श्रीउमात्रिशतीसहितं नामावली
{॥ श्रीउमात्रिशतीसहितं नामावली ॥}
उमा हैमवति देवी महादेवी महेश्वरी ।
अजा धूम्रा सुरूपैका विश्वसूर्विश्वधारिणी ॥ १॥
शिवा भगवती भद्रा प्रकृतिर्विकृतिः कृतिः ।
अनन्ताऽनादिरव्यक्ता दुर्गपारा दुरात्यया ॥ २॥
स्वधा स्वाहा सुधा पुष्टिः सुखा सोमस्वरुपिणी ।
तुष्टिर्निद्रा विष्णुमाया जातिर्धीश्चेतना चितिः ॥ ३॥
माता शान्तिः क्षमा श्रद्धा ह्रीर्वृत्तिर्व्यापिनी स्मृतिः ।
शक्तिस्तृष्णा क्षुधा भ्रान्तिः कान्तिः छाया रमा दया ॥ ४॥
भवानी राजसी सृष्टिर्मृडानी सात्त्विकी स्थितिः ।
रुद्राणी तामसी मृत्युः शर्वाणी त्रिगुणा परा ॥ ५॥
कृष्णा लक्ष्मीः कामधेनुरार्या दाक्षायणी सती ।
गणेशजननि दुर्गा पार्वति ब्रह्मचारिणी ॥ ६॥
गम्भीरनादवद्धण्टा कूष्माण्डा षण्मुखप्रसूः ।
कात्यायनी कालरात्रिर्गौरी सिद्धिप्रदायिनि ॥ ७॥
अपर्णा तापसी बाला कन्या कान्तारचारिणी ।
महर्षिस्तुतचारित्रा त्रिनेत्रार्धाङ्गभागिनी ॥ ८॥
रमणीयतमा राज्ञी रजताद्रिनिवासिनी ।
गीर्वाणमौलिमाणिक्यनीराजितपदाम्बुजा ॥ ९॥
सर्वागमस्तुतोपास्या विद्या त्रिपुरसुन्दरी ।
कमलात्मा छिन्नमस्ता मातङ्गी भुवनेश्वरी ॥ १०॥
तारा धूमावति काली भैरवी बगलामुखी ।
अनुल्लङ्घ्यतमा सन्ध्या सावित्री सर्वमङ्गला ॥ ११॥
छन्दः सवित्री गायत्री श्रुतिर्नादस्वरूपिणी ।
कीर्तनीयतमा कीर्तिः पावनी परमाम्बिका ॥ १२॥
उषा देव्यरुषी मैत्री भास्वती सूनृतार्जुनी ।
विभावरी बोधयित्री वाजिनी वाजिनीवती ॥ १३॥
रात्रिः पयस्वती नम्या धृताची वारुणी क्षपा ।
हिमानिवेशिनी रौद्रा रामा श्यामा तमस्वती ॥ १४॥
कपालमालिनी धोरा करालाखिलमोहिनी ।
ब्रह्मस्तुता महाकाली मधुकैटभनाशिनी ॥ १५॥
भानुपादाङ्गुलिर्ब्रह्मपादा पाश्यूरुजङ्धिका ।
भूनितम्बा शक्रमध्या सुधाकरपयोधरा ॥ १६॥
वसुहस्ताङ्गुलिर्विष्णुदोःसहस्रा शिवानना ।
प्रजापतिरदा वह्निनेत्रा वित्तेशनासिका ॥ १७॥
सन्ध्याभ्रूयुगला वायुश्रवणा कालकुन्तला ।
सर्वदेवमयी चन्डी महिषासुरमर्दिनी ॥ १८॥
कौशिकी धूम्रनेत्रध्नी चण्डमुण्डविनाशिनी ।
रक्तबीजप्रशमनी निशुम्भमदशोषिणी ॥ १९॥
शुम्भविध्वंसिनी नन्दा नन्दगोकुलसम्भवा ।
एकानंशा मुरारातिभगिनी विन्ध्यवासिनी ॥ २०॥
योगीश्वरी भक्तवश्या सुस्तनी रक्तदन्तिका ।
विशाला रक्तचामुण्डा वैप्रचित्तनिषूदिनी ॥ २१॥
शाकम्भरी दुर्गमध्नी शताक्ष्यमृतदायिनी ।
भीमैकवीरा भीमास्या भ्रामर्यरूणनाशिनी ॥ २२॥
ब्रह्माणी वैष्णवीन्द्राणी कौमारी सूकरानना ।
माहेश्वरी नारसिंही चामुण्डा शिवदूतिका ॥ २३॥
गौर्भूर्महीद्यौरदितिर्देवमाता दयावती ।
रेणुका रामजननी पुण्या वृद्धा पुरातनी ॥ २४॥
भारती दस्युजिन्माता सिद्धा सौम्या सरस्वती ।
विद्युद्वज्रेश्वरी वृत्रनाशिनी भूतिरच्युता ॥ २५॥
दण्डिनी पाशिनी शूलहस्ता खट्वाङ्गधारिणी ।
खड्गिनी चापिनी बाणधारिणी मुसलायुधा ॥ २६॥
सीरायुधाङ्कुशवती शङ्खिनी चक्रधारिणी ।
उग्रा वैरोचनी दीप्ता ज्येष्ठा नारायणी गतिः ॥ २७॥
महीश्वरी वह्निरूपा वायुरूपाऽम्बरेश्वरी ।
द्युनायिका सूर्यरूपा नीरूपाखिलनायिका ॥ २८॥
रतिः कामेश्वरी राधा कामाक्षी कामवर्धिनी ।
भण्डप्रणाशिनी गुप्ता त्र्यम्बका शम्भुकामुकी ॥ २९॥
अरालनीलकुन्तला सुधांशुसुन्दरानना ।
प्रफुल्लपद्मलोचना प्रवाललोहिताधरा ॥ ३०॥
तिलप्रसूननासिका लसत्कपोलदर्पणा ।
अनङ्गचापझिल्लिका स्मितापहास्यमल्लिका ॥ ३१॥
विवस्वदिन्दुकुण्डला सरस्वतीजितामृता ।
समानवर्जितश्रुतिः समानकम्बुकन्धरा ॥ ३२॥
अमूल्यमाल्यमण्डिता मृणालचरुदोर्लता ।
करोपमेयपल्लवा सुरोपजीव्यसुस्तनी ॥ ३३॥
बिसप्रसूनसायकक्षुराभरोमराजिका ।
बुधानुमेयमध्यमा कटीतटीभरालसा ॥ ३४॥
प्रसूनसायकागमप्रवादचुञ्चुकाञ्चिका ।
मनोहरोरुयुग्मका मनोजतूणजङ्धिका ॥ ३५॥
क्वणत्सुवर्णहंसका सरोजसुन्दराङ्ध्रिका ।
मतङ्गजेन्द्रगामिनी महाबला कलावती ॥ ३६॥
शुद्धा बुद्धा निस्तुला निर्विकारा
सत्या नित्या निष्फला निष्कलङ्का ।
अज्ञा प्रज्ञा निर्भवा नित्यमुक्ता
ध्येया ज्ञेया निर्गुणा निर्विकल्पा ॥ ३७॥
आगमाब्धिलोडनेन सारभूतमाहृतं
शैलपुत्रिकभिधाशतत्रयामृतं मया।
ये भजन्ति सूरयस्तरन्ति ते महद्भयं
रोगजं च वैरिजं च मृत्युजं सर्वजम् ॥ ३८॥
॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य
नरसिंहसूनोः गणपतेः कृतिः उमात्रिशती समाप्ता ॥
अनुष्टुब्वृत्तम् (१-३६) । इन्द्रवज्रा (३७) । तूणकम् (३८) ।
उमात्रिशती नामावली
उमा । हैमवति । देवी । महादेवी । महेश्वरी ।
अजा । धूम्रा । सुरूपा । एका । विश्वसूः । विश्वधारिणी ॥ १-११॥
शिवा । भगवती । भद्रा । प्रकृतिः । विकृतिः । कृतिः ।
अनन्ता । अनादि । अव्यक्ता । दुर्गपारा । दुरात्यया ॥ १२-२२॥
स्वधा । स्वाहा । सुधा । पुष्टिः । सुखा । सोमस्वरुपिण् । तुष्टिः ।
निद्रा । विष्णुमाया । जातिः । धीः । चेतना । चितिः ॥ २३-३५॥
माता । शान्तिः । क्षमा । श्रद्धा । ह्रीः । वृत्तिः । व्यापिनी ।
स्मृतिः । शक्तिः । तृष्णा । क्षुधा । भ्रान्तिः । कान्तिः ।
छाया । रमा । दया ॥ ३५-५१॥
भवानी । राजसी । सृष्टिः । मृडानी । सात्त्विकी । स्थितिः ।
रुद्राणी । तामसी । मृत्युः । शर्वाणी । त्रिगुणा । परा ॥ ५२-६३॥
कृष्णा । लक्ष्मीः । कामधेनुः । आर्या । दाक्षायणी । सती ।
गणेशजननि । दुर्गा । पार्वति । ब्रह्मचारिणी ॥ ६४-७३ ॥
गम्भीरनादवद्धण्टा । कूष्माण्डा । षण्मुखप्रसूः ।
कात्यायनी । कालरात्रिः । गौरी । सिद्धिप्रदायिनि ॥ ७४-८०॥
अपर्णा । तापसी । बाला । कन्या । कान्तारचारिणी ।
महर्षिस्तुतचारित्रा । त्रिनेत्रार्धाङ्गभागिनी । ॥ ८१-८७॥
रमणीयतमा । राज्ञी । रजताद्रिनिवासिनी ।
गीर्वाणमौलिमाणिक्यनीराजितपदाम्बुजा ॥ ८७-९१ ॥
सर्वागमस्तुत । उपास्या । विद्या । त्रिपुरसुन्दरी । ।
कमलात्मा । छिन्नमस्ता । मातङ्गी । भुवनेश्वरी ॥ ९२-९९॥
तारा । धूमावति । काली । भैरवी । बगलामुखी ।
अनुल्लङ्घ्यतमा । सन्ध्या । सावित्री । सर्वमङ्गला ॥ १००-१०८ ॥
छन्दः । सवित्री । गायत्री । श्रुतिः । नादस्वरूपिणी ।
कीर्तनीयतमा । कीर्तिः । पावनी । परमा । अम्बिका ॥ १०९-११८॥
उषा । देव्यरुषी । मैत्री । भास्वती । सूनृता । अर्जुनी ।
विभावरी । बोधयित्री । वाजिनी । वाजिनीवती ॥ ११९-१२८ ॥
रात्रिः । पयस्वती । नम्या । धृताची । वारुणी । क्षपा ।
हिमानिवेशिनी । रौद्रा । रामा । श्यामा । तमस्वती ॥ १२९-१३९ ॥
कपालमालिनी । धोरा । कराला । अखिलमोहिनी ।
ब्रह्मस्तुता । महाकाली । मधुकैटभनाशिनी ॥ १४०-१४६ ॥
भानुपादाङ्गुलिः । ब्रह्मपादा । पाश्यूरुजङ्धिका ।
भूनितम्बा । शक्रमध्या । सुधाकरपयोधरा ॥ १४७-१५२ ॥
वसुहस्ताङ्गुलिः । विष्णुदोःसहस्रा । शिवानना ।
प्रजापतिरदा । वह्निनेत्रा । वित्तेशनासिका ॥ १५३-१५८ ॥
सन्ध्या-भ्रूयुगला । वायुश्रवणा । कालकुन्तला ।
सर्वदेवमयी । चन्डी । महिषासुरमर्दिनी ॥ १५९-१६४ ॥
कौशिकी । धूम्रनेत्रध्नी । चण्डमुण्डविनाशिनी ।
रक्तबीजप्रशमनी । निशुम्भमदशोषिणी ॥ १६५-१६९ ॥
शुम्भविध्वंसिनी । नन्दा । नन्दगोकुलसम्भवा ।
एकानंशा । मुरारातिभगिनी । विन्ध्यवासिनी ॥ १७०-१७५ ॥
योगीश्वरी । भक्तवश्या । सुस्तनी । रक्तदन्तिका ।
विशाला । रक्तचामुण्डा । वैप्रचित्तनिषूदिनी ॥ १७६-१८२ ॥
शाकम्भरी । दुर्गमध्नी । शताक्षी । अमृतदायिनी ।
भीमा । एकवीरा । भीमास्या । भ्रामरी । अरूणनाशिनी ॥ १८३-१९१॥
ब्रह्माणी । वैष्णवी । इन्द्राणी । कौमारी । सूकरानना ।
माहेश्वरी । नारसिंही । चामुण्डा । शिवदूतिका ॥ १९२-२०० ॥
गौः । भूः । मही । द्यौः । अदितिः । देवमाता । दयावती ।
रेणुका । रामजननी । पुण्या । वृद्धा । पुरातनी ॥ २०१-२१२ ॥
भारती । दस्युजिन्माता । सिद्धा । सौम्या । सरस्वती ।
विद्युत् । वाज्रेश्वरी । वृत्रनाशिनी । भूतिः । अच्युता ॥ २१३-२२२॥
दण्डिनी । पाशिनी । शूलहस्ता । खट्वाङ्गधारिणी ।
खड्गिनी । चापिनी । बाणधारिणी । मुसलायुधा ॥ २२३-२३० ॥
सीरायुधा । अङ्कुशवती । शङ्खिनी । चक्रधारिणी ।
उग्रा । वैरोचनी । दीप्ता । ज्येष्ठा । नारायणी । गतिः ॥ २३१-२४० ॥
महीश्वरी । वह्निरूपा । वायुरूपा । अम्बरेश्वरी ।
द्युनायिका । सूर्यरूपा । नीरूपा । अखिलनायिका ॥ २४१-२४८ ॥
रतिः । कामेश्वरी । राधा । कामाक्षी । कामवर्धिनी ।
भण्डप्रणाशिनी । गुप्ता । त्र्यम्बका । शम्भुकामुकी ॥ २४९-२५७॥
अरालनीलकुन्तला । सुधांशुसुन्दरानना ।
प्रफुल्लपद्मलोचना । प्रवाललोहिताधरा ॥ २५८-२६१ ॥
तिलप्रसूननासिका । लसत्कपोलदर्पणा ।
अनङ्गचापझिल्लिका स्मितापहास्यमल्लिका ॥ २६२-२६५ ॥
विवस्वदिन्दुकुण्डला । सरस्वतीजितामृता ।
समानवर्जितश्रुतिः । समानकम्बुकन्धरा ॥ २६६-२६९ ॥
अमूल्यमाल्यमण्डिता । मृणालचरुदोर्लता ।
करोपमेयपल्लवा । सुरोपजीव्यसुस्तनी ॥ २७०-२७३ ॥
बिसप्रसूनसायकक्षुराभरोमराजिका ।
बुधानुमेयमध्यमा । कटीतटीभरालसा ॥ २७४-२७६ ॥
प्रसूनसायकागमप्रवादचुञ्चुकाञ्चिका ।
मनोहरोरुयुग्मका । मनोजतूणजङ्धिका ॥ २७७-७९ ॥
क्वणत्सुवर्णहंसका । सरोजसुन्दराङ्ध्रिका ।
मतङ्गजेन्द्रगामिनी । महाबला । कलावती ॥ २८०-२८४ ॥
शुद्धा । बुद्धा । निस्तुला । निर्विकारा ।
सत्या । नित्या । निष्फला । निष्कलङ्का ।
अज्ञा । प्रज्ञा । निर्भवा । नित्यमुक्ता
ध्येया । ज्ञेया । निर्गुणा । निर्विकल्पा ॥ २८५-३०० ॥
From the complete volume 1 of collected works of Ganapati Muni
Encoded and proofread byDPD
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Uma Trishati Namavali Lyrics in Devanagari PDF
% File name : umAtrishatievamnAmAvalI.itx
% Category : trishatinAmAvalI
% Location : doc\_devii
% Author : Ganapati Muni with Ramana Maharshi
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : DPD
% Proofread by : DPD
% Description-comments : From Complete Works of Ganapati Muni Vol 1
% Latest update : November 24, 2012
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website