शिवस्य कवचं स्तोत्रं श्रूयतामिति शौनक । वसिष्ठेन च यद्दत्तं गन्धर्वाय च यो मनुः ॥ ३९॥ ओं नमो भगवते शिवाय स्वाहेति च मनुः । दत्तो वसिष्ठेन पुरा पुष्करे कृपया विभो ॥ ४०॥ अयं मन्त्रो रावणाय प्रदत्तो ब्रह्मणा पुरा । स्वयं शम्भुश्च बाणाय तथा दुर्वाससे पुरा ॥ ४१॥ मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् । ध्यायेन्नित्याधिकं ध्यानं वेदोक्तं सर्वसम्मतम् ॥ ४२॥ ॐ नमो महादेवाय । बाण उवाच । महेश्वर महाभाग कवचं यत् प्रकाशितम् । संसारपावनं नाम कृपया कथय प्रभो ॥ ४३॥ महेश्वर उवाच । शृणु वक्ष्यामि हे वत्स कवचं परमाद्भुतम् । अहं तुभ्यं प्रदास्यामि गोपनीयं सुदुर्लभम् ॥ ४४॥ पुरा दुर्वाससे दत्तं त्रैलोक्यविजयाय च । ममैवेदं च कवचं भक्त्या यो धारयेत् सुधीः ॥ ४५॥ जेतुं शक्नोति त्रैलोक्यं भगवन्नवलीलया । संसारपावनस्यास्य कवचस्य प्रजापतिः ॥ ४६॥ ऋषिश्च्छन्दश्च गायत्री देवोऽहं च महेश्वरः । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ४७॥ पञ्चलक्षजपेनैव सिद्धिदं कवचं भवेत् । यो भवेत् सिद्धकवचो मम तुल्यो भवेद्भुवि । तेजसा सिद्धियोगेन तपसा विक्रमेण च ॥ ४८॥ शम्भुर्मे मस्तकं पातु मुखं पातु महेश्वरः । दन्तपंक्तिं नीलकण्ठोऽप्यधरोष्ठं हरः स्वयम् ॥ ४९॥ कण्ठं पातु चन्द्रचूडः स्कन्धौ वृषभवाहनः । वक्षःस्थलं नीलकण्ठः पातु पृष्ठं दिगम्बरः ॥ ५०॥ सर्वाङ्गं पातु विश्वेशः सर्वदिक्षु च सर्वदा । स्वप्ने जागरणे चैव स्थाणुर्मे पातु सन्ततम् ॥ ५१॥ इति ते कथितं बाण कवचं परमाद्भुतम् । यस्मै कस्मै न दातव्यं गोपनीयं प्रयत्नतः ॥ ५२॥ यत् फलं सर्वतीर्थानां स्नानेन लभते नरः । तत् फलं लभते नूनं कवचस्यैव धारणात् ॥ ५३॥ इदं कवचमज्ञात्वा भजेन्मां यः सुमन्दधीः । शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ५४॥ इति श्रीब्रह्मवैवर्ते शङ्करकवचं समाप्तम् । brahmavaivartapurANa brahmakhaNDaM adhyAya 19 shloka 39-54 Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com % File name : bANeshvarakavachaBVP.itx % Text title : bANeshvara evaM sa.nsArapAvana kavachaM brahmavaivarta purANAntargatam % Author : % Subject : philosophy/hinduism/religion % Transliterated by : PSA Easwaran psaeaswaran at gmail.com % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Translated by : % Description/comments : brahmavaivartapurANa brahmakhaNDaM adhyAya 19 shloka 39-54 % Latest update : January 25, 2013 % Send corrections to : sanskrit@cheerful.com This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.