गायत्री मञ्जरी

{॥ गायत्री मञ्जरी ॥}
एकदा तु महादेवं कैलाशगिरिसंस्थितम् ।
पप्रच्छ देवी वन्द्या विबुधमण्डलैः ॥ १॥

कतमं योगमासीनो योगेश त्वमुपाससे ।
येन हि परमां सिद्धिं प्राप्नुवान् जगदीश्वर ॥ २॥

श्रुत्वा तु पार्वती वाचं मधुसिक्तां श्रुतिप्रियाम् ।
समुवाच महादेवो विश्वकल्याणकारकः ॥ ३॥

महद्रहस्यं तद्गुप्तं यत्तु पृष्टं त्वया प्रिये ।
तथापि कथयिष्यामि स्नेहात्तत्त्वामहं समम् ॥ ४॥

गायत्री वेद मातास्ति साद्या शक्तिर्मता भुवि ।
जगतां जननी चैव तामुपासेऽहमेव हि ॥ ५॥

यौगिकानां समस्तानां साधनानां तु हे प्रिये ।
गायत्र्येव मता लोके मूलाधारो विदांवरैः ॥ ६॥

अति रहस्यमय्येषा गायत्री तु दश भुजा ।
लोकेऽति राजते पञ्च धारयन्ति मुखानि तु ॥ ७॥

अति गूढानि संश्रुत्य वचनानि शिवस्य च ।
अति संवृद्ध जिज्ञासा शिवमूचे तु पार्वती ॥ ८॥

पञ्चास्य दशबाहूनामेतेषां प्राणवल्लभ ।
कृत्वा कृपां कृपालो त्वं किं रहस्यं तु मे वद ॥ ९॥

श्रुत्वा त्वेतन्महादेवः पार्वतीवचनं मृदु ।
तस्याः शंकामपाकुर्वन् प्रत्युवाच निजां प्रियाम् ॥ १०॥

गायत्र्यास्तु महाशक्तिर्विद्यते या हि भूतले ।
अनन्य भावतो ह्यस्मिन्नोतप्रोतोऽस्ति चात्मनि ॥ ११॥

बिभर्ति पञ्चावरणान् जीवः कोशास्तु ते मताः ।
मुखानि पञ्च गायत्र्यास्तानेव वेद पार्वति ॥ १२॥

विज्ञानमयान्नमय-प्राणमय-मनोमयाः ।
तथानन्दमयश्चैव पञ्च कोशाः प्रकीर्तिताः ॥ १३॥

एष्वेव कोशकोशेषु ह्यनन्ता ऋद्धि सिद्धयः ।
गुप्ता आसाद्य या जीवो धन्यत्वमधिगच्छति ॥ १४॥

यस्तु योगीश्वरो ह्येतान् पञ्च कोशान्नु वेधते ।
स भवसागरं तीर्त्वा बन्धनेभ्यो विमुच्यते ॥ १५॥

गुप्तं रहस्यमेतेषां कोषाणां योऽवगच्छति ।
परमां गतिमाप्नोति स एव नात्र संशयः ॥ १६॥

लोकानां तु शरीराणि ह्यन्नादेव भवन्ति नु ।
उपत्यकासु स्वास्थ्यं च निर्भरं वर्तते सदा ॥ १७॥

आसनेनोपवासेन तत्त्व शुद्ध्या तपस्यया ।
चैवान्नमयकोशस्य संशुद्धिरभिजायते ॥ १८॥

ऐश्वर्यं पुरुषार्थश्च तेज ओजो यशस्तथा ।
प्राणशक्त्या तु वर्धन्ते लोकानामित्यसंशयम् ॥ १९॥

पञ्चभिस्तु महाप्राणैर्लघुप्राणैश्च पञ्चभिः ।
एतैः प्राणमयः कोशो जातो दशभिरुत्तमः ॥ २०॥

बन्धेन मुद्रया चैव प्राणायामेन चैव हि ।
एष प्राणमयः कोशो यतमानं तु सिद्ध्यति ॥ २१॥

चेतनाया हि केन्द्रन्तु मनुष्याणां मनोमतम् ।
जायते महतीत्वन्तः शक्तिस्तस्मिन् वशङ्गते ॥ २२॥

ध्यान-त्राटक-तन्मात्रा जपानां साधनैर्ननु ।
भवत्युज्ज्वलः कोशः पार्वत्येष मनोमयः ॥ २३॥

यथावत् पूर्णतो ज्ञानं संसारस्य च स्वस्य च ।
नूनमित्येव विज्ञानं प्रोक्तं विज्ञानवेत्तृभिः ॥ २४॥

साधना सोऽहमित्येषा तथा वात्मानुभूतयः ।
स्वराणां संयमश्चैव ग्रन्थिभेदस्तथैव च ॥ २५॥

एषां संसिद्धिभिर्नूनं यतमानस्य ह्यात्मनि ।
नु विज्ञानमयः कोशः प्रिये याति प्रबुद्धताम् ॥ २६॥

आनन्दावरणोन्नत्यात्यन्तशान्ति-प्रदायिका ।
तुरीयावस्थितिर्लोके साधकं त्वधिगच्छति ॥ २७॥

नाद बिन्दु कलानां तु पूर्ण साधनया खलु ।
नन्वानन्दमयः कोशः साधके हि प्रबुद्ध्यते ॥ २८॥

भूलोकस्यास्य गायत्री कामधेनुर्मता बुधैः ।
लोक आश्रयणेनामूं सर्वमेवाधिगच्छति ॥ २९॥

पञ्चास्या यास्तु गायत्र्याः विद्यां यस्त्ववगच्छति ।
पञ्चतत्त्व प्रपञ्चात्तु स नूनं हि प्रमुच्यते ॥ ३०॥

दशभुजास्तु गायत्र्याः प्रसिद्धा भुवनेषु याः ।
पञ्च शूल महाशूलान्येताः सङ्केतयन्ति हि ॥ ३१॥

दशभुजान्नामेतासां यो रहस्यं तु वेत्ति यं सः ।
त्रासं शूलमहाशूलानां ना नैवावगच्छति ॥ ३२॥

दृष्टिस्तु दोषसंयुक्ता परेषामवलम्बनम् ।
भयं च क्षुद्रताऽसावधानता स्वार्थयुक्तता ॥ ३३॥

अविवेकस्तथावेशस्तृष्णालस्यं तथैव च
एतानि दश शूलानि शूलदानि भवन्ति हि ॥ ३४॥

निजैर्दशभुजैर्नूनं शूलान्येतानि तु दश ।
संहरते हि गायत्री लोककल्याणकारिणी ॥ ३५॥

कलौ युगे मनुष्याणां शरीराणीति पार्वति ।
पृथ्वी तत्त्व प्रधानानि जानास्येव भवन्ति हि ॥ ३६॥

सूक्ष्मतत्त्व प्रधानान्ययुगोद्भूत नृणामतः ।
सिद्धीनां तपसामेते न भवन्त्यधिकारिणः ॥ ३७॥

पञ्चाङ्ग योग संसिद्ध्या गायत्र्यास्तु तथापि ते ।
तद्युगानां सर्वश्रेष्ठां सिद्धिं सम्प्राप्नुवन्ति हि ॥ ३८॥

गायत्र्या वाममार्गीयं ज्ञेयमत्युच्चसाधकैः ।
उग्रं प्रचण्डमत्यन्तं वर्तते तन्त्र साधनम् ॥ ३९॥

अत एव तु तद्गुप्तं रक्षितं हि विचक्षणैः ।
स्याद्यतो दुरुपयोगो न कुपात्रैः कथंचन ॥ ४०॥

गुरुणैव प्रिये विद्या तत्त्वं हृदि प्रकाश्यते ।
गुरुं विना तु सा विद्या सर्वथा निष्फला भवेत् ॥ ४१॥

गायत्री तु पराविद्या तत्फलावाप्तये गुरुः ।
साधकेन विधातव्यो गायत्री-तत्त्व पण्डितः ॥ ४२॥

गायत्रीं यो विजानाति सर्वं जानाति स ननु ।
जानातीमां न यस्तस्य सर्वा विद्यास्तु निष्फलाः ॥ ४३॥

गायत्र्येवतपो योगः साधनं ध्यानमुच्यते ।
सिद्धीनां सा मता माता नातः किञ्चित् बृहत्तरम् ॥ ४४॥

गायत्री साधना लोके न कस्यापि कदापि हि ।
याति निष्फलतामेतत् ध्रुवं सत्यं हि भूतले ॥ ४५॥

गुप्तमुक्तं रहस्यं यत् पार्वति त्वां पतिव्रताम् ।
प्राप्स्यन्ति परमां सिद्धिं ज्ञास्यन्त्येतत् तु ये जनाः ॥ ४६॥

॥ इति ॥

Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Gayatri Manjari Lyrics in Devanagari PDF
% File name : gAyatrI\_manjarI.itx
% Location : doc\_devii
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Sunder Hattangadi sunderh at hotmail.com
% Proofread by : Sunder Hattangadi sunderh at hotmail.com
% Source : Gayatri Mahavijnana -Pandit
% Latest update : Mar. 14, 2014
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website