisting of twenty seven verses. The Pandavas accepted their
advice and prayed to Devi reciting these verses. Devi was pleased
with their prayer and appeared before them She blessed them. As a
result, they were able to spend the time without being affected
by difficulties and without being detected by the opponents. They
were also successful in their fight with the Kauravas in the famous
KurukShetra war and won back their kingdom. Durga Devi also assured
the Pandavas that anyone who recites the hymn with devotion will
also be blessed like the Pandavas.
॥ अथ श्रीदुर्गा नक्षत्रमालिका स्तुतिः ॥
॥ ॐ श्री गणेशाय नमः ॥
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ।
अस्तुवन् मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ १॥
यशोदागर्भसंभूतां नारायणवरप्रियाम् ।
नन्दगोपकुलेजातां मंगळ्यां कुलवर्धनीम् ॥ २॥
कंसविद्रावणकरीं असुराणां क्षयं करीम् ।
शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ॥ ३॥
वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् ।
दिव्यांबरधरां देवीं खद्गखेटकधारिणीम् ॥ ४॥
भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम् ।
तान्वै तारयसे पापात् पंकेगामिव दुर्बलाम् ॥ ५॥
स्तोतुं प्रचक्रमे भूयः विविधैः स्तोत्रसंभवैः ।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ ६॥
नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।
बालार्क सदृशाकारे पूर्णचन्द्रनिभानने ॥ ७॥
चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे ।
मयूरपिंछवलये केयूरांगदधारिणि ॥ ८॥
भासि देवि यदा पद्मा नारायणपरिग्रहः ।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ ९॥
कृष्णच्छविसमा कृष्णा संकर्षणसमानना ।
बिभ्रती विपुलौ बाहु शक्रध्वजसमुछ्रयौ ॥ १०॥
पात्री च पंकजी कंठी स्त्री विशुद्धा च या भुवि ।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ ११॥
कुंडलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।
चन्द्रविस्पार्धिना देवि मुकेन त्वं विराजसे ॥ १२॥
मुकुटेन विचित्रेण केशबन्धेन शोभिना ।
भुजंगाऽभोगवासेन श्रोणिसूत्रेण राजता ॥ १३॥
विभ्राजसे च बद्धेन भोगेनेवेह मन्थरः ।
ध्वजेन शिखिपिंछानां उछ्रितेन विराजसे ॥ १४॥
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ १५॥
त्रैलोक्य रक्षणार्थाय महिषासुर घातिनि ।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ १६॥
जया त्वं विजया चैव संग्रामे च जयप्रदा ।
ममापि विजयं देहि वरदा त्वं च सांप्रतम् ॥ १७॥
विन्ध्ये चैव नगश्रेष्टे तवस्थानं हि शाश्वतम् ।
कालि कालि महाकालि शीधुमांस पशुप्रिये ॥ १८॥
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि ।
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ १९॥
प्रणमन्ति च ये त्वां हि प्रयाणे तु नरा भुवि ।
न तेषां दुर्लभं किंचित् पुत्रतो धनतोऽपि वा ॥ २०॥
दुर्गात्तारयसे दुर्गे तत्वं दुर्गा स्मृता जनैः ।
कान्तारेष्व-वसन्नानां मग्नानां च महार्णवे ॥ २१॥
(दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्।)
जलप्रतरणे चैव कान्तारेषु अवटेषु च ।
ये स्मरन्ति महादेवीं न च सीदन्ति ते नराः ॥ २२॥
त्वं कीर्तिः श्रीः धृतिः सिद्धिः ह्रीः विद्या सन्ततिर्मतिः ।
सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ॥ २३॥
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् ।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ २४॥
सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ २५॥
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः ।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ २६॥
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ।
उपगम्य तु राजानं इदं वचनं अब्रवीत् ॥ २७॥
शृणु राजन् महाबाहो मदीयं वचनं प्रभो ।
भविष्यति अचिरादेव संग्रामे विजयस्तव ॥ २८॥
मम प्रसादात् निर्जित्य हत्वा कौरव वाहिनीम् ।
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ २९॥
भ्रातृभिः सहितो राजन् प्रीतिं यास्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्यं आरोग्यं च भविष्यति ॥ ३०॥
ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः ।
तेषां तुष्टा प्रदास्यामि राज्यं आयुः वपुः सुतम् ॥ ३१॥
प्रवासे नगरे वापि संग्रामे शतृसंकटे ।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ ३२॥
ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता ।
न तेषां दुर्लभं किंचित् अस्मिन् लोके भविष्यति ॥ ३३॥
इदं स्तोत्रवरं भक्त्या शृणुयात् वा फठेत वा ।
तस्य सर्वाणि कार्याणि सिध्धिं यास्यन्ति पाण्डवाः ॥ ३४॥
मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् ।
न प्रज्ञास्यन्ति कुरवः नरा वा तन्निवासिनः ॥ ३५॥
इत्युक्त्वा वरदा देवी युधिष्ठिरं अरिन्दमम् ।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥ ३८॥
॥ ॐ तत्सत्॥
Encoded and proofread by N Balasubramanian bbalu@sify.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Durga Nakshatra Malika Stuti Lyrics in Devanagari PDF
% File name : durgAnakshatramAlikAstuti.itx
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : N.Balasubramanian bbalu at satyam.net.in
% Proofread by : N.Balasubramanian bbalu at satyam.net.in
% Latest update : December 24, 2007
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website