ॐ अथ महागायत्रीलीलास्तुतिः । सदा गवेषयन् जगत्रयेषु वेदमातरं चिदात्मना कृतस्थितं समत्र चाद्य लब्धवान् । उदस्रु गददं महोदयात्प्रणौमि भक्तिनौकया सुदुस्तरं द्रुतं तितीर्षुरापदर्णवम् ॥ १॥ सुहीनलोकपातिनी सतां कृपाऽतिशोभते ह्यत्सुधांशुचक्षुषे क्षयाम्ब ! माद्यशं जनम् । नवापि हीयते तवेषदीशि ! पालनेननो भवाद्यतः कुपुत्रता न भासते प्रसूह्रदि ॥ २। नमामि मुक्तविद्रुमप्रतप्तहाटकाऽसिता- वदातवर्णसुन्दरैः षडर्धलोललोचनैः । सरोजषण्डबान्धवप्रतप्तपावकप्रभैः किरीटरत्नरञ्जितैः सुधांशुखण्डमण्डितैः ॥ ३॥ मुखैर्दशार्धसंमितैर्विराजमानविग्रहां सुरेशचापसप्रभां समस्तदेववन्दिताम् । वराभयाङ्कुशान्वितैः कपालशूल शङ्ख- चक्रसारसद्वयीगुणाङ्कितैः करैर्विराजिताम् ॥ ४॥ भवद्रुमस्य मूलतां गतां मुनीन्द्रवन्दिताम् अखण्ड भावमण्डलप्रकाशकारिणीं शिवाम् । समस्तदेवतामयीं समस्त सिद्धिदयिनीम् पूर्वरूप विग्रहां सरस्वतीं भवार्तिहाम् ॥ ५॥ शुचीन्दुसूर्यलोचनां शुचीन्दुसूर्य विग्रहाम् शुचीन्दुसूर्यसङ्गमस्वभावशालिनीं शुभाम् । पदद्वयानुकम्पितस्वशक्तिचक्रसेवितां परेशशक्तिमुत्तमां भजे त्रिलोकसुन्दरीम् ॥ ६॥ महामहेश्वरी जगद्विसर्गसुस्थितिक्षय- स्वतन्त्रता शरीरिणी बभूव या महेशितुः । द्विपत्रितादिभेदतो लतायमानविग्रहा त्रयीश्वरी सदा तु सा जगङ्जयाय जायताम् ॥ ७॥ नमामि तन्मुखारविन्दपञ्चकं मलापहं गलैकनालकं सदाविकासि भक्तिसम्भवम् । स्वभक्तहंससेवितं शुचीन्दुपद्मबन्धवः प्रतीकभूतविग्रहा गता हि यत्र पञ्चताम् ॥ ८॥ भवार्णवेऽतिदुःसहस्मराधिदिग्धमानसं षडूर्मिनित्यपीडितं जनं दिधीर्षुमानसा । श्रुतिध्वनिस्फुरन्मुखारविन्दभूसुरैः सदा त्रिसन्ध्यमीश्वरी नुताऽस्तु सा सुखप्रदा हि नः ॥ ९॥ त्रयीप्रसूः स्वदृष्टिपातधूतभक्तकल्मषा समैर्जुनैर्नुता मुदा स्ववर्णधर्मभेदतः । निलिम्पनिम्नगामिषेण पादद्यौतजं जलं यदीयमागतं क्षिर्ति तनोतु नः शिवं तु सा ॥ १०॥ स्वदम्भवञ्चिताखिलं कुभोगसक्तमानसं सदाऽशुचिं कुमार्गगं शठं च शङ्कसे यदि । कथं स्वपादचिन्तनोत्थवैभवं नहीश्वरि ! यतोङ्व्रिचिन्तकं दयादृशेक्षसे न माद्यशम् ॥ ११॥ अनेकदोषदूषितेष्वनिर्विवेचना सती स्वतन्त्रशक्तिरीश्वरी भवाधनाशकारिणी । कृपामयीम् दृशं विधाय सा स्वभक्तिपात्रितं स्वपत्कजे मधुव्रतं करोतु मामहर्निशम् ॥ १२॥ त्रिसन्ध्यमिष्टदैवतं सुकेशवास्यजं स्तवं स्मरन् हृदीद्धभावनो विधाय वेदमातरम् । विधूय पापसञ्चयं वितीर्य कीर्तिमुत्तमाम्- इह त्वमुत्र कैवलं पदं स याति निर्भयम् ॥ १३॥ इति श्रीमहागायत्रीलीलास्तुतिः । Encoded and proofread Jagannath Vedula jvedula at yahoo.com % Text title : mahAgAyatrilIlAstuti % File name : mahAgAyatrIlIlAstuti.itx % itxtitle : mahAgAyatrilIlAstuti % engtitle : Mahagayatrililastuti % Location : doc_devii % Sublocation : devii % SubDeity : gAyatrI % Texttype : stotra % Language : Sanskrit % Subject : philosophy/hinduism/religion % Transliterated by : Jagannath Vedula jvedula at yahoo.com % Proofread by : Jagannath Vedula jvedula at yahoo.com % Latest update : September 11, 2013 % Send corrections to : Sanskrit@cheerful.com % Site access : http://sanskritdocuments.org This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.