ॐ भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि । सकलकलुषभङ्गे स्वर्गसोपानगङ्गे तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ १॥ भगवति भवलीलामौइलिमाले तवाम्भः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति । अमरनगरनारिचामरमरग्राहिणीनां विगतकलिकलङ्कातङ्कमङ्के लुठन्ति ॥ २॥ ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती खल्लो।र्कात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती । क्षोणी पृष्ठे लुठन्ती दुरितचयचमूनिंर्भरं भत्स।र्यन्ती पाथोधिं पुरयन्ती सुरनगरसरित् पावनी नः पुनातु ॥ ३॥ मज्जनमातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं स्नानंः सिद्धाङ्गनानां कुचयुगविगलत् कुङ्कुमासङ्गपिङ्गम् । सायम्प्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं पाय न्नो गाङ्गमम्भः करिकलभकराक्रान्तरं हस्तरङ्गम् ॥ ४॥ आदावादि पितामहस्य नियमव्यापारपात्रे जलं पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शम्भुजटाविभूषणमणिः जहनोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ ५॥ शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी पारावारविहारिणी भवभयश्रेणी समुत्सारिणी । शेषाहेरनुकारिणी हरशिरोवल्लिदलाकारिणी काशीप्रान्तविहारिणी विजयते गङ्गा मनूहारिणो ॥ ६॥ कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं त्वमापीता पीताम्बरपुग्निवासं वितरसि । त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ॥ ७॥ गङ्गे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे । प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गङ्गे प्रसीद ॥ ८॥ मातर्जाह्नवी शम्भुसङ्गवलिते मौलै निधायाञ्जलिं त्वत्तीरे वपुषोऽवसानसमये नारायणान्ध्रिद्वयम् । सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे भूयात् भक्तिरविच्युता हरिहरद्वैतात्मिका शाश्वती ॥ ९॥ गङ्गाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः । सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति ॥ १०॥ Encoded and proofread by Dhrup Chand % Text title : ga.ngAShTaka % File name : gangaashta.itx % itxtitle : gaNgAShTakam % engtitle : gangAShTakam % Category : aShTaka % Location : doc_devii % Sublocation : devii % SubDeity : nadI % Language : Sanskrit % Subject : philosophy/hinduism/religion % Transliterated by : Dhrup Chand % Proofread by : Dhrup Chand % Latest update : 1998, October 5, 2010 % Send corrections to : Sanskrit@cheerful.com % Site access : http://sanskritdocuments.org This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.