॥ तुलसीकवचम् ॥ श्रीगणेशाय नमः । अस्य श्रीतुलसीकवचस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः । अनुष्टुप्छन्दः । श्रीतुलसी देवता । मन‍ईप्सितकामनासिद्ध्यर्थं जपे विनियोगः । तुलसि श्रीमहादेवि नमः पङ्कजधारिणि । शिरो मे तुलसी पातु भालं पातु यशस्विनी ॥१॥ दृशौ मे पद्मनयना श्रीसखी श्रवणे मम । घ्राणं पातु सुगन्धा मे मुखं च सुमुखी मम ॥२॥ जिह्वां मे पातु शुभदा कण्ठं विद्यामयी मम । स्कन्धौ कह्लारिणी पातु हृदयं विष्णुवल्लभा ॥३॥ पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनीई । कटिं कुण्डलिनिं पातु ऊरू नारदवन्दिता ॥४॥ जननी जानुनी पातु जङ्घे सकलवन्दिता । नारायणप्रिया पादौ सर्वाङ्गं सर्वरक्षिणी ॥५॥ सङ्कटे विषमे दुर्गे भये वादे महाहवे । नित्यं हि सन्धयोः पातु तुलसी सर्वतः सदा ॥६॥ इतीदं परमं गुह्यं तुलस्याः कवचामृतम् । मर्त्यानाममृतार्थाय भीतानामभयाय च ॥७॥ मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् । वशाय वश्यकामानां विद्यायै वेदवादिनाम् ॥८॥ द्रविणाय दरिद्राणां पापिनां पापशान्तये ॥९॥ अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छिताम् ॥१०॥ राज्याय भ्रष्टराज्यानामशान्तानां च शान्तये । भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ॥११॥ जाप्यं त्रिवर्गसिद्ध्यर्थं गृहस्थेन विशेषतः । उद्यन्तं चण्डकिरणमुपस्थाय कृताञ्जलिः ॥१२॥ तुलसीकानने तिष्ठन्नासीनो वा जपेदिदम् । सर्वान्कामानवाप्नोति तथैव मम सन्निधिम् ॥१३॥ मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् । या स्यान्मृतप्रजा नारी तस्या अङ्गं प्रमार्जयेत् ।१४॥ सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् । वन्ध्याया मार्जयेदङ्गं कुशैर्मन्त्रेण साधकः ॥१५॥ साऽपि संवत्सरादेव गर्भं धत्ते मनोहरम् । अश्वत्थे राजवश्यार्थी जपेदग्नेः सुरूपभाक् ॥१६॥ पलाशमूले विद्यार्थी तेजोर्थ्यभिमुखो रवेः । कन्यार्थी चण्डिकागेहे शत्रुहत्यै गृहे मम ॥१७॥ श्रीकामो विष्णुगेहे च उद्याने स्त्री वशा भवेत् । किमत्र बहुनोक्तेन शृणु सैन्येश तत्त्वतः ॥१८॥ यं यं काममभिध्यायेत्तं तं प्राप्नोत्यसंशयम् । मम गेहगतस्त्वं तु तारकस्य वधेच्छया ॥१९॥ जपन् स्तोत्रं च कवचं तुलसीगतमानसः । मण्डलात्तारकं हन्ता भविष्यसि न संशयः ॥२०॥ इति श्रीब्रह्माण्डपुराणे तुलसीमाहात्म्ये तुलसीकवचं नाम स्तोत्रम् ॥ % Text title : tulasiikavacham % File name : tulasiikavacham.itx % itxtitle : tulasIkavacham % engtitle : Tulasi-kavacham % Category : kavacha % Location : doc_deities_misc % Sublocation : DEITY % SubDeity : tulasI % Language : Sanskrit % Subject : philosophy/hinduism % Transliterated by : Sunder Hattangadi (sunderh at hotmail.com) % Proofread by : Sunder Hattangadi (sunderh at hotmail.com) % Latest update : Dec. 3, 2009 % Send corrections to : Sanskrit@cheerful.com % Site access : http://sanskritdocuments.org This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.