अमोघशिवकवचम्
{॥ अमोघशिवकवचम् ॥}
The amogha shivakavacha stotra
is found in the skandapurANa. It is believed that chanting of
these mantras everyday gets rid of the negative energy that affects
the human body and protects the body and soul. The kavach is peculiar
in the sense that it uses words like हुम्, वौषट्, वषट्, and
फट् which have no real meaning in the Sanskrit language but are
used to produce particular sound waves. This practice is found more
often in the skandapurAN than in any other ancient Sanskrit
literature. Usually Vedic mantras have meaning.
The kavach uses the procedure called न्यास , which involves
invoking particular deities to protect particular parts of the human
body. The practice of न्यास is prevalent since ancient times and
occurs in many Sanskrit rituals in different forms.
It is believed by some that the skandapuraNa is mystical and involves
many aspects, which are followed by those who follow यातुधान
(black magic) or the tantriks of शाक्त पन्थ |
॥ अथ अमोघशिवकवचम् ॥
॥ ऋष्यादिन्यासः ॥
ॐ ब्रह्मऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः, मुखे ।
श्रीसदाशिवरुद्रदेवताय नमः हृदि । ह्रीं शक्तये नमः पादयोः ।
वं कीलकाय नमः नाभौ । श्री ह्रीं क्लीमिति बीजाय नमः गुह्ये ।
विनियोगाय नमः, सर्वाङ्गे ।
॥ अथ करन्यासः ॥
ॐ नमो भगवते ज्वलज्ज्वालामलिने ॐ ह्रीं रां
सर्वशक्तिधान्मे ईशानात्मने अङ्गुष्ठाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामलिने ॐ नं रीं
नित्यतृप्तिधामे तत्पुरुषात्मने तर्जनीभ्यां स्वाहा ।
ॐ नमो भगवते ज्वलज्ज्वालामलिने ॐ मं रूं
अनादिशक्तिधान्मे अघोरात्मने मध्यमाभ्यां वषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामलिने ॐ शिं रैं
स्वतन्त्रशक्तिधान्मे वामदेवात्मने अनाभिकाभ्यां हुम् ।
ॐ नमो भगवते ज्वलज्ज्वालामलिने ॐ वा रौं
अलुप्तशक्तिधान्मे सद्योजातात्मने कनिष्ठकाभ्यां वौषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामलिने ॐ यं रः
अनादिशक्तिधान्मे सर्वात्मने करतलकरपृष्ठाभ्यां फट् ।
॥ हृदयाद्यङ्गन्यासः ॥

सर्वशक्तिधान्मे ईशानात्मने हृदयाय नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामलिने ॐ नं रीं
नित्यतृप्तिधान्मे तत्पुरुषात्मने शिरसे स्वाहा ।
ॐ नमो भगवते ज्वलज्ज्वालामलिने ॐ मं रूं
अनादिशक्तिधान्मे अघोरात्मने शिखाय वषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामलिने ॐ शिं रैं
स्वतन्त्रशक्तिधान्मे वामदेवात्मने कवचाय हुम् ।
ॐ नमो भगवते ज्वलज्ज्वालामलिने ॐ वां रौं
अलुप्तशक्तिधान्मे सद्योजातात्मने नेत्रत्रयाय वौषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामलिने ॐ यं रः
अनादिशक्तिधान्मे सर्वात्मने अस्त्राय फट् ।
अथ ध्यानम्
वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिंदमम् ।
सहस्रकरमप्युग्रं वन्दे शम्भुमुमापतिम् ।
॥ कवचम् ॥
नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ १॥
शुचौ देशे समासीनो यथावत्कल्पितासनः ।
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्यम् ॥ २॥
हत्पुण्डरीकान्तरसंनिविष्टं स्वतेजसा व्याप्तनभोऽवकाशम् ।
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत् परानन्दमयं महेशम् ॥ ३॥
ध्यानावधूताखिलकर्मबन्धश्चिरं चिदान्दनिमग्नचेताः ।
षडक्षरन्याससमाहितात्मा शैवेन कुर्यात् कवचेन रक्षाम् ॥ ४॥
मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे ।
तन्नाम दिव्यं वरमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥ ५॥
सर्वत्र मां रक्षतु विश्वमूर्तिर्ज्योतिर्म्यानन्दघनश्चिदात्मा ।
अणोरणीयानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥ ६॥
यो भूस्वरूपेण बिभर्ति विश्वं पायात् स भूमेर्गिरिशोऽष्टमूर्तिः ।
योऽपां स्वरूपेण नृणां करोति सञ्जीवनं सोऽवतु मां जलेभ्यः ॥ ७॥
कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।
स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ॥ ८॥
प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्त्रम् ॥ ९॥
कुठारवेदाङ्कुशपाशशूलकपालढक्काक्षगुणान् दधानः ।
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥ १०॥
कुदेंन्दुशङ्खस्फटिकावभासो वेदाक्षमालावरदाभयाङ्कः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योऽधिजातोऽवतु मां प्रतीचाम् ॥ ११॥
वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदिच्यां दिशि वामदेवः ॥ १२॥
वेदाभयेष्टाङ्कुशपाशटङ्क कपालढक्काक्षशूलपाणिः ।
सितद्युतिः पञ्चमुखोऽवतान्मा मीशान ऊर्ध्वं परमप्रकाशः ॥ १३॥
मूर्द्धानमव्यान्मम चंद्रमौलिर्भालं ममाव्यादथ भालनेत्रः ।
नेत्रे ममाव्याद् भगनेत्रहारी नासां सदा रक्षतुअ विश्वनाथः ॥ १४॥
पायाच्छुती मे श्रुतिगीतकीर्तिः कपोलमव्यात् सततं कपाली ।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिव्हः ॥ १५॥
कण्ठं गिरीशोऽवतु नीलकण्ठः पणिद्वयं पातु पिनाकपाणिः ।
दोर्मूलमव्यान्मम धर्मबाहुर्वक्षःस्थलं दक्षमखान्तकोऽव्यात् ॥ १६॥
ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।
हेरम्बतातो मम पातु नाभिं पायात् कटी धूर्जटिरीश्वरो मे ॥ १७॥
ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ।
जङ्घायुगं पुङ्गवकेतुरव्यात् पादौ ममाव्यात् सुरवन्द्यपादः ॥ १८॥
महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः ।
त्रियम्बकः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ॥ १९॥
पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे ।
गौरीपतिः पातु निशावंसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥ २०॥
अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् ।
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥ २१॥
तिष्ठन्तमव्याद्भुवनैकनाथः पायात् व्रजन्तं प्रमथाधिनाथः ।
वेदान्तवेद्योऽवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥ २२॥
मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः ।
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥ २३॥
कल्पान्तकाटोपपटुप्रकोपः स्फुटाट्टहासोच्चलिताण्डकोशः ।
घोरारिसेनार्णवदुर्निवार महाभयाद् रक्षतु वीरभद्रः ॥ २४॥
पत्त्यश्वमातङ्गघटावरूथ सहस्रलक्षायुतकोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठारधारया ॥ २५॥
निहन्तु दस्यून् प्रलयानलार्चिर्ज्वलत् त्रिशूलं त्रिपुरान्तकस्य ।
शार्दूलसिंहर्क्षवृकादिहिंस्त्रान् सन्त्रासयत्वीशधनुः पिनाकम् ॥ २६॥
दुःस्वप्नदुश्शकुनदुर्गतिदौर्मनस्य
दुर्भिक्षदुर्व्यसनदुस्सहदुर्यशांसि ।
उत्पाततापविषभीतिमसद् ग्रहार्ति-
व्याधींश्च नाशयतु मे जगतामधीशः ॥ २७॥
ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय
सकलतत्वविहाराय सकललोकैककत्रे सकललोकैकभत्रे
सकललोककैकहत्रे सकललोककैकगुरवे सकललोकैकसाक्षिणे
सकलनिगमगुह्याय सकलवरप्रदाय सकलदुरितार्त्तिभञ्जनाय
सकलजगदभयङ्काराय सकललोकैकशङ्कराय शशाङ्कशेखराय
शाश्वत निजाभासाय निर्गुणाय निरुपमाय नीरूपाय निराभासाय
निरामाय निष्प्रपञ्जाय निष्कलङ्काय निर्द्वन्द्वाय निस्सङ्गाय
निर्मलाय निर्गमाय नित्यरूपविभवाय निरुपमविभवाय निराधाराय
नित्यशुद्धपरिपूर्णसच्चिदानन्दाद्वयाय परमशान्तप्रकाशतेजोरुपाय
जय जय महारुद्र महारौद्र भद्रावतार दुःखदावदारण
महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर
खट्वाङ्गखङ्गचर्मपाशाङ्कुशडमरुशूलचापबाणगदाशक्तिभिन्दिपाल
तोमरमुसलमुद्गरपट्टिशपरशुपरिघभुशुण्डीशतघ्नीचक्रद्यायुध
भीषणकर सहस्रमुख दंष्ट्राकराल
विकटाट्टहासविस्फारितब्रह्माण्डमण्डलनागेन्द्रकुण्डल नागेन्द्रहार
नागेन्द्रवलय नागेन्द्रचर्मधर मृत्युञ्जय त्र्यम्बक
त्रिपुरान्तक विरूपाक्ष विश्वेश्वर विश्वरुप वृषभवाहन
विषभूषण विश्वतोमुख सर्वतो रक्ष रक्ष मां ज्वल ज्वल
महामृत्युभयमपमृत्युभयं नाशय नाशय विषसर्पभयं
शमय शमय चोरभयं मारय मारय मम शत्रूनुच्चाटयोच्चाटय
शूलेन विदराय विदारय खङ्गेन छिन्धि छिन्धि खट्वाङ्गेन
विपोथय विपोथय मुसलेन निष्पेषय निष्पेषय बाणै सन्ताडय
सन्ताडय रक्षांसि भीषय भीषय भूतानि विद्रावय विद्रावय
कूष्माण्डवेतालमारीगणब्रह्मराक्षसान् सन्त्रासय सन्त्रासय मामभयं
कुरु कुरु वित्रस्तं मामाश्वासयाश्वासय नरकभयान्मामुद्धरोद्धारय
सञ्जीवय सञ्जीवय क्षुत्तृड्भ्यां मामाप्याययाप्यायय दुःखातुरं
मामानन्दयानन्दय शिवकवचेन मामाच्छादयाच्छादय त्र्यम्बक सदाशिव
नमस्ते नमस्ते नमस्ते ।
ऋषभ उवाच
इत्येतत्कवचं शैवं वरदं व्याहृतं मया ।
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ॥ २८॥
यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।
न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् ॥ २९॥
क्षीणायुर्मृत्युमापन्नो महारोगहतोऽपि वा ।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ॥ ३०॥
सर्वदारिद्र्यशमनं सौमङ्गल्यविवर्धनम् ।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥ ३१॥
महापातकसङ्घातैर्मुच्यते चोपपातकैः ।
देहान्ते शिवमाप्नोति शिववर्मानुभावतः ॥ ३२॥
त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥ ३३॥
इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्रयां तृतीये
ब्रह्मोत्तरखण्डे अमोघशिवकवचं सम्पूर्णम् ।
Encoded and proofread by
Surin Usgaonkar usgaonkar at hotmail.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Amogha Shiva kavacham Lyrics in Devanagari PDF
% File name : amoghashivakavach.itx
% Category : kavacha
% Location : doc\_shiva
% Language : Sanskrit
% Subject : Hinduism/religion/traditional
% Transliterated by : Surin Usgaonkar usgaonkar at hotmail.com
% Proofread by : Surin Usgaonkar usgaonkar at hotmail.com
% Description-comments : shrIskaande mahaapuraaNe ekaashItisaahasrayaa.n tRitIye brahmottarakhaNDe
% Latest update : October 14, 2005, September 28, 2014
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 12, 2015 ] at Stotram Website