श्रीराधास्तवनं गणेशकृतम्
{॥ श्रीराधास्तवनं गणेशकृतम् ॥}
श्रिगणेश उवाच ।
तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे।
ब्रह्मस्वरूपा भवती कृष्णवक्षःस्थलस्थिता ॥ १॥
यत्पादपद्ममतुतलं ध्यायन्ते ते सुदुर्लभम् ।
सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः ॥ २॥
जिवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः ।
तस्य प्राणाभिदेवि त्वं प्रिया प्रानाधिका परा ॥ ३॥
वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः ।
महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता ॥ ४॥
वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी ।
वेदानां जगतामेव मूलप्रकृतिरीश्वरी ॥ ५॥
सर्वाः प्रकृतिका मातः सृष्ट्यां च त्वद्विभूतयः ।
विश्वानि कार्यरूपाणि त्वं च कारणरूपिणी ॥ ६॥
प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि ।
आदौ राधां समुच्चार्य पश्चात् कृष्णं परात्परम् ॥ ७॥
स एव पण्डितो योगी गोलोकं याति लीलया ।
व्यतिक्रमे महापी ब्रह्महत्यां लभेद् ध्रुवम् ॥ ८॥
जगतां भवती माता परमात्मा पिता हरिः ।
पितुरेव गुरुर्माता पूज्या वन्द्या परत्परा ॥ ९॥
भजते देवमन्यं वा कृष्णं वा सर्वकारणम् ।
पुण्यक्षेत्रे महामूढो यदि निन्दा राधीकाम् ॥ १०॥
वंशहानिर्भवेत्तस्य दुःखशोकमिहैव च ।
पच्यते निरते घोरे याव द्रदिवाकरौ ॥ ११॥
गुरुश्च ज्ञानोद्गिरणाज्ज्ञानं स्यान्मंत्रतंत्रयोः ।
स च मन्त्रश्च तत्तन्त्रं भक्तिः स्याद् युवयोर्यतः ॥ १२॥
निशेव्य मन्त्रं देवानां जीवा जन्मनि जन्मनि ।
भक्ता भवन्ति दुर्गायाः पादपद्मे सुदुर्लभे ॥ १३॥
निषेव्य मन्त्रं शम्भोश्च जगतां कारणस्य च ।
तदा प्राप्नोति युवयोः पादपद्मं सुदुर्लभम् ॥ १४॥
युवयोः पादपद्मं च दुर्लभं प्राप्य पुण्यवान् ।
क्षणार्धं षोडशांशं च न हि मुञ्चति दैवतः ॥ १५॥
भक्त्या च युवयोर्मन्त्रं गृहीत्वा वैष्णवादपि ।
स्तवं वा कवचं वापि कर्ममूलनिकृन्तनम् ॥ १६॥
यो जपेत् परया भक्त्या पुण्यक्षेत्रे च भारते ।
पुरुषाणां सहस्रं च स्वात्मना सार्धमुद्धरेत् ॥ १७॥
गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचन्दनैः ।
कवचं धारयेद् यो हि विष्णुतुल्यो भवेद् ध्रुवम् ॥ १८॥
॥ इति श्री ब्रह्मवैवर्ते गणेशकृतं श्रीराधास्तवनं
सम्पूर्णम् ॥
Encoded by Daniël Mohanpersad danielmohanpersad98@msn.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Radha Stavanam Lyrics in Devanagari PDF
% File name : rAdhAgaNesha.itx
% Location : doc\_deities\_misc
% Language : Sanskrit
% Subject : hinduism/religion
% Transliterated by : Daniel Mohanpersad danielmohanpersad98 at msn.com
% Proofread by : Daniel Mohanpersad danielmohanpersad98 at msn.com
% Translated by : -
% Latest update : June 26, 2002
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website